________________ गब्भ 838 - अभिधानराजेन्द्रः - भाग 3 गब्भ / / 3 / 137 इति सप्तम्यर्थे द्वितीया। निजके आत्मीये (विगणिज्जतं इति) आत्मपरेषां जुगुप्सायोग्ये शौचमदं पवित्रत्वाङ्गीकारलक्षणं यथा मयाऽस्य स्नानचन्दनादिना पवित्रत्वं विधेयमिति। यद्वाशौचेन वस्त्रचन्दनाभरणादिना मदो गर्यो यत्र सनत्कुमारचक्रीवत् तच्छौचमदं, यथा कीदृशं मम शरीरं शोभतेऽलङ्कारादिभेति। यदि वा-एवंविधे शरीरे कुत्रापि रोगादिना विनष्टे शोकमदं शोकङ्गीकारकरणं, यथाहा मम सुन्दरं शरीरं स्फोटकादिना विनष्टमिति कीदृशं तस्य जीवस्येति / / 7 / / तं०। (पञ्चप्रकारैः स्त्री गर्भ धरतिन धरति च तत्र पुरुषाऽसंयोगेऽपि गर्भसंभव इतितुस्थानाङ्गे प्रोक्तमस्ति, तचास्मिन्नेवशब्दे ८३१पृष्ठेतंदुलवयालीय 11 गाथा टीकायां समुद्धतमितिन पुनरुच्यते) अथपुरुषसंगताऽपि स्त्री कथं गर्भ नधारति? पंचहि ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणी वि गब्भं नो धरेजा। तं जहा-अप्पत्तजोवणा, अइकंतजोव्वणा, जाइवंझा, गेलन्नपुट्ठा,दोमणंसिया, इच्चेएहिं पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणी वि गन्मं नो धरेजा। पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणी वि गभं नो घरेज्जा / तं जहानिचोउआ अणोउया वावन्नसोया वाविद्धसोया अणंगपडिसेविणी, इच्चेएहिं पुचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणा वि गब्मं नो धरेजा। पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणि वि गम्भं नो धरेजा। तं जहा-उदूसि णो णिगामपडिसे विणी वा वि भवइ, समागया वा से सुक्क पोग्गले पडिविद्धंसंति, उदिने वा से पित्तसोणिउ पुरा वा देवकम्मुणा पुत्तफले वा नो निविटे भवइ, इच्चेएहिं० जाव नो धरेजा। अप्राप्तयौवना प्राय आवर्षद्वादशकादार्तभावात्, तथाऽतिक्रान्त यौवना वर्षाणां पञ्चपञ्चाशतः पञ्चाशतो वा परत आर्तवाऽभावादेव (यतोऽवाचि'मासि मासीत्यादिगाथात्रयम्। तत्र तन्दुलवयालीय 13 गाथाटीकायां 831 पृष्ठेऽत्र भागे न्यरूपि, तत एवावधार्यम्) तथा जातेजन्तम आरभ्य वन्ध्या निर्वीजा जातिवन्ध्या / तथा ग्लान्येन ग्लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा रोगार्दिता / तथा दौर्मनस्यं शोकाद्यस्ति यस्या: सा दौर्मनस्यिका, तद्वा जातमस्या इति दौर्मनस्यितेति। "इच्चेएहिं इत्यादि'' निगमनम्। नित्यं सदा, न त्र्यहमेव,ऋतू रक्तप्रवृत्तिलक्षणो यस्या: सा नित्यर्तुका तथा न विद्यते.ऋतु रक्तरूप: शास्त्रप्रसिद्धो वा यस्या: सा अनृतुका,(कियत्यः खलु ऋतुनिशा:, कस्यां कन्या, कस्यां च पुत्रः समुत्पद्यते, इत्यादि विषये"ऋतुस्तु द्वादश निशा:" इत्येतद्गाथात्रयं 531 पृष्ठेऽत्रैव शब्दे प्रोक्तम्) तथा व्यापन्नं विनष्टं रोगतः स्रोतो गर्भाशयछिद्रलक्षणं यस्याः सा व्यापन्नस्रोता: / तथा व्यादिग्धं व्याविद्धं वा वातादिव्याप्तं विद्यामानभप्युपहतशक्तिक स्रोत उक्तरूपं यस्याः सा व्यादिग्धस्रोता, व्याविद्धसोता वा। तथा मैथुने प्रधानमनं मेहनं भगश्च तत्प्रतिषेधोऽनङ्गम्, तेनानङ्गे नाहार्यलिङ्गादिना अनङ्गे वा मुखादौ प्रतिषेवा अस्ति यस्याः , अनङ्ग वा काममपरापरपुरुषसंपर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीला अनङ्गप्रतिषेविणी, तथाविधवेश्यावदिति। ऋतौ ऋतुकाले नो नैव निकाममत्यर्थ बीजपातं यावत् पुरुष प्रतिषेवते इत्येवंशीला निकामप्रतिषेविणी, वापीति उत्तरविकल्पापेक्षया समुच्चये। समागता वा (से) तरयास्ते प्रतिविध्वंसन्ते योनिदोषादुपहतशक्तयो भवन्ति, मेहनविस्रोतसा वा योनेर्वहिः पतन्तो विध्वंसन्ते इति / उदीर्ण चोत्कटं तस्याः पित्तप्रधानं शोणितं स्यात्तच्चाबीजमिति, पुरा वा पूर्व वा गर्भावसराद् देवकर्मणा देवक्रियया देवताऽनुभावेन, शक्त्युपघातः स्यादितिशेष:। अथवा देवच्च कार्मण च तथाविधद्रव्यसंयोगो देवकार्मण, तस्मादिति, पुत्रलक्षणं फलं पुत्रफलं, पुत्रो वा फलं यस्य कर्मणस्तत्पुत्रफलं, तद्वा नो विर्विष्ट भवति, अलब्धमनुपात्तं स्वादित्यर्थः। "थोवं वहुं निवेसं" इत्यादौ निर्वेशशब्दस्य लाभार्थस्य दर्शनात्। अथवा पुत्र फलं यस्यतत्पुत्रफलंदानंतजन्मान्तरे अनिर्विष्टमदत्तं भवति, निर्विष्टस्य दत्तार्थत्वाद्। यथा 'नाऽनिविट्ठलडभइ 'ति। स्था०५ ठा०२ उ०। गर्भपतनकारणानि"पसुपक्खिमाणुसाणं, बालो जो विव हु विओजए पावो। सो अणवच्चो जायइ, अह जायइ तो विवजिजा / / 13 / / तत्पड्डका मया किं त्यक्ता वा त्याजिता अधमबुद्ध्या ? / लघुवत्सानां मात्रा, समं वियोगः कृतः किं वा ?||14|| तेषां दुग्धापायोऽकारि मया कारितोऽथवा लोकैः। किं वा सबालकोन्दुरुबिलानि परिपुरितानि जलैः / / 15 / / किं वा रााण्डशिशून्यपि, खगनीडानि प्रपातितानि भुवि / पिकशुककुर्कुटकादे-बोलवियोगोऽथवा विहितः // 16 // किं बा बालकहत्याऽकारि सपत्नीसुताद्युपरि दुष्टम्। चिन्तितमचिन्त्यमपि वा, कृतानि कि कार्मणादीनि ?||17|| किं वा गर्भस्तम्भन-शातनपातनमुखं मया चक्रे / तन्मन्त्रभेषजान्यपि, किं वा मयका प्रयुक्तानि ?||18| अथवा भवान्तरे किं, मया कृतं शीलखण्डनं बहुश: ?/ यदिदं दुःखं तस्मा-द्विना न संभवति जीवानाम् / / 16 / / यतःकुरंडरंडत्तणदुब्भगाई, वंझत्तनिंदूविसकन्नगाई। लहंति जम्मतरभग्गसीला, नाऊण कुजा दढसीलभावं''।।२०।। कल्प०४ क्षण। गर्भपोषणविधिःतए णं सा तिसला खत्तियाणी ण्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सटवालंकारविभूसिया तं गर्भ नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाइएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुभअमाणसुहेहिं भोयणाच्छायणगंधमल्लेहिं दवगयरोगसोगमोहभयपरिस्समा, जं तस्स गब्भस्स हियं मियं पत्थं गब्भपोसणं तंदेसे अ काले अ आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिक्कसुहाए मणाणु कू लाए विहारभूमीए पसत्थदोहला संपुन्नदोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला ववणीयदोहला सुहं सुहेणं आसइ, सयइ, चिट्ठइ, निसीअइ, तुयट्टइ, विहरइ सुहं सुहेणं तं गन्भं परिवहइ / /