________________ एसणा 62- अभिधानराजेन्द्रः - भाग 3 एसणा गुम्विणिगब्भे संघ-दृणा उ उटुंतवेसमाणीए। वालाई मंसेड्डग, मजाराई विराहिज्जा। गुविण्या भिक्षादानार्थमुत्तिष्ठन्त्या भिक्षां दत्त्वा स्थाने उपविशन्त्याश्च गर्भे तस्य संघट्टनं संचलनं भवति / तस्मान्न ततो ग्राह्यम् (बालाई मंसेडुगत्ति) अत्रार्षत्वाद्व्यत्यासेन पदयोजना (बालमिति) शिशुं भूमौ मञ्चिकादौ वा निक्षिप्य यदि भिक्षां ददाति तर्हि तं बालं मार्जारादयो विडालसारमेयादयो मांसेण्डुकादि मांसखण्ड शशकशिशुरितिवा कृत्वा विराधयेत् विनाशयेत्ा तथा आहारखरष्टितौ शुष्कौ हस्तौ भवतस्ततो भिक्षां दत्त्वा पुनत्र्यिा हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा भवेत् ततो बालवत्सातोऽपि न ग्राह्यम्। भुञ्जानां मथ्नन्तीं चाश्रित्य दोषानाह। भुजंती आयमणे, उदगं वोडीय लोगगरहाय। घुसुलती संसत्ते, करम्मि लित्ते भवे रसगा। भुञ्जाना दात्री भिक्षादानार्थगाचमनं करोति आचमने च क्रियमाणे उदकं विराध्यते। अथन करोत्याचमनं तर्हि लोके वोटिरिति कृत्वा गर्दा स्यात् तथा (घुसुलती) दध्यादि मथ्नन्ती यदि तद्दध्यादिसंसक्तं मथाति तर्हि तेन संसक्तदध्यादिना लिप्ते करे तस्य भिक्षां ददत्यास्तेषां रसजीवानां वधो भवति ततस्तस्या अपि हस्तान्न कल्पते। संप्रति पेषणादिदोषानुपदर्शयति। दगल्लीए संघट्टम, पीसेण कंडदलभन्जणे महणं / पिंजंतरंजणाई, दिन्ने लित्ते करे उदगं। पेषणकण्डनदलनानि कुर्वतीनां हस्तादिक्षाग्रहणे उदक-वीजसंघट्टनं स्यात् तथाहि पिषन्ती यदा भिक्षादानायोत्तिष्ठति तदापिष्यमाणतिलादिसत्काः काश्चिन्मक्षिकाः सचित्ता अपि हस्तादौलगिताः संभवन्ति ततो भिक्षादानाय हस्तादिप्रस्फोटने भिक्षां वा ददत्या भिक्षासंपर्क ततस्तासां विराधना भवति भिक्षां च दत्त्वा भिक्षावयवखरण्टि तौ हस्तौ जलेन प्रक्षालयेत् / ततः पेषणे उदकबीजसंघट्टना। एवं कण्डनदलनयोरपि यथायोगं भावनीयम्। तथा भर्जने भिक्षां ददत्या वेलालगनेन कमिल्लक्षिप्तगोधूमादीनां दहनं स्यात् / तथा पिञ्जनं रुञ्जनमादिशब्दात्कर्तनप्रमर्दने च कुर्वती भिक्षा दत्वा भिक्षावयवखरण्टितौ हस्तौ जलेन प्रक्षालयेत् ततस्तत्राप्युदकं विनश्यतीति न ततो भिक्षा कल्पते। संप्रतिषट्कायव्यग्रहस्तादिपञ्चकस्वरूपं गाथाद्वयेनाही लोणदगअगणिवत्थी,फलाइ मच्छाइसजीयहत्थम्मि। पाएणोगाहणया, संघट्टणसेसकाएणं॥ खणमाणी आरमये, मजणधोयइ सिंचए किंचि। छक्कायविसरणमाई, छिंदइ छठे फुरफुरते / / इह सा षट्कायव्यग्रहस्ता उच्यते यस्या हस्ते सजीवं लवण- | मुदकमग्निर्वायुपूरितो वा वस्तिः फलादिकं बीजपूरादिकं मत्स्या दयो वा विद्यन्ते ततः सा यद्येतेषां सजीवलवणादीनामादानं तदपि श्रमणभिक्षादानार्थं भूम्यादौ निक्षिप्तं तर्हि न कल्पते। तथा अवगाहना नामादयस्तेषां षड्जीवनिकायानां पादे संघट्टनं शेषकायेन हस्तादिनां संमईनं संघट्टनमारभमाणा कुश्यादिना भूम्यादि खनन्ती। अनेन पृथिवीकायारम्भ उक्तः, ययद्वा मजन्ती शुद्धेन जलेन स्नान्ती अथवा धावन्ती शुद्धेनोदकेन वस्त्राणि प्रज्ञालयन्ती यदि वा किञ्चिद्वक्षवल्ल्यादिकंसंवन्तीएतेनाप्कायारम्भोदर्शितः। पलक्षणमेतत्ज्वलयन्ती वा फूत्कारेण वैश्वानरं वस्त्यादिकं वा सचित्तवातभृतमितस्ततः प्रक्षिपन्ती एतेनानिवास्तुसमारम्भ उक्तः / तथा शोकादेश्छेदविशारणे कुर्वती / तत्र छेदः पुष्पफलादेः खण्डनं विशरणं तेषामेव खण्डनां शोषणायोन्मोचनाम् / आदिशब्दात्तन्दुलमुद्दीनां शोधना-दिपरिग्रहः / तथा छिन्दन्ती षष्ठान् त्रसकायान् / मत्स्यादीन फुरफुरन्ते इति पोस्फूर्यमाणान् पीडयोद्वेल्ल इत्यर्थः। अनेन त्रसकायारम्भ उक्तः / इत्थं षड्जीवनिकायमारभमाणाया हस्तान्न कल्पते। संप्रतिषट्कायग्रहस्त इतिपदस्य व्याख्याने मतनान्तरमुप-दर्शयति। छक्कायवग्नहत्था, केई कोलाइकन्नलइयाई। सिद्धत्थगपुप्फाणिय, सिरम्मि दिन्नाइ वजंति। केचिदाचार्याः षट्कायव्यग्रहस्तेति वचनतः कोलादीनि वदरादीनि आदिशब्दात्करीरादिपरिग्रहः / (कन्नलयाइति) कर्णे पिनद्धानि तथा सिद्धार्थकपुष्पानि शिरसि दत्तानि वर्जयन्ति। हस्तग्रहणं हि तस्य पदस्य विशेषो दुरुपपादः। अन्ने भणंति दससु वि, एसणदोसेसु नत्थि तग्गहणं / तेण न वजं भन्नइ, तणुगहणं दायगहणो य। अन्ये त्वाचार्यदेशीया भणन्ति / यथा दशस्वपि शद्धितादिषु एषणादोषेषु मध्ये तद्ब्रहणं षट्कायव्यग्रहस्तेत्युपादानमस्ति तेन कारणेन लोकादियुक्तदशभिक्षाग्रहणं नवज्यं तदेतत्पापीयो यत आह भण्यते अत्रोत्तरं दीयते / यत्तु दायकग्रहणादेषणादोषमध्ये षट्कायव्यग्रहस्तेत्यस्य ग्रहणं विद्यते तत्कथमुच्यते न तहण-मिति। संप्रति संसक्तिमद्दात्र्यादिदोषानाह। संसजिमंदि देसे, संसज्जमदव्वलित्तकरमत्ता। संचाए यत्तणाउ, उक्खिप्पंते विते चेव।। संसक्तिमति संसक्तिमव्यवतिदेशे मण्डले संक्तिमता द्रव्येण लिप्तः करो मात्रं वा यस्याः सा तथाविधा दात्री भिक्षां ददती करविलनान् सत्वान् हन्ति / तस्मात्सा वय॑ते तथा महतः पिठरादेरपर्वतनं संचारः / सूचनात्सूत्रमिति संचारिमत्कीटा-दिसत्वव्याधातः इदमुक्तं भवति महत्पिठरं यदा तदा वानोत्पाठ्यतेनापि यथातथा वा संचार्यते महत्त्वादेव किं तु प्रयोजनविशेषोत्पत्तौ सकृत् ततस्तदाश्रित्य प्रायः कीटिकादयः सत्वाः संभवन्ति / ततो यदा तत्पिठरादिकमुद्वर्त्य किं चिद्ददाति तदा तदाश्रितजन्तुव्या-पादः / एतेचदोषा उत्पाठ्यमानेऽपि महति पिठरादौ / तत्रापि हि भूयो निक्षिप्यमाणे हस्तसंस्पर्शतो वा संचारिमत्कीटिकादि सत्वव्याघातः / अपि च तथाभूतस्य महत उत्पाटने दातुः पीडाऽपि भवति / तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते। संप्रति साधारणं चोरितं वा ददत्या दोषानाह। साधारणं बहूणं, तत्थ उ दोशा जहेव अणिसट्टे / चोरियए गहणाई, भयए सुण्हाइ वादेंते॥ बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्राक् अनिसृष्टे दोषा