________________ एसणा 61 - अभिधानराजेन्द्रः- भाग 3 एसणा यत् यत् किमपि सा याचते तत्तत्सर्व साधवे दत्तमिति / ततः पर्यन्ते काजिकमात्रं यावत्तदपि बालिका भणति साधवे दत्त-मिति / ततः साऽभिनवश्राद्धिका रुष्टा सती पुत्रिकामेवमपवदति किमिति त्वया सर्व साधवे दत्तं सा ब्रूते स साधुर्भूयो भूयो याचते ततो मया सर्वमदायि ततः सा साधोरुपरि कोपावेशमाविशन्ती सूरीणामन्तिकमगमत्।अचकथच सकलमपिसाधुवृत्तान्तं यथा भवदीयोयः साधुरित्थमित्थंमत्पुत्रिकायाः सकाशात्याचित्वा याचित्वा सर्वमोदनादिकमानीतवानिति। एवं तस्यां महता शब्देन कथयन्त्यां शब्दप्रवणतः प्रातिवेशिकजनोऽन्योऽपि च परंपरया भूयान्मिलितो ज्ञातश्च सर्वैरपि साधुवृत्तान्तस्ततो विदधति तेऽपि कोपावेशिनः साधूनामवर्णवादम्, नूनममी साधुवेषविडम्विन-श्चारभटा इव लुण्ठका न साधुसद्वृत्ता इति ततः प्रवचनापर्ण-ववादापनोदाय सूरिभिस्तस्याः सर्वजनस्य च समक्षं स साधु-निभत्स्योपकरणं च सकलमागृह्य सर्वजनैर्निष्काशितः / तत एवं तस्मिन्निष्काशिते श्राविकायाः कोपः शममगमत्। ततः सूरीणां क्षमाश्रमणमादायोक्तवती भगवन् ! मा मन्निमित्तमेष निष्काश्यतां क्षमस्वैकं ममापराधमिति। ततो भूयोऽपि यथावत्साधुः शिक्ष-यित्वा प्रेषितः सूत्रं सुगमम् / नवरं (उड्डाहपओसचारभडा इति) लोके उड्डाहस्ततो लोकस्य प्रद्वेषभावतश्चारभटा इव लुण्ठका अमीन साधव इत्यवर्णवादः। यत एवं बालाद्विक्षाग्रहणे दोषास्ततो बालान्न ग्राह्यमिति। संप्रति स्थविरदायकदोषानाहथेरो गलंतलालो, कंपणहत्थो पडिज वा देतो॥ अपहुत्तिय अचित्तं, एगयरे वा उभयओवा। अत्यन्तस्थविरो हि प्रायो गलल्लालो भवति / ततो देयमपि वस्तु लालया खरण्टितं भवतीतितद्धहणे लोके जुगुप्सा। तथा कम्पमानहस्तो भवति / ततो हस्तकम्पनेचाशब्दोऽयं वस्तु भूमौ निपतति तथा च षड्जीवनिकायविराधना। स्वयं वा स्थविरो ददत् निपतेत्तथा च सति तस्य पीडा भूम्याश्रितषड्जीवनिकायविराधना च / अपि च प्रायः स्थविरो गृहस्याप्रचुरस्वामी भवति ततस्तेन दीयमानेन प्रचुर एष इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्य चित्तं प्रद्वेषः स्यात्। सच एकतरस्मिन् साधौ गृद्धे वा यद्वा उभयोरपीति। मत्तोन्मत्तावाश्रित्य दोषानाह। अवयासभाणभेओ, वमणं असुइत्ति लोगगरहा य। पंतावणं च मत्ते, वमणविवजाय उम्मत्ते। मत्तः कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति भाजनं वा भिनत्ति। यद्वा कदाचित्पीतमासवं ददानो वमति वर्मश्च साधु-साधुपात्रं वा खरण्टयति। ततोलोके जुगुत्सा धिग्इमे साध-वोऽशुचयो ये मत्तादपीत्थं भिक्षां गृह्णन्तीति / तथा कोऽपि मत्तो मदवशनिर्बलतया रे मुण्ड ! किमत्रायात इति ब्रुवन् घातमिति विदधाति तत एवं यतो मत्तेऽपायादयो दोषास्तस्मान्न ततो ग्राह्यम् / येन त एवालिङ्गनादयो दोषा वमनवर्जा उन्मत्तेऽपि तस्मात्तत्तोऽपि न ग्राह्यम्। संप्रति वेपितज्वरितावाश्रित्य दोषानाह। बेवियपरिसामणया, पासे वत्थु भेज माणभेओ वा। एमेव य जरियम्मि वि, जरसंकमणं च उड्डाहो। वेपितात्तु दातुः सकाशाद्भिक्षाग्रहणे देयवस्तुनः परिसातनं भवति यद्वा पार्थे साधुभाजनादहिः स वेषितो देयं वस्तु क्षिपेत्यद्वा येन स्थाल्यादिना भाजनेन कृत्वा भिक्षामानयतितस्यम भूमौ निपाते भेदः स्फोटनं स्यात् एवमेव ज्वरितेऽपि दोषा मावनीयाः। किंच ज्वरिताद्भहणे ज्वरं संक्रमण साधोर्भवेत्। तथा जने उड्डाहो यथा अहो अमी आहारलम्पटा यदित्थं ज्वरपीडितादपि भिक्षा गृह्णन्ती-ति। अन्धगलत्कुष्ठावाश्रित्य दोषानाह। उड्डाहकायपडणं, अंधे भेओ य पासछुहणं च / तद्दोसी संकमणं, गलितभिसभिन्नदेहे य॥ अन्धाद्भिक्षाग्रहणे उड्डाहः / स चायमहो अमी औदरिका यदन्धादपि भिक्षां दातुमशक्नुवतो भिक्षां गृह्णन्तीति / तथा अधोऽपश्यन् पादाभ्यां भूम्याश्रितषड्जीवनिकायघातं विदधा-ति / तथा लोष्ठादौ स्खलितः सन् भूमौ निपतेत् / तथा च सति भिक्षादानायोत्पाटितहठगृहीतस्थाल्यादिभाजनभङ्गः / तथा स देयं वस्तु पार्श्वे भाजनबहिस्तात् प्रक्षिपेददर्शनात् तस्मादन्धादपिन ग्राह्यम्। तथा त्वग्दोषिनि किं विशिष्ट इत्याह / गलितं भृशं भिन्नदेहमतार्षत्वात् व्यत्यासेन पदयोजना सा चैवं भृशमतिशयेन गलितमर्द्धपक्क रुधिरं च बहिर्वहनाभिन्नश्च स्फुटितो देहो यस्य स तथा तस्मिन् तद्दोषसंक्रमणं कुष्ठव्याधिसंक्रान्तिः स्यात् तस्मात्ततोऽपि न ग्राह्यम्। संप्रति पादुकारूढादिचतुष्टयदोषानाह। पाउयदुरुढपडणं, बद्धे परियाव असुइखिया य। करछिन्ना सुइखिंसा, तेव्वि य पायम्मि पडणं च / / पादुकारूढस्य भिक्षादानाय प्रचलतः कदाचिद्दुःस्थितत्वात् पतनं स्यात् / तथा बद्धे दातरि भिक्षां प्रयच्छति परितापो दुःखं तस्य भवेत्। तथा (असुइत्ति) तत्र पुरीषोत्सर्गादौ जलेन तस्या-शौचकरणासंभवात्। ततो भिक्षाग्रहणे लोके जुगुप्सा यथामी अशुचयो यदेतस्मादप्यशुचित्वयुक्तात् भिक्षामाददते इति। एवं छिन्नकरेऽपि भिक्षां प्रयच्छति लोके जुगुप्सा तथा हस्ताभावेन शौचकरणासंभवात् / एतचोपलक्षणं तेन हस्ताभावे येन कृत्वा भाजनेन भिक्षां ददाति यद्वा देयं वस्तु तस्य पतनमपि भवति। तथा च सतिषड्जीवनिकायव्याघातः। एत एव दोषाः यदि विच्छिन्नपादेऽपि दातरि द्रष्टव्याः केवलं पादाभावेन तस्य भिक्षादानाय प्रचलतः प्रायो नियमतः पतनं पातो भवेत्तथा च सति भूम्याश्रितकीटिकादिकसत्वव्याघातः। संप्रति नपुंसकमधिकृत्य दोषानाह।। आयपरोभयदोसा, अभिक्खगहणम्मि खोभणनपुंसे। लोकदुगुंछा संका, एरिसया नूणमेए वि] नपुंसके भिक्षां प्रयच्छति आत्मपरोभयदोषः / तथाहि नपुंसकादभीक्ष्णं भिक्षाग्रहणे अतिपरिचयो भवति अतीव परिचयाच तस्य नपुंसकस्य साधो क्षोभो वेदोदयरूपः समुपजायते / ततो नपुंसकस्य साधुलिङ्गाद्यासेवनेन द्वयस्यापि मैथुनसेवया कर्मबन्धः / अभीक्ष्णग्रहणशब्दोपादानाच कदाचिद्भिक्षाग्रहणे दोषाभावमाह / परिचयाभावात् / तथा लोके जुगुप्सा यथै ते नपुंसकादपि निकृष्टादिक्षामाददते इति / साधूनामप्युपरि जनस्य शङ्का भवति तस्माद्यतेऽपि साधवो नूनमीदृशा नपुंसकाः कथमन्यथाऽनेन सह भिक्षाग्रहण-व्याजतोऽतिपरिचयं विदधते इति। संप्रति गुर्विणीबालवत्से आश्रित्य दोषानुपदर्शयति॥