SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ एसणा 65 - अभिधानराजेन्द्रः - भाग 3 एसणा साधरणानिसृष्टस्यदातृभावपरिणतस्य चकः परस्परं प्रतिविशेषः उच्यते साधारणा निसृष्टं दायकपरोक्षत्वे दातृभावापरिणतं तु दायकसमक्षत्वे इति। संप्रति गृहीतविषयं भावापरिणतमाह।। एगेण वा वि तेसिं, मणम्मि परिणामियं न इयरणं / तं पिहु होइ अगेजं, सब्भिलगा सामिसाहू य॥ एकेनापि केनचित् अग्रेतनेन पाश्चात्येन वा एषणीयमिति मनसि परिणमितं न इतरेण द्वितीयेन तदपि भावतोऽपरिणतमपि कृत्वा साधूनामग्राह्यं शङ्कितत्वात्कलहादिदोषसंभवाच्च। संप्रति द्विविधस्यापि भावापरिणतस्य विषयमाह (सब्भिलगेत्यादि) तत्र दातृविषयं भावापरिणतं मातृविषयं स्वामिविषयं च ग्रहीतृविषयं भावापरिणतं साधुविषयम् / उक्तमपरिणतद्वारम् / संप्रति लिप्तद्वारं वक्तव्यं तत्र लिप्त यत्र दध्यादिद्रव्यलेपो लगति तच न ग्राह्यम्। घेत्तवमलेवकम,लेवकडे मा हुं पच्छकम्माई। नय रसगेहि पसंगो, इइ वुत्ते चोयगो भणइ॥ इह साधुना तदैव ग्रहीतव्यमलेपकृत् बल्लचनकादिमा भूवन् लेपकृति गृह्यमाणे पश्चात्कदियो दध्यादिलिप्तहस्ता-दिप्रक्षालनादिरूपा दोषाः आदिशब्दात्कीटिकादिसंसक्त-वस्त्रादिप्रोञ्छनादिपरिग्रहः / अतो लेपकृन्न ग्रहीतव्यम्। अलेपग्रहणे गुणमाह / न च सदैवालेपकृतो ग्रहणे रसगृद्धिप्रसङ्गो रसाभ्य-वहारलाम्पठ्यवृद्धिस्तस्मात्तदेव साधुभिः सदैवाभ्यवहार्यम् / एवमुक्ते सति चोदको भणति। जइ पच्छ कम्मदोसा, हवंति मा चेव भुजउ सययं / तवनियमसंजमाणं, चोयगहाणी खमंतस्स।। यदि लेपकृद्हणे पश्चात्कर्मदोषाः पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधुर्भुङ्काम्। एवं हि दोषाणां सर्वेषां मूलत एवोत्थानं निषिद्धं भवति / सूरिराह हे चोदक ! सर्वकालं क्षमापयतोऽनशनतपोरूपं क्षपणं कुर्वतः साधो श्वरमकालभवे तपोनियमसंयमानां हानिर्भवतितस्मान्न यावज्जीवं क्षपणं कार्यम्। पुनरपि परः प्राह यदि सर्वकालं क्षपणं कुर्तमशक्तस्तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विलु-प्तम् / गुरुराह यद्येवं कुर्वन् तपःसंयमयोगान् कर्तुं शक्नोति तर्हि करोतुन कोऽपितस्य निषेधः / ततो भूयोऽपि चोदको ब्रूते / यद्येवं तर्हि षण्मासान् उपोष्याचाम्लेन भुक्तांन तेन तच्छक्रोति तत एकदिनहान्या तावत्परिभावयेत् यावचतुर्थमुपेक्ष्याचाम्लेन पारणकं करोति एवं "मप्यसंस्तरेणत्ति" सदैवालेपकृतं गृह्णीयात्। अमुमेवगाथया निर्दिशति। लित्तंति माणिऊणं,छम्मासा हायए चउत्थं तु। आयंविलस्स गहणं, असंथरे अप्पलेवं तु। लिप्तं सदोषमिति भणित्वा अलेपकृतभोक्तव्यं तीर्थकरगणधरैरनुज्ञातमिति गुरूवचनम् अत्र चोदक आह / यावजी वमेवनभुङ्क्ता न चेत् यावज्जीवमभोजने न शक्रोति तर्हि षण्मासानुपोष्य आचाम्लेन भुक्तांन चेदेवमपि शक्रोति तत एकादिनाऽपि हान्या तावदात्मानं तोलयेत् यावच्चतुर्थमुपोष्या-चाम्लस्य ग्रहणं करोतु एवमष्यसंस्तरेण अशक्ती अल्पलेपं गृह्णन् पानमेव गाथाद्वयेन विवृणोति आयंविल पारणए, छम्मासनिरंतरं तु खविऊणं। जइन तरइ छम्मासे, एगदिणुण्णं तओ कुणइ। एवं एकेक्कदिणं, आयंविलपारणं ठवेऊण। दिवसे दिवसे गिण्हउ, आयंविलमेव निल्लेवं / यदि सर्वकाले क्षपणं कर्तुमशक्तस्तर्हि षण्मासान्निरन्तरं क्षपयित्वा पारणके आचाम्लं करोतु / यदि षण्मासानुपवस्तुं न शक्नोति तत एकदिनोनं तु करोतु। एवं षण्मासावधिरेकैकदिनं परित्य-ज्याचाम्लेन पारणकंताचत्करोतुयावचतुर्थमेवमप्यशक्तौ प्रतिदिनं निर्लेपमाचाम्लमेव गृह्णातु। जइसे न जोगहाणी, संपइए से व होइ तो खमओ। खमणंतरेण आयं-विलं तु निययं तवं कुणइ। यदि (से) तस्य साधोः संप्रति दात्री एष्यति वा कालेन योगहानिः संप्रत्युपेक्षणादिरूपसंयमयोगभ्रंशो न भवति तर्हि भवानुक्षपकः षण्मासाद्युपकर्ता तत्रच क्षपकमानानामेकैकदिनहान्या पूर्वोक्तस्वरूपाणामनन्तरं यावत्षण्मासावधिरूपोऽयं करोतु एवमप्यशक्ती नियतं सदैव आचाल्मरूपंतपः करोतु केवलं संप्रति सेवार्तसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधी-यते। पुनरपि पर आह॥ हिट्ठावणिकोसलगा, सोवीरगत्तरभोयणो मणुया। जइ ति विजयंति तहा, किं नाम जई न जावेति / / अधो वा मम ये महाराष्ट्राः कोशलकाः कोशलदेशोद्भवाः सदैव सौवीरकक्तरमात्रभोजिनस्तेऽपि च सेवार्तसंहननास्ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकमात्रभोजनेन किन्न यतयो मोक्षगमनकटिबद्धक क्षा यापयन्ति तैः सुतरामेव यापनीयं प्रभूतगुणसंभवात्। अत्र सूरिराह॥ तिय सीयं समणेणं, तिय उण्हं गिहीण्ण तेणणुन्नायं / तकाईणं गहणं कठरमाईसु भइयव्वं / / त्रिकं वक्ष्यमाणं शीतं श्रमणानां तेन प्रतिदिवसमाचाल्मकरणे तक्राद्यभावत आहारपाकासंभवेनाजीदियो दोषाः प्रादुःष्यन्ति तदेवं त्रिकमुक्तं गृहिणां तेन सौवीरकमात्रभोजनेऽपि तेषा-माहारपाकभावतो नाजीर्णादिदोषा जायन्ते ततस्तेषां तथा प्रयततामपि न कश्चिद्दोषः साधूनां तूतनीत्या दोषास्तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम्। इह प्रायो यतिना विकृति-परिभोगपरित्यागे न सदैवात्मशरीरं यापनीयं कदाचिदेव च शरीरस्यापाटवे संयमयोगवृद्धिनिमित्तं वलाधोमायविकृति-परिभोगः। तथा चोक्तं सूत्रे "अभिक्खणं निव्विगइंगया य इत्ति' निविकृतिपरिभोगे च तक्राद्येवोपयोगीति तक्रादिग्रहणं कठरादिषु घृतवटिकोन्मिश्रुती मनादिषु ग्रहणं भाज्यं विकल्पनीयम् / ग्लानत्वादिप्रयोजनोत्पत्तौ कार्यं न शेषकालमिति तेषां बहु-लेपत्वात् गृद्ध्यादिजनकत्वाच / अथ किं तत्रिकमित्यत आह // आहार उवहि सेजा, तिन्नि वि उण्हा गिहीण सीए वि। तिन्नि उजीरइ तेर्सि, उहउ उसिणेण आहारो॥ आहार उपधिः शय्या त्रीण्यपि गृहिणां शीतेऽपि शीतलेऽपि उष्णानि भवन्ति ततो जीर्यते विग्रहमन्तरेणापि (उहउत्ति) उभयतो बाह्यतोऽभ्यन्तरतश्चोष्णेन तापेनाहारो जीर्यते / तत्राभ्यन्तरो भोजनवशात् बाह्यः शय्योपधिवशात्॥ एयाई विय तिन्नि वि, जईण सीयाइं हाँति गिण्हे वि। तेणुवहम्मइ अग्गी, तओ य दोसो अजीण्णइ / / एतान्येव आहारोपधिशय्यारूपाणि त्रीणि यतीनां ग्रीष्मेऽपि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy