SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ गहण 857 - अभिधानराजेन्द्रः - भाग 3 गहण द्वावपि सलब्धिकावलब्धिको वा, ततो योऽभ्यासे अस्ति स्थितः स निस्तारणियः / अत्रार्थे विशेषसंप्रदाय:द्वयोरभ्यासे स्थितयोर्यस्तरीतुमशक्तः स तारणीयः / एवमेते आचार्यस्य पञ्च गमा अभिहिताः, अभिषेकस्तु नियमान्निष्पन्नो भवति, अन्यथा तत्त्वत आचार्यपदस्थापनयोग्यत्वानुपपत्तेः / ततस्तस्मिन्नभिषेके निष्पन्नानिष्पन्नगमाभावात् शेषाश्चत्वारो गमा एवमेव वक्तव्याः। शेषाणां भिक्षुल्लकस्थविराणां पञ्चापि गमा भवन्ति, ते चाचार्यवद्वक्तव्याः / न च बालस्य निष्पन्नता श्रीवजस्वामिन इव भावनीया, तरुणता तु प्रथमकुमात्वेवर्तमानस्य, शेषस्य तु बृद्धता मन्तव्या / त्रयाणामपि / च भिक्षुप्रभृतीनां परिवारो गुरुप्रदत्तो मातापितृभ्रातृभगिनी प्रभृतिपत्नजितस्वजनवर्गो वा द्रष्टव्यः। अथस्त्रीविषयं पञ्चविधग्रहणमुपदर्शयतिपवितिणिऽभिसेगपत्ता, थेरी तह भिक्खुणी यखुड्डीय। गहणं तासिं इणमो, संजोगगमं तु वोच्छामि॥ प्रवर्तिनी सकलसाध्वीनां नायिका, अभिषेकं प्राप्ता प्रवर्तिनी पदयोग्या, स्थिविरा वृद्धा, भिक्षुणी प्रतीता, क्षुल्लिका वास्ता एतासां पञ्चानामि ग्रहणमिदमनन्तरमेव संयोगगमस्वं संयागतोऽनेकप्रकारं वक्ष्यामि। यथा पतिज्ञातमेवाहसव्वा वितारणिज्जा, संदेहाओ परकमे संते। एककं अवणिजा, जा गणिणी तत्थिमो भेदो। तरुणी निप्फन्नपरिवारा, सलद्धिया जा य होइ अम्मासे। अमिसेगाए चउरो, सेसाणं पंच चेव गमा।। इदंगाथाद्वयं साधुगतगाथाद्वयमिव व्याख्येयम्। परः प्रेरयन्नाहवाला य वुड्डा य अजंगमा य, लोगे वि एते अणुकंपणिया। सव्वाणुकंपाएँ समुजएहिं, विपन्जओऽयं कहमीहितो मे॥ बालाश्च वृद्धाश्च अजङ्गमाश्चेति लोकेऽपि तावदेते अनुकम्पनीया इष्यन्ते, अतः सर्वेषामपि निर्विशेषमनुकम्पायां समुद्यतैः कथमयं 'भे' भवद्भिर्विपर्ययो वैपरीत्यमीहितमङ्गीकृतं यदेवं बालस्थविरौ परित्यज्य आचार्यादीनिस्तायन्ति, वृद्धं वाऽजङ्गममाचार्य विमुच्य तरुणस्तार्यते। पर एवं प्रत्युत्तरमाशङ्कां परिहरन्नाहजइ वुड्डी चिरजीवी, तरुणो थेरोय अप्पसेसाऊ। सोवकम्मि देहे, एयं पिन जुज्जए वोत्तुं / यदीत्यथशब्दार्थे, अथैवं भवतां बुद्धिः स्यात्-चिरजीवी प्रभूतवर्षजीवितस्तरुणः, स्थविरः पुनरल्पशेषायुः स्तोकशेषायुष्कः, अतः स्थविरं विमुच्यते तरुणं तारयामः / एतदप्यसमीचीनम् / कुत इत्याह-सोपक्रमे अध्यवसाननिमित्तादिभिर्गतायुष्कापक्रमकारणैः सप्रत्यपाये देहे सति एतदपि चिरजीवितादिकं वक्तुंनयुज्यते। अवि य हु असहु थेरो, पयरत्तियरो कदाइ संदेहं। ओरालमिदं बलवं, जंघेप्पइ मुचई अवलो।। अपिचेत्यभ्युच्चयं, हुर्निश्चयेस्थविरो वृद्धत्वादेवासहिष्णुर्न तरीतुं / शक्नोति, इतरस्तु तरुणः समर्थतया कदाचित् स्वयमेव संदेहमुदकवाहकहरणरूपं प्राणसंदेहकारणं प्रतरेत् / अतोऽत्र उदारं स्थूरमिदं भवदीयं वचनं यदलवांस्तरुणो गृह्यते, अबलस्तु, स्थविरो मुच्यते। इत्थं परेणोक्तं सूरिराहआय परे उवगिण्हइ, तरुणो थेरो य तत्थ भयणिजो। अणुवकमे विथोवो, चिट्ठइ कालो उथेरस्स।। तरुण आचार्यादिरपूर्वसूत्रार्थग्रहणतपःकर्मकरणादिना, वस्त्रपात्रादिसंपादसूत्रार्थप्रदानादिना चाऽऽत्मानं परांश्चोपगृह्णति, स्थविरस्तु तत्राऽऽत्मपरोपग्रहकरणे भजनीय: कदाचित्तं कर्तुं समर्थः, कदाचित्तं नेति भावः / तथा अनुक्रमेऽपि आयुष उपक्रममन्तरेणापि स्थविरस्य स्तोक एव कालोऽवशेषस्तिष्ठति, तरुणस्य तु सोपक्रमायुषोऽपि स्तोको वा भवेद्, द्राधीयान् वा, ततो "सोवक्कमम्मि देहे" इत्यादि यदुक्तं तत्किं वदेत् ? अथ यदुक्तं बालवृद्धादयोलोकेऽप्यनुकम्पनीया इति तत्परिहाराय लौकिकमेव दृष्टान्तमाहदुग्धासे खीरवती, गावी पुस्सइ कुटुंबपरणट्ठा। मोत्तु फलदं च रुक्खं, को मंदफला सलिल पोसे / / दुसिं दुर्भिक्षं तत्र यथा क्षीरवती, भूम्नि मतुप्रत्ययविधानात् बहुक्षीरा, गौः कुटुम्बभरणार्थ पोष्यते-चारिप्रदानादिना पुष्टि नीयतेएवमस्माकमपि य आचार्यादिस्तरुणादिगुणोपेततया आत्मनः परेषां चोपग्रहं कर्तुं समर्थः स निस्तीर्यते, तस्य निस्तारणे हि बहूना बालवृद्धादीनामपि तदाश्रिता अनुकम्पा कृता, अथ तं परित्यज्य क्षुल्लकस्त्वचिरादिस्तस्य आपदं स्तार्यते, ततो बहवो बालादयस्तदाश्रिताः परित्यक्ता भवन्ति। अपिचफलनादिना पुष्टिदायिनं वृक्षं मुक्त्वा को नाम मन्दफलान् वा वृक्षान् पुष्णीयात्-सरणिसालेलसेचनादिना पुष्टिं प्रापयेत् ? न कोपीत्यर्थः। उपनयनयोजना प्राग्वत् द्रष्टव्या। उक्तं सचित्तग्रहणम्। अथ मिश्रग्रहणमाहएमेव मीसए वी, नेयव्वं होइ आणुपुष्वी ए। वोच्छेदे चउगुरुगा, तत्थ वि आणाइणो दोसा।। एवमेव मिश्रविषयमपि ग्रहणमानुपूर्व्या आचार्यप्रवर्तिन्यादिपरिपाट्या ज्ञातव्यं भवति। अथ यथोक्तक्रममुल्लङ्य विपर्यासेन पुरुषाणां स्त्रीणां चाग्रहणं करोति ततश्चतुर्गुरुकाः। तत्रापि चाज्ञादयो दोषा भवन्ति। अथ मिश्रग्रहणं कीदृशं प्रतिपत्तव्यमित्युच्यतेमीसगगहेणं ततीउ, विनिवाओ जो सभममत्ताणं / अहवा वि मीसयं खलु, उभयो पञ्चक्खओ घोरो।। इह यः सभाण्डमात्राणा पात्रमात्रकाद्युपकरणसहितानां साध्वीनां वा विनिपात उदकवाहके निमज्जनं तत्र तद्विषयं यद् ग्रहणं तन्मिश्रग्रहण-- मुच्यते / अथ वा यदुभयोरपि साधुसाध्वीलक्षणयोः पक्षयोः घोरो रौद्रो युगपदुदकवाहकेनापहरणलक्षणोऽत्ययः प्रत्यपायस्ततो यद् ग्रहणं तन्मिश्रग्रहणमिति मन्तव्यम्।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy