________________ गहण ८५८-अभिधानराजेन्द्रः - भाग 3 गहण अथामुमेव द्वितीयव्याख्यानपक्षमङ्गीकृत्य तिरस्करणविधिमाहसव्वत्थ वि आयरियो, नित्थीरइ तओ पवित्तिणी होइ। तो अभिसेगं पत्तो, सेसेसु तु इत्थिआ पढमं // द्वयोरपि पक्षयोरुदकेन द्रियमाणयोर्यद्यस्तिशक्तिस्ततोयुगपन्निस्तारणं कार्यम् / अथ नास्ति युगपन्निस्तारणसामर्थ्य ततः सर्वत्रापि प्रथभमाचार्यों निस्तारणीयः / आचार्यानन्तरं प्रवर्तिनी तारयितव्या भवति, ततः प्रवर्तिन्या अनन्तरमभिषेकपदं प्राप्तः, ततः शेषेषु तु भिक्षुप्रभृतिषु पदेषु प्रथमं स्त्री निस्तारयितव्या, ततः पुरुषः / तदा हि भिक्षुण्योर्मध्ये प्रथमं भिक्षुणी, ततो भिक्षुस्तारणीयः, क्षुल्लकक्षुल्लिकयोर्मध्ये प्रथमं क्षुल्लिका, ततः क्षुल्लकः। स्थविरयोः प्रथम स्थविरा, ततः स्थविर इति। अथ किमर्थं तेषु प्रथमं स्त्री निस्तार्यतेअन्नस्स वि संदेहं, दर्ल्ड कंपति जा लयाओ व्व। अवलाओ पगइभया-लुगा तु रक्खा अतो इत्थी॥ अन्यस्यापि पुरुषादेः संदेहमापदं दृष्ट्वा स्त्रिय: पवनसंपर्कतो लता इव कम्पन्ते, याश्च अबला: प्रकृत्या स्वभावेनैव च भयालुका भयबहुला अतस्ताः स्त्रिय: प्रथमं रक्षणीयाः। आह-साधुसाध्वीनां निस्तारणे किमेष एवाचार्यप्रवर्तिन्यादिके क्रम उतान्यथाऽप्यस्ति? उच्यतेअस्तीति ब्रूमः। तथा चाहजं पुण संभावेमो, भाविणमहियममुकवत्थूओ। तत्थूक्कम पि कुणिमो, छेओदइए वणियभूया य॥ पुनः क्षुल्लकादिकमपि अमुकादाचार्यदेः वस्तुनः सकाशात प्रवचनप्रभावनादिभिर्गुणैरधिकं सातिशयं भाविनं भविष्यन्तं संभावयामः / तत्र वयमुक्तमपि यथोक्तक्रमोल्लङ्घनमपि कुर्महे, क्षुल्लकादिकमपि प्रथम तारयाम इत्यर्थः / कथंभूता इत्याह-छेदश्च व्ययः, औदयिकश्च लाभः,छेदौदयिकम् तत्र वणिग्भूताः सन्तः। किमुक्तं भवति? यथा वणिग्देयं प्रभूतलाभमल्पव्ययं वस्तु, तस्य ग्रहणं करोति। एवं वयमपि यत्र विशिष्टपात्रभूते वस्तुनि गृहीते प्रवचनप्रभावनातीर्थाव्यवच्छेदादिको भूयान् लाभ: समुज्जृम्भते, स्वल्पश्चेतरपरित्यागलक्षणो व्ययः, तं क्षुल्लकादिकमपि गृह्णीम इति / एवं तावदुदकविषयं ग्रहणमभिहितं, तथैव एतेष्वपि सचित्तमिश्रभेदात् तद् द्विविधमपि वक्तव्यम्। अथाचित्तग्रहणमभिधित्सुराहअचित्तस्स उगहणं, अभिनवगहणं पुराणगहणं च। ओघठवणाएँ गहणं, तह य उबट्ठाविए गहणं // अचित्तं वस्त्रपात्रादिकमुपकरणं, तस्य ग्रहणं द्विधा-अभिनवग्रहणं, पुराणग्रहणं च। तत्राभिनवं प्रथममेव यद् वस्त्रादेर्ग्रहणं तदभिनवग्रहणं, पुराणस्य प्राग्गृहीतस्य चोलपट्टकादेः कूर्परादिना ग्रहणं द्विधाओघोपधिविषयम्, उपस्थापनायां ग्रहोपस्थितौ तदग्रहणम् / तत्रोपस्थापनायां हस्तिदन्तोन्नताकारहस्त-दिभिर्यद्रजोहरणादिगृह्यते तदुपस्थापनाग्रहणम्। उपस्थापितस्य छेदोपस्थापनीयचारित्रं प्रापितस्य यदुपधेर्धारणं परिभोगो वा तदुपस्थापितग्रहणम्। एतामेव गाथां व्याख्यानयतिओहे एवग्गहम्मि य, अभिनवगहणं तु होइ अचित्तो। इयरस्स वि होइ दुहा, गहणं तु पुराणउवहिस्स।। अचित्तस्य वस्त्रपात्रादेरभिनवग्रहणं द्विधाओधोपधिविषयम्, औपग्रहिकोपधिविषयं च / इतरस्यापि पुराणोपधिग्रहणं द्विधाउपस्थापनाग्रहणमुपस्थापितग्रहणं चेत्यर्थः। अथवा अभिनवग्रहणमिदमनेकविधम्-- जायणनिमंतणुवस्सय-परियावन्नं परिछविय नटुं / पम्हुष्ठ पडिय गहियं, अभिनवगहणं अणेगविहं // याचा अभिलषणं, निमन्त्रणा गृहस्थानामभ्यर्थना, तत्पुरस्सरं यवस्वादेर्ग्रहणं यचोपाश्रये पर्यापन्नस्य पथिकादिभिर्विस्मृतपरित्यक्तस्य वस्त्रादेहणं, यच्च परिष्ठापितस्य भूयः कारण ग्रहणम्, अथ नष्ट हारित, 'पम्हुटुं' विस्मृतं, पतितं हस्तात् परिभष्टं गृहीतं प्रत्यनीकेन बलादाश्चिछद्य स्वीकृतम्, एतेषां पुनर्लब्धानां यद् ग्रहणमेवमादिकमनेकविधमभिनवग्रहणं मन्तव्यम्। अथयाञ्चानिमन्त्रणाग्रहणयोर्विधमतिदिशन्नाहजो चेव गमो हेहा, उस्सग्गाईउ वत्थगहणे तु / दुविहोवहिम्मि सो चिय, कास त्तिय किं ति कीस त्ति / / यएव गमः प्रकारोऽधस्तात्पीठिकायां कायोत्सर्गादिके वस्त्रग्रहणविषयो वर्णितः, स एवाऽत्र द्विविधोपधेरौधिकौपग्रहिकक्षणस्य सत्कमेतद्वस्वपात्रादिकं पूर्वमासीद, भविष्यति वा, कस्माद्वा प्रयच्छसीति पृच्छात्रयशुद्धो द्रष्टव्यः / उपाश्रयपर्यापन्नवस्त्रादिग्रहणविषयस्तु विधिरिहैवोद्देश्यके पुरस्तादभिधास्यते। परिष्ठापितादेस्तुयथा कारणतो भूयो ग्रहणं क्रियते तथा व्यवहाराध्ययने भणिष्यते। गतमभिनवग्रहणम्।अथपुराणग्रहणम्। तच्च द्विधाउपस्थापनाग्रहणम्, उपस्थापितग्रहणं च। तत्राऽऽधं तावदाहकोप्परपट्टगगहणं, वामकरानामियाएँ मूहपोत्तिं / रयहरण हत्थिदंतु भएहि हत्थेहुवट्ठवणं / / कूपराभ्यां चोलपट्टस्य ग्रहणं कृत्वा वामकरस्थया अनामिकया मुखपोतिकां गृहीत्वा राजोहरणं हस्तिदन्तोन्नभ्यां हस्ताभ्याभादायं उपस्थापनं कर्तव्यं शैक्षस्य व्रतस्थापनाविषये इत्यर्थः। अथोपस्थापितग्रहणमाहउवठावियस्स गहणं, अहभावे चकेव तह य परिभोगे। एक्ककं पायादी, नेयव्वं आणुपुटवीए॥ उपस्थापितस्य यदुपकरणं तद् द्विधा-यथाभाव:,परिभोगश्च। अनेन च द्विविधेनापि ग्रहणेन एकैकं पात्रादिकं आनुपूर्व्या परिपाट्या नेतव्यं ग्रहीतव्यम्। इदमेव भावयतिपडिठा वियं तु अत्थइ, पायाई एस होतऽहाभावो। सद्दव्य पाण भिक्खा-निल्लेवण पायपरिभोगो।। यत्पात्रादिकं प्रतिष्ठापितं विवक्षितसाधुलक्षणेन स्वामिना