________________ एसणा 63 - अभिधानराजेन्द्रः - भाग 3 एसणा उक्तास्तथैव द्रष्टव्याः / तथा चौर्येण भृतककर्मकरैःस्नुषादौ वा ददति ग्रहणादयो ग्रहणबन्धनताडनादयो दोषा द्रष्टव्या-स्तस्मात्ततोऽपि न कल्पते। संप्रति प्राभृतिकास्थापनादिद्वार-त्रयदोषानाह।। पाहुड ठाविय दोसा, तिरिउवामहे तिहा अवायाउ। धम्मियमाईठवियं, परप्परं संति यं वा वि।। प्राभृतिकाञ्चाञ्चल्यादिनिमित्तं संस्थाप्य या ददाति भिक्षां तत्रदोषाः प्रवर्तनादयः / संप्रत्यपायेति द्वारम् / अपायास्त्रिविधा तद्यथा तिर्यक् ऊर्ध्वमधश्च तत्र तिर्यग्गवादिभ्यऊर्ध्वमुत्तरं काष्ठादेरधः सर्प-कणकादेः इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्ध्या संभावयन् ततो भिक्षां गृह्णीयात् "परंचोद्देशेति'' // यदुक्तं तत्राह धार्मिकाद्यर्थमपरसाधुकार्पटिकप्रभृतिनिमित्तं यत्स्थापितं तत्पर-स्य परमार्थतः संबन्धीति न तद् गृह्णीयात्। तद्ग्रहणे अदत्ता-दानदोषसंभवात्। यद्वा परसत्कं मुञ्चति परस्य ग्लानादेःसत्कं यदाति तदपि स्वयमादातुं न कल्पते अदत्तादानदोषात् किन्तुयस्मैग्लानाय दापितं तस्मैनीत्वादातव्यं सचेन्न गृह्णातितर्हि भूयोऽपिदात्र्याः समानीय समर्पणीयम्।यदिपुनरेवं दात्री वदति यदि ग्लानादिको न गृह्णाति तर्हि स्वयं ग्राह्यमिति तर्हि ग्लानाद्यग्रहणे तस्य कल्पत इति। संप्रत्याभोगानाभोगदायकस्वरूपमाह / अणुकंपापडणीयह, याचते कुणइ जाणमाणो वि। एसणदोसे वि इऊ, कुणइ उ असढो अयाणंतो॥ सदैवते महानुभावा यतयोऽन्नाप्रान्तमशनभवन्ति तस्मात्करोति तेषां शरीरोषष्टम्भाय घृतपूरादीनामित्येवमनुकम्यया यदि वा मयैतेषामनेषणीयाग्रहणनियमभङ्गो भक्तव्य इति प्रत्यनीकार्थतया जनान्नपि तान् आधाकर्मादिरूपानेषणादोषान् करोति द्वितीयः सुकरोऽत्यजमानोऽशठभावम् / तदेव व्याख्यानयति चत्वारिंशदपि बालाद्विराणि / संप्रति यदुक्तं "एएसि दायगाणं गहणं केसि वि होइ भइयव्वमित्यादि" तद्व्याचिख्यासुःप्रथमतोबालमाश्रित्य भजनामाह / / भिक्खामित्ते अवियल-णा उवालेण दिज्जमाणम्मि। संदिढे वा गहणं, अइबहुयवियालणे गुन्ना। मातुः परोक्षे भिक्षामात्रे बालेन दीयमाने अविचारणा कल्पते इदं नवेति विचारणाया अपि भावः किंतु ग्रहणं भिक्षाया भवति। अतिबहुकेतु बालेन दीयमाने किमद्य त्वं प्रभूतं ददासीति विचारणे सति अनुज्ञा पार्श्ववर्तिमात्रादिसत्कमुत्कलना भवति तदा ग्राह्यं नान्यथा / संप्रति स्थविरमत्तविषयां भजनामाह। थेरपहु थरथरते, धरिए अनेण दढसरीरे वा। अव्वत्तमत्तसड्डे, अविन्भले वा असागरिए। स्थविरो यदि प्रभुर्भवति (थरथरंतित्ति) कम्पमानो यदि अन्येन विधृतो वर्तते स्वरूपेण वा दृढतरशरीरो भवति तर्हि ततः कल्पते। यथा अव्यक्तं मनाक् यो मत्तः सोऽपि च यदि श्राद्धोऽविह्वल-श्वापरवशच भवति / तस्मादेवंविधान्मत्तात् तत्र सागरिको न विद्यते तर्हि कल्पते नान्यथा। उन्मत्तादिचतुष्कविषयां भजनामाह। सुइभद्दगदित्ताई-दढग्गहो वेविए जरम्मि सिवे। अन्नधरियं तु सढो, देयं धनेण वा धरियं / उन्मत्तो दृप्तादिदृप्तो ग्रहगृहीतादिः स चेत् शुचिर्भद्रकश्च भवति तदा तद्वस्तात्कल्पते नान्यदा। वेपितोऽपि यदि दृढहस्तो भवति न हस्तेन गृहीतं किमपि तस्य पतति तदा तस्मादपि कल्पते। ज्वरितादपि ग्राह्यम् / ज्वरे सिवे सति। अन्धोऽपि यदि देयं वस्तु अन्येन पुत्रादिनां धृतं ददाति स्वरूपेण श्राद्धश्च यदि वा स एवान्धोऽन्येन विधृतः सन् देयं ददाति तर्हि ततो ग्राह्यं नान्यथा पूर्वोक्तदोषप्रसङ्गात् / त्वग्दोषादिपञ्चविषयां भजनामाह। मंगलपसुत्तिकुट्ठी, असागरिए पाउया गए अयले। अमट्टेट्टेसवियारे, इयारविद्धे असागरिए। मण्डलानि वृत्ताकारहृदविशेषरूपाणि प्रसूतिर्नखादि-विदारणेऽपि चेतनाया असंभवात्तद्रूपो यः कुष्ठो रोगविशेषः सोऽस्यास्तीति मण्डलप्रसूतिकुष्ठी स चेदसागारिके सागारिकाभावे ददाति तर्हि ततः कल्पते न शेषकुष्ठिनः सागारिके वा पश्यति पादुकारूढोऽपि यदि भवत्यचलस्थानस्थितस्तदा कारणे सति कल्पते / तथा क्रमयोः पादयोर्बद्धो यदि सविचार इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात्कल्पते। इतरस्तुयइतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि च तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति तत्र प्रतिषेध एव न भजमा उपलक्षणमेतत् / तेन छिन्नकरोऽपि यदि सागारिकाभावे ददाति तर्हि न कल्पते छिन्नपादो यद्युपविष्टः सन् सागरिकासंपाते प्रयच्छति ततस्ततोऽपि कल्पते / नपुंसकादिसप्तकविषयां भजनामाह। पिंडग अप्पडिसेवी, वेलाथणजीविधेरियरसव्वं / उक्खित्तमणावाए, अकिंचिलग्गे ठवंतीए।। नपुंसको यदि अप्रतिसेवी लिङ्गाधनासेवकस्तर्हि ततः कल्पते तथा आपन्नसत्वाऽपि यदि (वेलत्ति) सूचनात्सूत्रमितिन्यायात्वेला मासप्राप्ता न भवति / नवममासगर्भा यदि भवतीत्यर्थः तर्हि स्थविरकल्पिकैः परिहार्या / अर्थात्तद्विपरीताया हस्ता-त्स्थविरकल्पिकानामुपकल्पते इति द्रष्टव्यम् / तथा याऽपि वालवस्ता स्तन्यमात्रोपजीविशिशुका सा स्थविरकल्पिकानां परिहार्या न ततः स्थविरकल्पिकानामपि कल्पते किमपीति भावः / यस्यास्तु बाल आहारेऽपि लगति तस्या हस्तात्कल्पते / स हि प्रायः शरीरेण महान् भवति ततो न मार्जारादिविराधना-दोषप्रसङ्गः। ये तु भगवन्तो जिनकल्पिकास्ते मूलतएवापन्नसत्वां बालवत्सां च सर्वथा परिहरन्ति / एवं भुजानाभर्जमानादलन्तीष्वपि भजना भावनीया। सा चैवं भुजाना अनुच्छिष्टा सती यावदद्यापि न कवलं मुखे प्रक्षिपति तावत्तद्धस्तात्कल्पते / भर्जमानाऽपि यत्सचित्तं गोधूमा-दिकडिल्लकेक्षिप्तं तद्भ्रष्टोत्तारितमन्यच नोऽद्यापि हस्तेन गृह्णाति अत्रान्तरे यदि साधुरायातो भवति सा चेदद्दाति तर्हि कल्पते / तथा दलयन्ती सचित्तमुनादिना दल्यमानेन सह घरट्ट मुक्तवती अत्रान्तरे च साधुरायातस्ततो यद्युत्तिष्ठति अचेतनं चा भ्रष्ट मुद्नादिकं दलयति तर्हि तद्धस्तात्कल्पते / कण्डयन्त्याः कण्डनायोत्पाटितं मुशलं न च तस्मिन् मुशले किमपि काळ्या बीजं लग्नमस्ति अत्रान्तरेच समायातः साधुस्ततो यदि साऽनपाये प्रदेशे मुशले स्थापयित्वा भिक्षां ददाति तर्हि कल्पते पिषन्त्यादिविषयां भजनामाह।। पीसंती निप्पिडे, फासंवा फुसुअणे असंसत्तं। कत्तण असंखचुनी, छिन्ने वा जा अवोक्खलिणी।। उव्वट्ठण असंस-त्तेण वि अहिल्लएन घट्टेइ।