SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ गवेसणा 854 -अभिधानराजेन्द्रः - भाग 3 गवेषणा संप्रति गवेषणाया नामादीन् भेदानाहनामं ठवणा दविए, भावम्मि गवेसणा मुणेयव्वा। . दव्वम्मि कुरंग गया, उग्गम उप्पायणा भावे ||7|| (नाम ति) नामगवेषणा, स्थापनागवेषणा, एते च एषणे सप्रपञ्चं स्वयमेव भावनीये। द्रव्ये द्रव्यविषया, भावे भावविषया चातत्रद्रव्यविषया आगमनोआगमभेदात् द्विधा / तत्रागमतो गवेषणा शब्दार्थज्ञाना, ''तत्र चानुपयुक्तः अनुपयोगो द्रव्यम्" इति वचनात् / नोआगमतस्विधाज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात् / तत्र ज्ञशरीरभव्यशरीररूपे द्रव्यगवेषणे एषणे इव भावनीये। ज्ञशरीरभव्यशरीरव्यतिरिक्तगवेषणा सचित्तादिद्रव्यविषया। तत्र कुरङ्गगजा उदाहरणम्। तथा थाह-(दव्वम्मि कुरंगगया) द्रव्ये-द्रव्यविषयायां गवेषणायां कुरङ्गा मृगा:, गजा हस्तिनो दृष्टान्ताः / भावे भावविषया गवेषणा / (उग्गमउप्पायण त्ति) सूचनात्सूत्रमिति न्यायादुद्गमोत्पादनादोषविमुक्ताऽऽहारविषया। यदुक्तं('दव्यम्मि कुरेगगया' इतितत्र कुरङ्ग दृष्टान्तं गाथाद्विकेन ऽभिधित्सुराहजियसत्तु-देवि-चित्तस-भपविसणं कणगपिट्ठ-पासणया। दोहल दुव्वल पुच्छा, कहणं आणा य पुरिसाणं // 10 // सीवन्निसरिसमोयग-करणं सीवनिरुक्खहेतुसु। आगमण कुरंगाणं,पसत्थअपसत्थउवमाओ||१|| सुगम, नवरं भावार्थः कथानकादवसेयः। तञ्चेदम्-क्षितिप्रतिष्ठितं नाम नगरं, तत्र राजा जितशत्रुः, तस्य भार्या पट्टमहाराज्ञी नाम्ना सुदर्शना, तस्या: कदाचिदापन्नसत्त्वाया: राज्ञा सह चित्रसभायां प्रविष्टायाश्चित्त लिखितान् कनकपृष्ठान् मृगानवलोक्य तन्मांसभक्षणे दोहदमजायत / दोहदे घासंपद्यमाने तस्याः खेदवशतः शरीरस्य दौर्बल्यम् भवत्। तच दृष्ट्वा नृपतिः सखेदं तां पृष्ठवान्। यथा- हा प्रिये ! किमतीव शरीरे तव दौर्बल्यमजायत ? ततः सा दोहदम च कथत् / ततौ राजा सत्वरं कनकपृष्ठकुरङ्गानयनाय पुरुषान् प्रषितवान्। तेऽपिच पुरुषा: स्वचेतसि चिन्तयामासुः-इह यस्य यत् वल्लभां तत्रासक्तस्सन् प्रमादभावं भजमानः सुखेनैव बध्यते, कनकपृष्ठानां च कुरङ्गाणामिष्टानि श्रीपर्णीफलानि, तानि च संप्रतिन विद्यन्ते, ततस्तच्छदृशान् मोदकान् कृत्वा श्रीपर्णीवृक्षतलेषु च सर्वत: पुञ्जकपुञ्जकाकारेण क्षिप्त्वा तेषां समीपे पाशान् स्थापयामः, इति तथैव कृतम् / ते च कनकपृष्ठा रुरवो निजेन यूथाधिपतिनासहस्वेच्छ्या परिभ्रमन्तस्तत्रागताः यूथाधिपतिश्च श्रीपर्णीफलाकारान् पुञ्जकपुञ्जकाकारेण स्थितान् मोदकानवलोक्य मृगानुक्तवान् / यथा-भो रुरवः ! युष्माकं बन्धनार्थमिदं केनापि धूर्तेन कृतं कूटं वर्तते, यतोन संप्रति श्रीपर्णीफलानि भवन्ति, न च संभवन्त्यपि पुञ्जकाकारेण घटन्ते / अथ मन्येथास्तथाविधपरिभ्रमद्वातसंपर्कतः पुञ्जकपुञ्जकाकारेण घटन्ते, तदयुक्तम्, मनु पुराऽपि वाता वान्ति स्म नतु तथा कदाचनाप्येवं पुञ्जकपुञ्जकाकारेण भवन्ति स्म। तथाचैतदेव नियुक्तिकार: पठतिविइयमेयं कुरंगाणं,जया सीवनि सीयइ। पुरा वि वाया वायंता, न उणं पुजकपुंजका / / विदितं प्रतीतमेतत् कुरङ्गाणां यदा यस्मात् श्रीपर्णी सीदति, धातूनामनेकार्थत्वात् न फलति, तस्मान्नेदानी फलानि संभवन्ति, संभवन्तुवा तथापि कथं पुञ्जकपुञ्जकाकारेण स्थितानि? वातक्शाद, ननु पुराऽपि वातान्वान्ति स्म, न पुनरेवं पुञ्जकपुञ्जका: फलानामभवन् / तस्मात् कूटमिदमस्माकं बन्धनाद्य कृतं वर्तते, इति मा यूयमेतेषामुपकण्ठमगमत / एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घजीविनो वनेषु स्वेच्छाविहारसुखभागिनश्चाऽजयन्त, यैस्त्याहारलम्पटतया तद्वचनं न प्रतिपन्नं, ते पाशबन्धादिदुःखभागिनोऽभवन् / इह यद् यूथाधिपतेः श्रीपर्णीफलसदृशमोदकद्रव्यसदोवत्वनिर्दोषत्वपर्यालोचनं सा द्रव्यगवेषणा / इहनियुक्तिकारेण ‘‘पसत्थअपसत्थउवमाओ" इति प्रतिपादयता दार्शन्तिकाऽप्यर्थः सूचितो द्रष्टव्यः / स चायम्यूथाधिपतिस्थानीया आचार्याः, मृगयूथस्थानीयाश्च साधवः, तत्र ये गुरुनियोगत आधाकर्मादिदोषदुष्टाहारपरिहारिणस्ते प्रशस्तकुरोपमा दृष्टव्याः, ये त्वाहारलरम्पट्यतो गुर्वाज्ञामपा-कृत्याऽऽधाकर्मादिपरिभोगिनो बभूवः, ते अप्रशस्तकुरङ्गसदृशा वेदितव्याः / अत्रार्थे च कथानकमिदम् हरन्तो नाम संनिवेश:, तत्र यथागम विहरन्तः समिता नाम सूरयः समाययुः / तत्र च जिनदत्तो नाम श्रावक आसीत् / स च जिनवचनात्साधुभक्तिपरीतचेता दानशौण्ड: कदाचित्साधुनिमित्तं भक्तमाधाकर्म कारितवान् / सूरयश्च सर्वमपि तं वृत्तान्तं कथञ्चित्परिज्ञातवन्तः / ततस्तैः साधवस्तत्र प्रविशन्तो निवारिताः / यथा-भोः साधवः ! तत्र साधुनिमित्त आहारः कृतो यर्तते इति मा तत्र यूयं गच्छत। एवमुक्ते यैस्तद्वचः प्रतिपत्यम्, ते आधाकर्मपरिभोगजनितपापकर्मणान बद्धा गुर्वाज्ञा च परिपालिता, ततः शुद्धशुद्धतर संयमप्रवृत्तिभावतो मुक्तिसुखभागिनोऽभवन् / ये त्वाऽऽहारलाम्पट्यता भावितं दाषमनवगणय्याऽऽधाकर्मणि झषाइव वडिशनिवेशिते मांसे प्रवृत्तास्ते कुगति हेत्वाधाकर्मपरिभोगतो गुर्वाज्ञाभङ्गतश्च दीर्घतरसंसारभागिनोः जाताः / सांप्रतंगजदृष्टान्तमाहहत्थिग्गहणं गिम्हे, अरहट्टेहि मरणं व सरसीणं / अच्छुदएण नलवणा, आरूढा गयकुलाऽऽगमणं // हस्तिग्रहणं मया कार्यमित्येवं राज्ञश्चिन्ता, ततस्तद्ग्रहणाय ग्रीष्मकालेऽपि पुरुषप्रेषणा, तैश्च सरसीनामरघट्टकैर्भरणं कृतं, ततोऽन्युदकेन नलवनान्यतिशयेन प्ररूढानि, गजकुलस्यागमनभिति गाथाऽक्षरार्थः। भावार्थस्तु कथानकादवसेयः। तच्चेदम्-आनन्दं नामंपुर, तत्र रिपुमर्दनी नाम राजा, तस्य भार्या धारिणी, तस्य च पुरस्य प्रत्यासन्नं गजकुलशतसहस्रसंकुलं विन्ध्यमरण्यम्, ततो राजा कदाचित् गजबलं महावलमित्यवश्यं मया गजा ग्रहीतव्या इति परिभाव्य गजग्रहणाय सत्वरं पुरुषान् प्रेषयामास / ते च पुरुषाश्चिन्तितवन्तो यथा-गजानां नलचारिरभीष्टा, सा च संप्रति ग्रीष्मकाले न संभवति, किं तु वर्षासु। तत इदानीमरघट्टः सरसीर्विभृमो, येन नलवनान्यतिप्ररूढानि भवन्ति / तथैव कृतम् / नलवनप्रत्यासन्नाश्च सर्वतः पाशा मण्डिताः इतश्च परिभ्रमन्तो यूथाधिपतिसहिता हस्तिनः समाजग्मुः, यूथाधिपतिश्च तानि वनानि परिभाव्य गजान् प्रति उवाच-भोः स्तवेरमाः! नाऽमूनिन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy