________________ गब्भ 833- अभिधानराजेन्द्रः- भाग 3 गब्भ (तो पढमे०) तत इह च तच्छुकशोणितमुत्तरोत्तरपरिणाम-मासादयत् प्रथमे मासे कर्षेनं पलं जायते। "पञ्चगुजाभिर्माष:, षाडशभिषिः कर्षः, चतुर्भिः कर्ष: पलम्" इति वचनात्। त्रयः कर्षाः स्युरितिभावः 1, द्वितीये तुमासे पेसी घनस्वरूपा भवति, समचतुरस्र मांसखण्डं जायते इत्यर्थः 2, तृतीये मासे तु मातुदोहदं जनयतीत्यर्थः 3, चतुर्थे मासे मातुरङ्गानि प्रीणयति, पुष्टानि करोतीत्यर्थः 4, जीवः पञ्चमे मासे पाणिद्वय-पादद्वय-मस्तकरूपा: पञ्च पिण्डिकाः पञ्चकुरान् निर्वर्तयति, निष्पादयतीत्यर्थः 5, षष्ठेमासे पीयतेजलमनेनेति पित्तं, पित्तं च शोणितं तद् उपचिनोति, पृष्टं करोतीत्यर्थः 6, सप्तमे मासेसप्त शिराशतानि७०० पञ्च पेसीशतानि 500 नत्र धमन्यो नवनाड्यो नवनवतिरोमकूपशतसहस्राणि निवर्तयति। रोम्णां तनूरुहाणां कूपा इव कूपा रोमकूपाः, रोमरन्ध्राणीत्यर्थः, तेषां नवनवतिर्लक्षा इति केशश्मश्रुणी विना, तत्र केशा: शिरोजा:, इमभूणि कूर्चकशा: 6600000, केशश्मश्रुभिः सह (अछुहाउत्ति) सास्तिस्रो रोमकूपकाटी: निर्वर्तयतीति 35000000 // 7 // अष्टमे मासे तु शरीरमाश्रित्य (वित्तीकप्पो त्ति) निष्पन्नप्रायो जीवो भवतीति / 18 // अत्राधिकारे इन्द्रभूतिःजनोपकाराय त्रैशलेयं सर्वज्ञ सर्वभूतदयैकरसं प्रयनयतिजीवस्स णं भंते ! गभगयस्स समाणस्स अस्थि उच्चारे इवा पासवणे ए इवा खेले इ वा सिंघाणे इ वा पित्ते इवा सुक्के इवा सोणिए इवाइ वा वंते ? नो इणटे समढे। से केणतुणं भंते ! एवं दुबइ-जीवस्सणं गभगयस्स समाणस्स नत्थि उचारे इ वा० जाव सोणिए इवा? गोयमा ! जीवेणं गभगए समाणे जं आहारमाहारेइ तं चिणाइ सोइंदियत्ताए 1 चक्खिंदियत्ताए 2 घाणिं दियत्ताए 3 जिभिदियत्ताए / फासिंदियत्ताए 5 अहिअद्विमिंजकेसमंसुरोमनहत्ताए से एएणं अटेणं गोयमा! एवं वुचइ-जीवस्स णं गभगयस्स समाणस्स नत्थि उचारे इ वा० जाव सोणिए इवा।। (जीवस्स णं भंते ! इत्यादि) हे भदन्त ! जीवस्य जन्तोः 'ण' वाक्यालङ्कारे, गर्भगतस्य गर्भत्वं प्राप्तस्य (समाणस्सत्ति) सतः, अस्ति विद्यते, वर्तते इत्यर्थः / उचारो विष्ठा, 'इ' इति रूपप्रदर्शने, अलङ्कारे, पूरणे वा, वेति विकल्पार्थे / प्रस्रवणं सूत्रम्,खेलो निष्ठीवनं (सिंधाणे त्ति) नासिकाइश्लेष्मा (वंते) वमनं, पित्तं मायुः, शुक्रं वीर्य ,शोणितं रुधिरं "सुक्के इ वा सोणिए इ वा" इति पदद्वयं भगवत्यादिसूत्रे न दृश्यते, आगमज्ञैर्विचार्यमिति / (नो इणद्वे०) नो नैव (इणड्डे त्ति) अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थो भावः समर्थो बलवान्, वक्ष्यमाणदूषणमुद्ररप्रहारजर्जरितत्वात् / गौतमस्वामी प्राह-(से केण?णं ति) अथ केन कारणेनेत्यर्थः। हे भदन्त! एवं प्रोच्यते-जीवस्य गर्भगतस्य सतो नास्ति उचारो यावच्छाणितमिति ? भगवान् प्राह- हे गौतम ! जीवः 'ण' वाक्यालङ्कारे, गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रियतया 1 चक्षुरिन्द्रियतया 2 घ्राणेन्द्रियतया 3 जिह्वेन्द्रियतया 4 स्पर्शनेन्द्रियतया 5 चिनोति, पुष्टीभावं नयतात्यर्थः / इन्द्रियाणि द्वैधानिपृगलरूपाणि द्रव्येन्द्रियाणि 1, लब्ध्युपयोगरूपाणि तु भावेन्द्रियाणि / / पुनर्निवृत्त्युपकरणलक्षणभेदाद्वैधानि द्रव्येन्द्रियाणि।तत्र निवृत्तिर्द्विधाअन्तो बहिश्च 2, तत्रान्तः श्रोत्रेन्द्रियस्यान्तर्मध्ये नेत्रगोचरातीता केवलिदृष्टा अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निवृत्तिरस्ति, या शब्दग्रहणोपकारे वर्तते 1 / चक्षुरिन्द्रयास्यन्तर्मध्ये केवलिगम्या धान्यमसूराकारा काचिन्निवृत्तिरस्ति, या रूपग्रहणोपकारे वर्तते / घ्राणेन्द्रियस्यातर्मध्ये केवलिदृष्टा अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निवृत्तिरस्ति, या गन्धग्रहणोपकारे वर्तते 3 / रसनेन्द्रियस्थान्तर्मध्ये जिनगम्या क्षुरप्रहरणाकारा देहावयरूपा काचिक्षिविरस्ति, या रसग्रहणोपकारे वर्तते 4aa स्पर्शनन्द्रियस्यान्तः केवलिदृष्टा देहाकारा काचिन्निवृत्तिरस्ति, या स्पर्शग्रहणोपकारे वर्तते 51 यहिर्निवृत्तिस्या या सर्वेषामपि श्रोत्रादीनां कर्णतुष्कुलिकादिका दृश्यते, सैव मन्तव्या। उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनां खङ्गस्य छेदनशिक्तिरिय ज्वलनस्य दहनशक्तिरिव वा या स्वकीयस्वकीयविषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् / तथा ज्ञानावरणकर्मक्षयोपशमाद् जीवस्य शब्दादिग्रहणशक्तिरूपं लब्धिभाउवेन्द्रियम् 1 / यत्तु शब्दादीनामेव ग्रहणपरिणाममलक्षणं तदुपयोगभावेन्द्रियमिति 2 / तत्र यानि द्रध्येन्द्रियाणि तानि जीवानां पर्याप्तौ सत्यां भवन्ति, यानि च भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति / तथा नयनस्य विषयोऽप्रकाशकवस्तुपर्वतााद्याश्रित्यात्माङ्गुलेन सातिरेक योजनलक्षं स्यात् / प्रकाशके त्वादित्यचन्द्राद्यवधिकमपि विषयपरिमाणं स्यात् / नात्र विषये नियमः कोऽपि निर्दिष्टोऽस्ति सिद्धान्ते, यतः पुष्करवरद्वीपादिमानुषोत्तरपर्वतसमीपे कर्कसंक्रान्तौ मनुष्याः प्रमाणाड्डलभवैः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितं रविं पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति। जघन्यतस्त्वत्यासन्नरजोमलादेरग्रहणादडलसंख्येयभागात्परतः स्थितं वस्तु चक्षुषो विषयः 1. श्रोत्रस्य द्वादश योजनान्युत्कृष्टविषयो मेघगर्जितादौ 24 घ्राणरसनस्पर्शनानां तूत्कृष्ट नव योजनानि, जघन्यतस्तु चतुर्णामप्यङ्गुलमसंख्येयभागादागतं गन्धादिकं विषय: मनसस्तु केवलज्ञानस्येवसमस्तमूर्ताऽमूर्तवस्तुविषयत्वेन क्षेत्रतो नास्ति विषयपरिमाणं, मनसोऽप्राप्यकारित्वादिति / विषयपरिमाणं चात्रेन्द्रियविचारे आत्माङ्गुलेनैव ज्ञेयमिति / तथा (अडिमअद्विमिंज) अस्थ्यस्थिमिजकेशश्मश्रुरोमनखतया चिनोतीति / तत्रास्थि हडुम्, अस्थिमिजा अस्थिमध्यावयवः, केशा: शिरोजा:, श्मश्रूणि कूर्चकेशा:, रोमाणि कक्षादिकेशा इति। 'से' अथानेनार्थेन अनेन कारणेन हे गौतम ! हे इन्द्रभूते! एवं पूर्वोक्तं प्रोच्यते प्रकर्षण प्रतिपाद्यते, जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छागणितमिति। पुनर्गौतमोज्ञातनन्दनं प्रश्नयतिजीवे णं भंते ! गब्भगए समाणे पह मुहेणं कावलियं आहारं आहारित्तए? गोयमा! नो इणढे समटे / से के णटेणं मंते ! एवं दुबइ ? गोयमा ! जीवेणं गब्भगए समाणे सवओ आहारेइ, सवओ परिणामेइ, सव्वओ ऊससेइ, सव्वओ नीससेइ, अभिक्खणं 2 आहारेइ, अभिक्खणं 2 परिणामेइ, अभिक्खणं 2 ऊससेइ, अभिक्खणं 2 नीससेइ, आहाच आहारेइ, आहब परिणामेइ, आहच ऊससेइ, आहबनीससेइ, माउजीवरसहरणी पुत्तजीवरसहरणी, माउजीवपडिवद्धा