SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ गहण 556 - अभिधानराजेन्द्रः - भाग 3 गहण प्रगृहीतं सत् आस्ते तदिदानी परिभुज्यते, एष यथाभावो भवति। तच्च परिग्रहो, धारणमित्यर्थः। परिभोगेा नाम यत्पाशादि यस्यां वेलायां परिभुज्यते० तच सत् शोभनमाचार्यादिप्रायोग्यं यद्रव्यं यच पानक भैक्षं वाऽऽत्मनो योग्यं तत्पात्रे गृह्यते, निर्लपनं च आचमनं, तेन विधीयते / एष पात्रस्य परिभोगः / इह च पात्रशब्देन प्रतिगृहीतमात्रकं वा गृहीतं तथापाणिदयत्थं संथर, पमज चिलिमिलि निसिज्ज कालगते। / गेलन्न लज्ज असह, छेयण सागारिए भोगो॥ वर्षाकल्पादिके प्राणिदयार्थमप्कायादिजीवरक्षाया निमित्तं परिभोक्तव्यं कल्पवयं, शीतरक्षार्थ संस्तारकोत्तरपट्टकैः स्तरणमास्तृतं तदर्थम्, रजोहरणं च प्रमार्जनार्थं गृह्यते, चिलिमिलिका दवरिकादावुपयुज्यते रजोहरणस्य, निषद्याद्वयं निषदनार्थमादयिते / (कालगए त्ति) कालगतस्याऽऽच्छादनार्थमनन्तकादिकं गृह्यते, ग्लानत्वं वा कस्यापि संजातम्-अप्रावृतः सुखेवाऽऽस्तामिति कृत्वा तस्याग्रे चिलिमिलिका दीयते / (लज्ज त्ति) लज्जाव्यपगमनार्थं चोलपट्टकोपरि युज्यते (असहु त्ति) राजादिप्रव्रजिता असहिष्णवस्ते कल्पादिकं प्रावृणीयुः / (छेदण त्ति) नखहारीर्णकापिप्पलकादिना नखप्रलम्बादीनां छेदनं क्रियते (सागारिएत्ति) शैक्षस्य संज्ञातकानां सागारिकं, ततः कल्पादिकं प्रावार्य प्रच्छन्ने स्थाप्यते। एवमादिकः सर्वोऽपि यथायोगमौधिकस्योपग्रहिकस्य चोपधेः परिभोगा मन्तव्य: / उक्तं पुराणग्रहणम् / तदुक्तौ च समर्थितमचित्तग्रहणम्। एवं क्षपकेण त्रिविध ग्रहणे प्ररूपिते सति इतर: प्राह--- उवरिं काहसि हिट्ठा, ण याणसि वयणं न होइ एवं तु / चउरो गुरुगा पुच्छा, नासेहिसि तुं जहा वेजो।। यदुपरि कथयितुं योग्यं तत्त्वमधस्तात् पूर्वं कथयसि। इयमत्र भावनायद्भवता प्रथमयेवाऽऽचार्यादिविषयं पुराणसचित्तग्रहणमभिहितं तदशैक्षलक्षणाभिनवसचित्त ग्रहणप्ररूपणादूर्द्धवं.प्ररूपयितुं योग्यमासीत्, अभिनवपुराणपर्याययोः पूर्वपश्चत् कालभावित्वेन भावात्, तस्य चाभिनवसचित्तग्रहणस्य भवता प्ररूपणैव न कृता, अत एव न जानासि ग्रहणस्वरूपं यथावद् वन्दित्वा विनयेन पृच्छ इत्येवमहंकारदूषितं वचनतयोक्तमेवमभिधीयमानं न भवति सतां पूजनयिमिति वाक्यशेषः। एवं कुर्वाणस्य भवतः चत्वारो गुरुका: 1 क्षपकः पृच्छतिकिमत्र मम सूणमापतितं येनैवं प्रायश्चित्तं प्राप्नोमि ? इतर आहत्वं पल्लवग्राहितया सम्यक् सिद्धान्ताऽभिप्रायमविज्ञाय जल्पसि। एवं च प्रज्ञापयन् त्वमात्मना नष्टोऽन्यानपि नाशयिष्यसि, यथा स प्रथमोद्देशकभणितो वैद्यः "पूर्वाह्न वमनं दद्या-दपराह्ने विरेचनम्। वातिकेष्वपि रोगेषु, पथ्यमाहुर्विशेषणम्''। इतिश्लोकमानं गृहीत्वा चिकित्सां कुर्वन विनष्टः, एवं भवानपीति चिरन्तनगाथासमासार्थः। अथैनामेव किञ्चिद् विवृणोतिवयणं खलु नत्थि कत्थई, गवभरियं कुसलेहि पूजियं / अहवान वि पक्खलस्सिमो, पगई एस अजाणुए जणे / / इतर: क्षेपकं कृते ईदृशं मां वन्दित्वा विनयेन पृच्छ इत्येवंरूपंगर्वभरितम हङ्कारभारगुरुकं वचनं कुशलैर्विद्वविर्न कुत्रापि पूजितं श्लाधितम, अतो नैव भवता वक्तुं युज्यते। अथवा नात्र वथं रुष्यामो गर्वं कर्तुमर्हामः / कुत इत्याह-अज्ञे मूर्ख जने प्रकृतिरेषा, यत्तथाविधज्ञानविकलोऽप्येष औद्धत्यमुद्वहति // क्षपकः प्राहमूलेण विणा हु केलिसे, तलु पवले य घणे य सोभइ। नय मूलविभिन्नए घडे, जलमादीणिं धरेइ कत्थइ। मूलेन विना तरुवेक्ष:, चशब्दावपिंशब्दार्थों, प्रवरोऽपि प्रधानोऽपि, सहकारादिरपीत्यर्थः। घनोऽपि पत्रबहुलोऽपि, कीदृशः शोभते ? न कीदृगपीति भावः / एवं विनयमूलविकलो धर्मोऽपि न शोभा विभर्ति, तथा न च नैव मूले वुध्ने विभिन्नो घटो जलादीनि वस्तूनि क्वचिदपि धारयति एवं धर्मधटोऽपि विनयमूलः संजातछिद्रोन किमपि ज्ञानादिजलं धारयितुमीष्ट, अतोऽहं विनयं कारयामीति प्रक्रमः। किं वा मए न नायं, दुविहे गहणम्मि जं जहिं कमती। भन्नइ अभिनवगहणं, सचित्तं ते न नायध्वं / / सचित्ताऽचित्तभेदात् द्विविधेऽपि ग्रहणे यद्यत्राऽभिनवं पुराणं वा क्रामति, तत् तव मया कि वा न ज्ञातं, येनैवं न जानासि ग्रहणस्वरूपमित्याद्यभिधीयते, इतर: प्रतिबूते भण्यते अत्रोत्तरम्अभिनवं सचित्तग्रहणं त्वया न विज्ञातम्। तत्त्विदम्अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु / पवावणा अणरिहा, अनलाए एत्तिया वुत्ता। अडयालसिं एते, वजित्ता सेसगाण तिण्डं ति। अभिनवगहणं एयं, सचित्तं ते न विनायं / / पुरुषेषु पुरुषविषया"बालबुड्डेनपुंसे य" इत्यादिगाथाद्वयोक्ता अष्टादश भेदाः, स्त्रीषुत एव गुर्विणीबालवत्सासहिता विंशतिभेदाः, नपुंसकेषु तु 'पंडए वाइए कीवे' इत्यादयो दश भेदा: प्रव्राजनाया अनर्हा अयोग्या:, अत एव एतावन्तो भेदा अनला इति निशीथाऽध्ययने उक्ताः / अली भूषणपर्याप्तिवारणेषु इति धातुपाठादपर्याप्ताः, प्रव्रज्यापरिपालने असमर्था इत्यर्थः। एतान् सर्वसंख्यया अष्टाचत्वारिंशद्भेदान्वर्जयित्वा, शेषाणां त्रयाणामपि पुरुषस्त्रीनपुंसकानां प्रव्राजनं कर्तुं कल्पते / एतदभिनवग्रहणं सचित्तं ते त्वयान विज्ञातम्। एवं तेनोक्ते सति क्षपकः सती नोदनेत्यभिधाय प्रवृतस्तथैव यथा रत्नाधिको वस्त्रप्रदानं कर्तुमर्हति। वृ०३ उ०। निस्तारणे ,व्य०१ उ०। (राजद्विष्टे सीदता निस्तारणं 'रायछुट्ट' शब्दे) निग्रन्थीसमुद्धरणम्पंचहिं ठाणे हिं समणे निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा जाइकामइ / तं जहा-निग्गंथिं च णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएज्जा, तत्थ निम्नथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइकमइ।। (गिण्हमाणेत्ति) बाहादवङ्गे गृहन् अवलम्बदामान: पतन्तीं बाह्यादौ गृहीत्वा धारयन्, अथ वा "सव्वंगियं तु गहणं, करेण अवलंबणं तु देसम्मि ति" नातिक्रामती स्वाचारमाज्ञां वा गीतार्थः, स्थविरो वा, निर्ग्रन्थिकां यथा कथञ्चित् पशुजातीयो दृप्तगवाादिः,पक्षिजातीयो गृध्रादि: (ओहाएज ति) उ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy