SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ गरिहा 851 - अमिधानराजेन्द्रः - भाग 3 गरिहा भव्वो त्ति'। सम्यग्दृष्टस्तूपयुक्तस्य भावगर्हेति चतुर्दा, गर्हणीयभेदात्। बहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता / तथा चाह-(मणसा वेगे गरिहइ ति) मनसा चेतसा, वाशब्दो विकल्पार्थोऽवधारणार्थो वा। ततो मनसैव, नवाचेत्यर्थः / कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्रय-निन्दितोऽनभिष्टुतस्तद्वचनोपलब्धसामन्त परिभूतस्वतनयराजवा” मनसा समारब्धपुत्रपरिभवकारिसामन्तसंग्रामो वैकल्पिकप्रहरणक्षये स्वतीर्थकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुण्ठितमस्तकस्ततः समुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकमन्धनो राजर्षिः प्रसन्नचन्द्र इव एकः कोऽपि साध्वादिगर्हते जुगुप्सते, गामिति गम्यते। तथा वचसा वा वाचा, अथवा वचसैवन मनसा, भावतो दुश्चरितादिरक्तत्वाजनरञ्जनार्थ गर्हाप्रव्रत्ताङ्गारम-र्दकादिप्राय साधावत् एकोऽन्यो गर्हते इति / (अथवा मणासावेगे गरिहइ त्ति) इह अपि च संभावने, तेन संभाव्यते अयमर्थोऽपिमनस्यैको गर्हते, अन्यो वचसेति। अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचसाऽपि न केवलं मनसा एक इति, स एव गर्हते, उभयथाऽप्येक एव गर्हत इति भावः / अन्यथा गर्हाद्वैविध्यमाह-(अहवेत्यादि अथवेति पूर्वोक्तद्वैविध्य प्रकारापेक्षया द्विविधा गर्दा प्रज्ञप्तेति / प्रागिव अपिः संभावने / तेन अपि दीर्घा वृहती अद्धां कालं यावदेकः कोऽपि गर्हते गर्हणीयम्, आजन्मापीत्यर्थः / अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपेक्षित्वात् दीर्घहस्वयोरिति एवमति ह्रस्वामल्पांयावदेकोऽन्य इति। अथा वा दीर्घामव यावद, व्यहस्तामेव यावदिति व्याख्येयम्, अपरेवधारणत्वादिति। एक एव वा द्विधा कालभेदेन गर्हते, भावभेदादिति / स्था०२ठा०१ उ०। तिस्रो गर्दा:तिविहागरिहा पन्नत्ता। तं जहा-मणसा वेगे गरहइ, वयसा वेगे गरहह, कायसा वेगेगरहइ, पावाणं कम्माणं अकरणयाए। अहवा गरहा तिविहा पन्नत्ता / तं जहा-दीहं वेगे अद्धं गरहइ, सहस्सं वेगे अद्धं गरहइ, कायं वेगे पडिसाहरइ पावाणं कम्माणं अकरणयाए। (दीह वेगे अद्धं ति) दीर्घ कालं यावदित्यर्थः / तथा कायमप्येकः प्रतिसंहरति निरुणद्धि, कया ? पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेन तदकरणतायै वा तेभ्यो गर्हते, कायं वा प्रतिसंहरति तेभ्योऽकरण्तायै / स्था०३ ठा०१ उ०॥ ज्ञानदर्शनचारित्रगर्दा / अथ त्रिविधां गर्हा व्याचिख्यासुस्तत्स्वरूपं तावदाहसीसो कंपण गरिहा, इत्थ विलंविय अहो य हक्कारो। वेला कण्णाय दिसा, अवत्तु णामंण घेत्तव्वं // गर्दा नाम शैक्षेण पृष्टः सन् शीर्षाऽऽकम्पनं कारोति, हस्तौ वा धुनीते, विलम्बितानि वा करोति, हस्तावोष्ठौ वा विलम्बयतीत्यर्थः। यद्वाब्रवीति अहो प्रव्रज्या, हाकारं वा करोति-हा हा कष्टं यदेवं नष्टो लाकेः (वेल त्ति) नामापि तस्य न वर्तते अस्यां वेलायां ग्रहीतुमिति, कर्णी वा तदीयनामग्रहणं स्थ गयति, यस्यां वा दिशि स तिष्ठति तस्यां न स्थातव्यमिति ब्रवीति / उपलक्षणात्वादक्षिणी वानिमीलयति / यदानामापि तस्य निरत्रपैन ग्रहीतव्यम् / अतः आस्तामेतद्विषयं पृच्छादिकमिति। नाणे दंसणचरणे, सुत्ते अत्थे य तदुभये चेव। अह होति तिहा गरिहा, कायो वाया मणो वा वि / / ज्ञाने दर्शन चारित्रे चेति त्रिविधा गर्दा भवति। तत्र ज्ञानगर्दा नाम-ननु पठितेनैव किं तदीयेन ज्ञानेन / दर्शनगर्हा तु मिथ्यादृष्टि स्तिकप्रायोऽसौ। चारित्रगर्हासातिचारं चारित्रोऽचारित्रोवाऽसौ। अथवा-सूत्रे अर्थे तदुभये चेति विधात्ति गर्दा। तत्र सूत्रं तस्य शङ्कितस्खलितमर्थं पुनरवबुध्यते 1 / यद्वा-अर्थ नावबुध्यते सूत्रं पुनरागच्छति स उभयमपि वा तस्याविशुद्धं नजानाति वा किमपीति 3 अथवा कायवागमनोभेदात् त्रिधा गरे। तत्र कायगर्हा-तेषामाचार्याणां शरीरं हुण्डादिसंस्थानं, विरूपं वा। वाग्ग - मन्मनं काहलंवा ते जल्पन्ति। मनोगाहीन तेषां तथाविधमूहापोहपाटवं तथा ग्रहणसामर्थ्यमिति / अथैषा त्रिविधा गर्दा भवति। प्रकारान्तरेण गर्हामेवाहपव्वयसि आम कस्स,त्ति सकासे चामुगस्स निहिहो। आयपराधिगसंसी, उवहणति परं इमेहिं तु / / कोऽपि शैक्षकेणा पि साधुना पृष्टः--प्रव्रजसि त्वम् / स प्राहआमम् / कस्य सकासे इति पृष्टः सन्भूयोऽप्याह-अमुकस्य समीपे। एवं निर्दिष्ट उक्ते स साधुरात्मानं परस्मादधिकं शंसितुमाख्यातुं शीलमस्य इत्यात्मपराधिकशंसी परमेभि: वचनैरुपहन्ति। तत्यथाअवहुस्सुताऽविसुद्धं, अहछंदा तेसुवाधिसंसग्गिं / ओसण्णा संसग्गी, व तेसु एकेकाए दुन्नि / / अहं बहुश्रुतः, सोऽबहुश्रुतः। अहं विशुद्धपाठकः, स पुनरविशुद्धपाठी। यद्वा यथाच्छन्दास्ते आचार्या तैर्वा यथाच्छन्दैः सह तेगाढतरं संसर्गिणः, गाथायां तृतीयार्थे सप्तमी / अवसन्ना वा तैः सार्धं संसर्गिणो वा, एवं पार्श्वस्थादावप्येकैकस्मिन् भदौ द्वौ द्वौ दोषवेवमेव वक्तव्यौ। अथ कायवङ्मनोगमिव प्रकारान्तरेणाहसीसोकंपण हत्थे, कण्ण दिसा अच्छि काइगी गरिहा। वेला अहो यह त्ति य,णामं ति य वायगी गरिहा / / शीर्षकम्पनं, हस्तविलम्बनं, कर्णमोटनम्, अन्यस्यां दिशि स्थानम्, अक्षिनिमीलनम् अनिमिषलोचनस्य वीक्षणमवस्थानम्, एषा सर्वाऽपि कायिकी गरे / यत्तु यस्यां वेलायां नाम न ग्रहीतव्यम् अहो कष्टं हाहाकारकरणं नाम च तस्य कदापि न ग्रहीतव्यमित्यादिभाषणम्, सा वाचिकी गरे। अह मान सिगी गरिहा, सूइजति णेत्तवत्तरागेहिं। धीरत्तणेण य पुणो, अमिणंदह णावितं वयणं / / अथानन्तरं मानसिकी गर्दा-मनसि तमाचार्य जुगुप्सते / कथमेतत् ज्ञायते ? इत्याह-नेत्रवक्त्रयोः संबन्धिनो ये रागा मुकुलनविच्छायीभवनादयो विकारास्तैः सूच्यते मानसिकी गर्दा इति भणिते साध्विदं कृत्यमेतद्भव्यानामित्यादिवचोभिन तदीयं वचनमभिनन्दते, धीरतया वा तूष्णीकमास्ते, एवमन्यतरस्मिन् गर्दाप्रकारे कृते तस्य शङ्का भवति-अवश्यमकार्यकारी स आचार्यादिः संभाव्यते, न चामी साधवोऽलीकं भाषन्ते, अहमपि तत्र गत आत्मानं नाशयिष्यामीति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy