________________ गहण 556 - अभिधानराजेन्द्रः - भाग 3 गहण ऽवधारणे, उत्त०१ अस्वीकरणे, पञ्चा०१० विव००। उपादाने, सूत्र०१ / श्रु०१४ अ०म०नि०चूला पञ्चा० आदाणे गहणम्मि य, णिक्खेवो हों ति दोनि विचउको। ग्रहणेऽपि नामादिकश्चर्तुर्धा निक्षेपो द्रष्टव्य:। भावार्थोऽप्याहानपदस्येव द्रष्टव्यः, तत्पर्यात्वादस्येति एतच्च / ग्रहणं नैगमसंग्रहव्यवहारर्जुसूत्रार्थनयाभिप्रायेणाऽऽदानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थमभिन्नार्थ भवेत्।शब्दसमभिरूढत्थंभूतशब्दनयाभिप्रायेण नानार्थं भवेत्। सूत्र०१ श्रु०१५ अाशास्त्रार्थोपादाने, ध० अधि०। गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः / ध०२ अधि०। गुगमूले श्रुतधर्मेत्यादिविधिना सम्यक्त्वव्रतोपादाने, ध०२ अधिo गिण्हइ गुरूण मूले, इत्तरमियरं व कालमह ताई।। गृह्णाति प्रतिपद्यते, गुरूणामाचार्यादीनां मूले समीपे, आनन्दवत्। आहस श्रावको देशविरतिपरिणामे सति व्रतानि प्रतिपद्यते, असति वा? किचाऽतः? यद्याद्य: पक्ष:--किंगुरुसमीपगमनेन? साध्यस्य सिद्धत्वात्। प्रतिपद्यापि प्रतानि देशविरतिपरिणाम एव साध्यः, स चास्य स्वत एव सिद्ध इति, गुरोरप्येवं परिश्रमयोगान्तरायदोषपरिहारः कृतः स्यादिति। द्वितीयश्चेत्तर्हि द्वयोरपि मृषावादप्रसङ्गात्परिणामाभावे पालनस्याप्यसंभवात्। तदेतत्सकलं परोपन्यस्तमचारु! उभयथाऽपि गुणोपलब्धः / तथाहि सत्यपि देशविरतिपरिणामे गुरुसमीपप्रतिपत्तौ तन्माहात्म्यान्मया सद्गुणस्य गुरोराज्ञाऽऽराधनीयेति। प्रतिज्ञानिश्चयाद् व्रतेषु दृढता जायते, जिनाज्ञा चाराधिता भवतीति। उक्तं च "गुरुसक्खिओहु धम्मो, संपुन्नविहि कयाहि य विसेसा। तित्थयराणं आणा, साहुसमीपम्मि दोसिरओ'।। गुरुदेशनाश्रवणोद्भूतकुशलतराध्यसायात्कर्मणामधिकतरैः क्षयोपशमः स्यात्तस्माचाल्पं व्रतं प्रतिपित्सोरपि बहुतमव्रतप्रतिरुपजायते इत्यादयोऽनेके गुणा गुरोरन्तिके ब्रतानि गृण्हतः संभवन्ति, तथाऽसन्नपि विरतिभावो गुरुपदेशश्रवणान्निश्चयसारपालनातो वाऽवश्यं भावी सरलहृददयस्येति, द्वयोरपिगुरुशिष्ययोषावाणभाव एव गुणलाभात्। शठाय पुनर्नदेयान्येव गुरुणा वनानि, छद्मस्थतया पुनरलक्षितशाठ्यस्य शठस्यापि दाने गुरोः शुद्धपरिणामतवददोष एव / न चैतत् स्वमनीषिकयोच्यते। यदुक्तं श्रावकप्रज्ञप्तौ . "संतम्मि विपरिणामे गुरुमूलपवजणम्मि एस गुणो। दढया आणाकरणं, कम्म, खवोवसमवुड्डी य।।१।। इह अहिए फलभावे, न होइ उभयपलिमंथदोसो वि। तय भावम्मि विदुण्ह वि, न मुसावाओ वि गुणभावा // 2 // तग्गहणओ सियतओ, जायइकालेण असढभावस्स। इयरस्स न देयं चिय, सुद्धो छलिओ विजइ असढो"||३|| कृतं विस्तरेण। कथं गृह्णातीत्याह-इत्वरं चतुर्मासादिप्रमितमितरता यावत्कथिकं वा कालं यावदर्थपरिज्ञानानन्तरं, तानीति प्रस्तुतवृतानीति। ध००। एकेन्द्रियादीनामुपादानम्। आव०४ अ०। (गृहीतानांच परिठापनं 'परिट्ठावणा' शब्दे, गृहीतस्य पुनः परिष्ठापनं तु परिहावणिया' शब्दे) अन्यानि ग्रहणानितिविहं च होइ गहणं, सच्चित्ताचित्त मीसग चेव। एएसिं नाणत्तं,वोच्छामि अहाणुपुय्वीए॥ त्रिविघं च भवति ग्रहणम् / तद्यथा-सचित्तग्रहणम्, अचित्तग्रहण, मिश्रग्रहणं च एतेषां त्रयाणामपि नानात्वं यथानुपूा वक्ष्यामि। " तत्र सचित्तग्रहणं तावदाहसचित्तं पुण दूविहं, पुरिसाणं चेव तह य इत्थीणं। एक्कक पि य इत्तो, पंचविहं होइ नायव्वं / सचित्तग्रहणं पुनर्द्विविधम्, तद्यथा-पुरुषाणां वाऽऽचार्यादीनां,स्त्रीणां प्रवर्तिनीप्रभृतीनाम्, एकै कमपि इतो मूलभेदापेक्षया पञ्चविध वक्ष्यमाणनीत्या पञ्चप्रकारं भवति ज्ञातव्यम्। कुतः पुनः तेषां पुरुषाणां स्त्रीणां वा ग्रहणं क्रियते इत्याहउदगागणितेणोमे, अद्धाण गिलाण सावय पदुटे। तित्थाणुसजणाए, अइसेसगमुद्धरे विहिणा॥ उदकवाहकेनाचार्योदयो नेतुमारब्धाः (अगण ति) महानगरप्रदीपतकें वा दाहस्तेषां समुपस्थितः (तेण त्ति) शरीरस्तेना आचार्यादीन् व्यापादयितुमिच्छन्ति, अवडं दुर्भिक्षं, तत्र भक्तपानलाभाभावास्वाणसंशयस्तेषामुपतस्थे, अध्वानमच्छिन्नपातं महदरण्यं, तं प्रपन्नानामपान्तराले बुभुक्षापरिश्रमादिभिरणतो गन्तुमशक्नुवतां जीवितं संशयतु लामधिरूढम्, (गिलाण त्ति) शूलविषविशूचिकादि कमागाढग्लानदमुपपादितम् / श्यापदा: सिंहव्याघ्रादयः, तैरुपद्रोतुमारब्धः, प्रद्विष्टः प्रद्वेषमापन्नो राजा साधूनां प्राणापहारं कर्तुमभिलषति / एतेषु आगाढकारणेषु तीर्थानुषज्जनाय तीर्थस्याव्यवच्छेदेनानुवर्तनाय योऽतिशायी विशिष्ट पात्रभूतः प्रवचनाधर: परुषस्तं विधिना वक्ष्यामाणनीत्या समुद्धरेत्। अथ यदुक्तमेकैकं पञ्चविधं ग्रहणं भवति , तत्र पुरुषविषयं तावदाहआयरिए अमिसेगे, भिक्खू खड्डे तहेव थेरे य। गहणं तेसिं इणमो, संजोगगमं तु वोक्ष्छामि॥ आचार्यो गच्छाधिपतिः, अभिषेकः सूत्रार्थतदुभयोपेत आचार्यपदस्थापनार्हः, भिक्षुः प्रतीतः, क्षुल्लको बालः, स्थविरो वृद्धः, एतेषां पञ्चानामपि ग्रहणमनन्तरमेव वक्ष्यमाणं संयोगमसंयोगतो गमा: प्रकार: यस्य तत्तथा वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयति-- सव्वे वि तारणिज्जा, संदेहाओ परकमे संते। एकिक अवणिज्जा, जाव गुरू तत्थिमो भेदो।। पराक्रमे शक्तौ यत्यां सर्वेऽप्याचार्यादयस्तादृशात्तु संदेहान्नद्याधुद कनिमज्जनलक्षणात्तारणीयाः, एकैकोऽपि यावद् गुरुरपनेतव्य:, किन्तु तत्रायं भेदो भवति। तरुणो निप्फन्न परिवारे, सलद्धिए जो वि होति अन्मासे। अभिमसेगम्मि य चउरो, सेसाणं पंच चेव गमा।। इह द्वावाचार्या, एकस्तरुणोऽपर: स्थविरो, यद्यस्ति शक्तिस्ततो द्वावपि तारणीयौ, अथनास्ति, ततस्तरुणोनिस्तारणीयः। अथद्वावपितरुणाः, ततो यस्तयोर्निष्पन्न: सम्यक्सूत्रार्थर्थकुशल: स तारयितव्यः। अथवावपि निष्पनावनिष्पन्नौ वा, ततो य: सपरिवार: स तारणीय: अथ द्वावपि सपरिवारावपरिवारौवा, ततो यस्तत्र सलब्धिको लब्धिसंपन्नस्तंतारयेत्। अप