SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ गहण 860- अभिधानराजेन्द्रः - भाग 3 गहण पहन्यात्, तत्रेति उपहनने गृह्णन्नातिक्रामति, कारणिकत्वात् / निष्कारणत्वे तु दोषाः / यदाह-''मिच्छत्तं उड्डाहो, विराहणा फासभावसंबंधो। पडिगमणाई दोसा, भुत्ताभुत्ते य नायव्वा'"||१|| स्थ०५ ठा०२ उ०। निग्गथे निग्गंथिं दुग्गंसि वा विसमंसि वा पव्वयंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ / निग्गंथे निग्गंथिं सेयंसि वा पंकसि वा पणगंसि वा उकसमाणिं वा उदुज्झमाणिं वा गिण्हमाणे वा अलंबमाणे वा नाइक्कमइ निग्गंथे निग्गंथिं नावं आरुममाणिं वा० नाइकमइ। अस्य सूत्रत्रयस्य संबन्धमाहसो पुण दुग्गे लग्गे-ज कंटओ लोयणम्मि वा अणुगं / इति दुर्गसुत्तजोगो, थला जलं चेयरे दुविहे // य: पूर्वसूत्रे पादे प्रविष्टः कण्टका, लोचने बाऽणुकं प्रविष्टमुक्तं, स कण्टकस्तचाणुकं दुर्गे गच्छत प्रायो लगेत, अतो दुर्गसूत्रमारभ्यते, इत्येषु दुर्गसूत्रस्य योगः संबन्ध: / दुर्गच स्थलं, ततः स्थलाजलं भवतीति कृत्वा दुर्गसूत्रानन्तरमितरस्मिन् द्विविधे पङ्कविषये नौविषये च सूत्रे आरम्भः क्रियते। अनेन संबन्धेनायातस्यास्य व्याख्या-निग्रन्थो निर्ग्रन्थीं दुर्गे वा, विषमे वा, पर्वते वा (पक्खलमाणिं व त्ति) प्रकर्षण स्खलनगत्या गच्छन्ती भूमावसंप्राप्तां वा पतन्तीं पतितुकामामित्यर्थः। (पवडमाणं व त्ति) प्रकर्षेण भूमौ सर्वैरपि गात्रैः पतन्ती (गिण्हमाणे व त्ति) बाहादावणे गिलन् वा )अवलंवमाणे व त्ति) अवलम्बमानो वाह्रादौ गृहीत्वा धारयन, अथ वा गृह्णन् सर्वाङ्गीणं धारयन्नवलम्बमानो देशतः करेण गृहन, साहयन्नित्यर्थः। नातिक्रामति स्वाचारमाज्ञां वा इति प्रथमं सूत्रम् / द्वितीयसूत्रमप्येवमेव, नवरं पङ्को नाम पङ्केपनके वा सजले यत्र निमजते, यत्र वा पङ्कः कर्हमः, यत्र वा पनको नाम आगन्तुकप्रपतनहेतुभूतद्रवरूपकहम एव, तत्र वा, उदकं प्रतीतं, तत्र वा (उकसमाणिं वत्ति) अपकसन्ती पङ्कपनकयो: परिद्रसन्तीं (उदुज्झमाणिं वत्ति) अपोह्यमानां वा उदकेन व / नीयमानां गृह्णन् अवलम्बमानो वा नातिक्रामति / तुतीयसूत्रे निर्ग्रन्थीनामेव नाम ह्रसंती वा अवरोहन्ती वा गृहन्वा अवलम्बमानो वा नातिक्रामतीति सूत्रत्रयार्थः। सम्प्रति भाष्यकारो विषमपदानिव्याचष्टेतिविहं च होति दुग्गं, रुक्खे सावय मणुस्सदुग्गं वा। णिकारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा। त्रिविधं च भवति दुर्गम् / तद्यथा-वुक्षदुर्ग, स्वापददुर्ग, मनुव्यदुर्ग च / यदृक्षरतीव गहनतया दुर्गमम्, यत्र वा पथि वृक्ष: पतितस्तद्वृक्षदुर्गम्। यत्र व्याघ्रसिंहादीनां भयं तत् श्वापददुर्गम् / यत्र म्लेच्छबोधिकादीनां मनुष्याणां भयं तन्मनुष्यदुर्गम् / एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणां निर्ग्रन्थीं गृह्णाति, अवलम्बते वा, चतुर्गु आज्ञादयश्च दोषाः / मिच्छो सतिकरणं, विराहणा फासभावसंबंधो। पडिगमणादी दीसा, भुत्तामुत्ते य गेयव्वा / / निर्गन्थीं गृह्णन्ती दृष्टा कोऽपि मिथ्यात्वं गच्छेत् अहो ! मायाविनोऽमी अन्यद्वदन्ति अन्यच्च कुर्वन्ति, स्मृतिकरणं वा भुक्तभोगिनो भवति। अभुक्तभोगिनस्तु कुतूहलं ततश्च संयमविराधना, स्पर्शतश्च भावसंबन्धो भवति / प्रतिगमनादयो दोषा भुक्तानामभुक्तानां वा साधुसाध्वीनां ज्ञातव्याः। . अथ विषमपदं व्याख्यातितिविहं च होति विसमं ,भूमिं सावय मणुस्सविसमं वा। तंसि वि सो चेव गमो, णावोदग ते य जतणाए। त्रिविधं च भवति विषमम्-भूमिविषम,श्वापदविषमं, मनुष्यविषमंच। भूमिविषमं नाम गर्त्तपाषाणाद्याकुलो भूभागः / श्वापदममनुष्यविषमे तु श्वापदमनुष्यदुर्गवन्मन्तव्ये। अत्र भूमिवविषमेणाधिकार:, पर्वतपदं तु प्रतीतत्वात् न व्याख्यात् तस्मिन्नपि विषये पर्वते वा निन्थी गृह्णतश्चतुर्गुरुक-प्रायश्चित्तादिरूपः स एव मगो भवति, यो दुर्गे भणितः / तथा नावुदके नौकादौ च वक्ष्यमाणस्वरूपे निर्ग्रन्थी गृह्णतो निष्कारणे त एव दोषा: / (जयणाए त्ति) कारणे यतनया दुर्गादिषु गृह्णीयादवलम्बेत वा / यतना चाग्रतो वक्ष्यते। प्रस्खलनप्रपतनपदेव्याचष्टेभूमीऐं असंपत्तं, पत्तं वा हत्थजाणुगादीहिं। परिखलणं णायव्वं, पवडण भूमीए गत्तेहिं॥ भूमावसंप्राप्तं हस्तजानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम्, भूमौ प्राप्तं सर्वगात्रैश्च यत्तत्पतनम्। अथवा वि दुग्ग विसमे, थद्धं भीतं व थेरो तु। सिचयंतरेतरं वा, गिण्हतो होति निहोसो।। अथवेति प्रकारान्तरद्योतकः, उक्तास्तावन्निर्ग्रन्थीं गृह्णतो दोषाः, परं द्वितीय एव दुर्गे विषमे वा तांस्तब्धां भीतां वा गीतार्थः स्थविरः, सिचयेन वस्त्रेणान्तरितामितरां वा गृह्णन् निर्दोषो भवति। व्याख्यातं प्रथमसूत्रम्। संप्रति द्वितीयसूत्रं व्याख्यातिपंको खलु चिक्खिल्लो, आगंतुपयणुओ दुओ पणओ। सो पुण सजलो सेओ, सीतिअति जत्थ दुविहे वी॥ पङ्कः खलु 'चिक्खिल्ल' उच्यते, आगन्तुकप्रतनको द्रुतश्चपनको यत्र पुनर्द्धिविधेऽपि पङ्केपनके वा 'सीइज्जति' निमजते, सपुनः सजलः सेक उच्यते। पंकपणएसु नियमा, उगसण उदुज्झणं सिया सेए। थिमियम्मिणिमण भा, सजले सेए सिया दो वि॥ पङ्कपनकयोनियमादपकसनंद्रसनं भवति, सेकेतु उदुज्झणं' अपोहनं पानीयेन हरणं स्यात्, स्तिमिते तु तत्र निमञ्जनं भवेत्। सजले तु सेके द्वे अपोहननिमज्जने स्याताम्। अथ तृतीयं सूत्रं व्याख्यातिओयारण उत्तारण, अत्थरण च दुग्गहे य सतिकारो। छेदो व दुवेगयरे, अतिपेल्लण भव मिच्छत्तं / / कारणे निन्थीनामवतारयन्नारोपयेत्, उत्तारयेद् च, यचास्तरणं दुर्ग हे या करोति, तदा स्मृतिकारो भुक्तभोगिनो भूयो भवति, छेदो वा नखादिभिर्द्वयोरेकतस्य भवेत् / अतिप्रेरणा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy