________________ एसणा 64 - अभिधानराजेन्द्रः - भाग 3 एसणा पिंजणपमहणेसु य, पच्छाकम्मं जहा नत्थि।। पिषन्ती निष्पिष्ट पेषणपरिसमाप्तौ प्रासुकं वा पिषन्ती यदिददाति तर्हि तस्या हस्तात्कल्पते / तथा फुसुकरणे असंसक्तं दध्यादि मन्थन्त्याः कल्पते। तथा कर्तने या अशंखचूर्णशखचूर्ण-खरण्टितहस्तं कृन्तति। इह काचित् स्विन्नस्यातिशय-स्वेदताऽपनोदाय शंखचूर्णेन हस्तौ जनां च खरण्टयित्वा कृन्तति तत उच्यते। अशंखचूर्णमिति। अथवा चूर्णमपि शंखचूर्णमपि अग्रहस्तात्कृन्तन्ती या (अयोक्खलिणी) अभुक्षाशीलानां जलेन हस्तौ प्रक्षालयतीति भावः। तस्या हस्तात्कल्प्यते। तथा उद्वर्त्ततेन काप्पसिलोठने (असंसत्तेण वा वित्ति) असंसक्तेनागृहीतकापसिन हस्तेनोपलक्षिता सती यदि उत्तिष्ठति (अडिल्लयत्ति) अर्थिकान् काासिकानित्यर्थः / न घट्टयति तदा तद्धस्तात्कल्पते / पिजनप्रमद्देनयोरपि पश्चात्कर्म न भवति। तथा ग्राह्यमिति। सेसेसु य पडिवक्खे, न संभवइ कायगहममाईसु / पडिवक्खस्स अभावे, नियमाउ भवे तदग्गहणं // शेषेषु कायेषु (कायगहणमाईसु) षट्कायव्यग्रहस्तादिषु प्रतिपक्ष उत्सर्गापेक्षयाऽपवादरूपो न विद्यते न संभवति ततः प्रतिपक्षस्याभावो नियमात् भवति / तथा ग्रहणमिति / उक्तं दायकद्वारम् / अथोन्मिश्रद्वारमाह। सचित्ते अचित्ते, मीसगउम्मीसगम्मिचउभंगो। आइतिएपडिसेहो, चरिडे मंगम्मि भयणा उ॥ इह यत्रोन्मिश्रयते ते द्वे अपि वस्तुनी त्रिधा। तद्यथा सचित्ते अचित्ते मिश्रे च / तत उन्मिश्रके मिश्रक तश्चतुर्भङ्गी अत्र जातावेकवचनं ततस्तिसस्रतुर्भङ्गयो भवन्तीतिवेदितव्यमतत्र प्रथमासचित्तमिश्रपदाभ्यां द्वितीया सचिताचित्तपदाभ्यां तृतीया मिश्राचित्तपदाभ्यामिति / तत्र सचित्तमिश्रपदाभ्यामियं सचित्ते सचित्तम्। मिश्रे सचित्तम्। सचित्ते मिश्रम्। मिश्रे मिश्रमिति / द्वितीया त्वियं / सचित्ते सचित्तम् / अचित्ते सचित्तम्। सचित्ते अचित्तम् / अचित्ते अचित्तमिति / तृतीया इयं मिश्रे मिश्रम्, अअचित्ते मिश्र, मिश्रे अचित्तम्, अचित्ते अचित्तमिति। तत्र गाथापर्यन्ते तुशब्दस्यानुक्तसमुच्चयार्थत्वादाद्यायां चतुर्भङ्गिकायां सकलायामपि प्रतिषेधः विशेषचतुर्भङ्गीद्वये प्रत्ये-कमादित्रिके आदिमेषु त्रिषु भनेषु प्रतिषेधश्वरमे तु भङ्गे भजना वक्ष्यमाणा। अत्रैवातिदेशं कुर्वन्नाह। जह चेवय संजोगा, कायाणां हट्ठओ य साहरणे। तह चेव य उम्मीसे, होइ विसेइमो तत्थ॥ यथा चैवाधः प्राक् संहरणद्वारे कायानां पृथिवीकायानां सचित्ताचित्तमिश्रभेदभिन्नानां स्वस्थानपरस्थानाभ्यां संयोगभङ्गाः प्रदर्शिता द्वात्रिंशदधिकचतुःशतसंख्याप्रमाणास्तथैवोन्मिश्रेऽपि उन्मिश्रद्वारेऽपि दर्शनीयास्तद्यथा / सचित्तः पृथिवीकायः सचित्तपृथिवीकाये उन्मिश्रे उन्मिश्रद्वारेऽपि दर्शनीयास्तद्यथा सचित्तः पृथिवीकायः सचित्ताप्काय उन्मिश्रे इत्येवं स्व-स्थानपरस्थानापेक्षया षट् त्रिंशत्संयोगाः एकै कस्मिंश्च संयोगाः सचित्तमिश्रपदाभ्यां संचित्ताचित्तपदाभ्यां मिश्राचित्त पदाभ्यां च प्रत्येकं चतुर्भङ्गीति द्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वात्रिंशदधिकानि न तु संहिते उन्मिश्रे च / सचित्तादिवस्तुनः सचित्तादिवस्तुनिक्षेपान्नास्ति परस्परं विशेषः / अत आह तत्र तयोः संहृतोन्मियोर्भवति परस्परमर्थविशेषे वक्ष्यमाणः। तमेवाह। दायध्वमदायव्वं च, दोइ दवाइ देइ मीसाई। ओयणकुसुयाईणं, साहरणतयन्नहिं छोढुं / / दातव्यं साधुदानयोग्यमितरददातव्यं तच सचित्तं मिश्रं तुषादिर्वा ते द्वे अपि द्रव्ये मिश्रयित्वा यहदाति यथौदनं कुषितेन दध्यादिना मिश्रयित्वा तत उन्मिश्रेएवंविधमुन्मिश्रलक्षणमित्यर्थः / संहरणं तु यद्भाजनस्थमदेयं वस्तुतदन्यत्र क्वापिस्थगनिकादौसंहृत्यददाति। ततोऽयमनयोः परस्परं विशेषः द्वितीयतृतीय-चतुर्भङ्गीसत्कचतुर्भङ्गीभजनामाह। तं पिय सुक्खे सुक्खं, भंगा चत्वारि जहे व साहरणे। अप्पबहुए विचउरो, तहेव आइन्नणाइन्ने॥ यदि च तदचित्तं मिश्रयति तदपि तत्रापि शुष्के शुष्कं मिश्रितमित्येवं भङ्गाश्चत्वारो यथा संहरणे / तद्यथा शुष्कमुन्मिश्रं शुष्के शुष्केआर्द्रमार्दै शुष्कमाई आईमिति / तत एकैकस्मिन् भने संहरणे इव अल्पबहुत्वे अधिकृत्व चत्वारश्चत्वारो भङ्गाः / तद्यथा स्तोके शुष्के स्तोकं शुष्कं, स्तोके शुष्के बहुकं शुष्कमिति। एवं शुष्के आर्द्रमित्यादादपि भङ्गत्रिके प्रत्येक चतुर्भङ्गी भावनीया सर्वसंख्यया भङ्गाषोडशा तथा तथैव संहरणे इव आचीण्णानाचीणे कल्प्यमुन्मिश्रे ज्ञातव्याः / तद्यथा शुष्के शुष्कमित्यादीनां चतुर्णा भङ्गाना प्रत्येकं यौ द्वौ द्वौ भङ्गौ स्तोके स्तोकमुन्मिनं बहुके स्तोकमित्येवंरूपौ तौ कल्प्यौ दातृपीडादिदोषाभावात् स्तोके बहुकं बहुके बहुकमित्येवंरूपौतु यौ द्वौ भङ्गोतावकल्प्यौ तत्र दातृपीडादिदोषसंभवात् शेषानुभांवा यथासंभवं संहरण इव द्रष्टव्याः / उक्तमुन्मिश्रद्वारम्। इदानीमपरिणतद्वारमाह / / अपरिणयं पि य दुविहं, दवे भावे य दुविहमिकेक / दव्वम्मि होइ छकं, भावम्मि य होइ सम्भिलगा।। अपरिणतमपि द्विविधं तद्यथा द्रव्ये द्रव्यत्वविषयं भावे भावत्यविषयं द्रव्यरूपमपरिणतं भावत्वमपरिणतं चेत्यर्थः / पुनरप्ये कै कं दातृगृहीतृसंबन्धात् द्विधा / तद्यथा द्रव्यापरिणतं दातृसत्कं च एवं भावापरिणतमपि। तत्र द्रव्यापरिणतस्वरूपमाह। ' जीवत्तम्मि अविगए, अपरिणयं परिणयं गए जीवे। दिलुतो दुद्धदही, इय अपरिणयं परिणयं तं व // जीवत्वे सचेतनत्वे अविगते अभूष्टे पृथिवीकायादिकं द्रव्यमपरिणतमुच्यते गते तुजीवे परिणतम्। अत्र दृष्टान्तो दुग्धदधिनी। यथाहि दुग्धत्वात्परिभूष्टं दधिभावमापन्नं परिण-तमुच्यते दुग्धभावे वाऽवस्थिते अपरिणतमेवं पृथिवीकाया-दिकमपि स्वरूपेण सजीव सजीवत्वात्परिभूष्टमपरिणतमुच्यते जीवेन च विप्रमुक्कं परिणतमिति। ते च यदा दातुः सत्तायां वर्तन्ते तदा दातृसत्कं यदा तुग्रहीतुः सत्तायां तदा ग्रहीतृसत्कमिति। संप्रति दातृविषयं भावापरिणतमाह। दुग्गमाइसामन्नं, जइ परिणमइ तत्थ एगस्स। देमि त्तिन सेसाणं, इय अपरिणयं भावओ एयं / एवं द्विकादिसामान्ये भात्रादिद्विकादिसाधारणे देयवस्तुनि यद्येकस्य कस्यचिद्ददामीत्येवं भावः परिणमति शेषाणान्नैतत् तद्भावतोऽपरिणमतां तद्भावापेक्षया देयतयाऽपरिणतमित्यर्थः / अथ