________________ गब्भ 831 - अभिधानराजेन्द्रः - भाग 3 गब्भ वा पुरुषवचीर्येण यदा मिलिताः (तइय त्ति) तदा जीवोत्पादे गर्भसंभूतिलक्षणे योग्या भणिताःकथिता जिनेन्द्रैः सर्वज्ञैरिति।११। ननु कथा पुरुषासंयोगे पुरुषसंभवा इति? यदुक्तं स्थानाङ्ग "पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं असंवसमाणी वि गठभं धरेजा। तंजह इत्थी दुवियडा दुन्निसन्ना सुक्कपोग्गले अधिट्ठिज्जा 1, सुकपोग्गल संसट्टे वा से वत्थे अंतो जोणिए अणुपवेसेज्जा 2, सयं वासे 3, परो वा से सुक्कपोग्गले अणुपवेसेजा 4, सीओदगवियडेण वा से आयममाणीए सुक्कपोग्गले अणुपवेसेज्जा 5, इचेतेहिं पंचहिं ठाणेहिं जावधरेजा"(स्था०५ठा०२ उ०) परिधानवर्जितेत्यर्थः / दुर्निषण्णान् पुरुषशुक्रपुद्गलान् कथञ्चित्पुरुषनिसृष्शनासनस्थानधितिष्ठेद् योन्याकर्षणेन संगहीयात् 1, तथा शुक्रपुगलसंसृष्ट से' तस्याः स्त्रियावस्वमन्तर्मध्ये योनावनुप्रविशेद, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रविशेदिति 2, स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च (से ति) सा शुक्रपुद्गलान् योनावनुप्रवेशयेत् 3, (परो वेत्ति) श्वश्रूप्रभृतिकः पुत्रार्थमेव (से) तस्या योनाविति 4, शीतोदकलक्षणं यद्विकट पल्वलादिगतमित्यर्थः, तेन वा (से) तस्या आचामत्याः पूर्वपतिता उदकमध्यवर्तिनः शुक्रपुद्गला अनुप्रविशेयुरिति। अथाध्यस्तयोनिकालमानंजीवसंख्यापरिमाणं चाहवारस चेव मुहुत्ता, उवरिं विद्धंस गछई साउ। जीवाणं परिसंखां, लक्खपहुत्तं च उक्कोसं ||12|| (वारस०) सा पुरुषवीर्यसंयुक्ता योनिदशैव मुहूर्तान् यावद्दध्वस्ता भवति। तथा (उवरि ति) द्वादशमुहूर्तानन्तरं सा योनिर्विध्वंसं गच्छति, प्राप्नोतीत्यर्थः / अयमाशयःऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादशमुहूर्तमध्य एव गर्भभावः, तदनन्तरं वीर्यविनाशत्वाद् गर्भाभाव इति। तथा मनुष्यगर्भ जीवानां गर्भजन्तूमनां परिसंख्या, संख्या-मानं, लक्षपृथक्त्यमुत्कृष्टतो भवति। सिद्धान्तभाषया द्विप्रभृतिरानवभ्यः संख्या कथ्यत इति॥१२॥ अथ कियट्यो वर्षेभ्य: पुनरूज़ गर्भ स्त्रियोन धारयन्ति, पुमाँश्चावीर्यो भवति इति प्रसङ्गतो निरूपयितुमाहपणपन्ना य परेणं, जोणि पडिलायए महिलियाणं / पणसत्तरीइ परओ, पारण पुडं भवे वीओ|१३|| (पणप०) महिलानां स्त्रीणां प्रायः प्रवाहेण (पणपन्ना य त्ति) पञ्चपञ्चाशद्वर्षेभ्य: (परेण ति) ऊर्ध्वयोनिः प्रम्लायति, गर्भधारणाऽसमर्था भवतीत्यर्थः। भावार्थोऽयं निशीथोक्तो यथा-"इत्थीएजाव पणपन्नवासा न पूरेति ताव अभिलाया जोणि'' आर्तवं स्याद्, गर्भ च गृह्णातीत्यर्थः / "पणपन्नवासाएपुण कस्स वि अत्तवं भवति, नपुण गभंगेण्हइ,पणपन्नाए परओ न अत्तवं नो गन्भं गेण्हइ ति"। तथा चोक्तं स्थानाङ्गटीकायाम्'मासि मासि रजः स्त्रीणा-मजस्रं स्रवंति त्र्यहम्। वत्सराद् द्वादशादूर्ध्व,याति पञ्चाशतः क्षयम्॥१॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन सङ्गता। शुद्धे गर्भाशये 1 मार्गे२, रक्ते 3 शुक्रे 4 ऽनिले 5 हृदि६||२|| वीर्यवन्तं सुतं सूते, ततो न्यूनाद्वयो:पुनः / रोग्यल्पायुरधन्यो वा, गर्भो भवति नैववा''||३|| इति। शुद्धे निर्दोषे गर्भाशयादिषट्के इत्यर्थः। तथा च"ऋतुस्तु द्वादश निशा:, पूर्वास्तिस्रोऽत्र निन्दिताः। एकादशी च, युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका // 4 // पद्मं संकोचमायाति, दिनेऽतीते यथा तथा। ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति // 5 // मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः / ईषत्कृष्णं विगन्धंच, वायुर्योनिमुखादुदेत् // 6 / / (स्था०५ ठा०२ उ०) तथा चाविध्वस्ता योनिरविध्वस्तं बीजम् 1, अविध्वस्ता योनि विध्वस्तं बीजम् 2, विध्वस्ता योनिरविध्वस्त बीजम् 3, विध्वस्ता योनिर्विध्वस्तं बीजम् 4, चतुषु भङ्गेषु आद्यभङ्गे एव उत्पत्तेरवकाशो न शेषेषु त्रिष्विति। तत्र पञ्चपञ्चशिका नारी विध्वस्तयोनिः / सप्तसप्ततिकः पुडानिति द्वादशमुहूर्तान् यावद् बीजमविध्वस्तं स्यात्, तत ऊर्ध्व विध्यस्तमिति द्वितीयाङ्ग वृत्ताविति / तथा पुमान् पुरुषः प्रायः पञ्चसप्ततिवर्षेभ्यः परत ऊर्ध्वमबीजो भवेत्, गर्भाधानयोग्यबीजविवर्जित इत्यर्थः। कियत्प्रमाणायुषामेतन्मानं द्रष्टव्यम् ? इत्याहवाससयाउयमेयं, परेण जा होइ पुव्वकोडीओ। तस्सद्ध अभिलाया, सव्वाउयवीसभागे य॥१४॥ वर्षशतायुषामैदंयुगीनानामेतद् गर्भधारणादिकालमानमुक्तम् / परेण तर्हि का वार्ता ? इत्याह-(परेण त्ति) वर्षशतात्परतो वर्षद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहमनुष्याणां या पूर्वकोटि:सर्वायुषि स्यात् तस्य सर्वायुषोर॰ तदड़ यावदम्लाना गर्भधारणयोग्या स्त्रीणां योनिद्रष्टव्या। ततोऽपि परतः सकृत्प्रसवधर्माणोऽम्लानयोनयोऽवस्थितयौवनत्वात् पुंसां मनः सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषोऽन्त्यो विंशतितमो भागो बीज इति॥१४|| तं०। प्रव०॥ अथ कियन्तः पुनर्जीवा एकस्या: स्त्रियो गर्भे एकहेलयैवो-त्पद्यन्ते, कियतां च पितॄणामेकः पुत्रो भवति? इत्याहरत्तुकडाओ इत्थी, लक्खपुहत्तं च बारस मुहुत्ता। पिअसंखसयपुहत्तं, बारसवासा उगमस्स|१५|| अत्रान्यत्राप्यार्षत्वाद्विभक्तीनां वैचित्र्यं ज्ञातव्यमिति। मासान्ते त्रीणि दिनानि यावत्स्त्रीणां यन्निरन्तरमस्रं सवति तदत्र रक्तमुच्यते, तेन रक्तेन रुधिरेण उत्कटायाः पुरुषवीर्ययुक्तयोन्या एकस्याः स्त्रिया गर्भे जघन्यत एको द्वौ वा त्रयो वोत्कृष्टतस्तु (लक्खपृहुत्तं ति) लक्षपुथक्त्वं नवलक्षणगर्भजजीवा उत्पद्यन्ते इत्यर्थः / निष्पत्तिं च प्राय एको द्वौ वा गच्छतः, शेषास्त्वल्पजीवित्वात्तत्रैव मिन्नते / एको द्वौ द्वौ / वा इत्युक्तं व्यवहारापेक्षया, निश्चयापेक्षया तु ततोऽधिकं न्यूनं वा भवतीति द्रष्टव्यमिति। चशब्दात् स्त्रियाः संसक्तायां यौनौ द्वीन्द्रिया जीवा जघन्यत एको द्वौ वा त्रयो वोत्कृष्टतो नवलक्षप्रमाणा उत्पद्यन्ते / तप्तायःशलाकान्यायेन पुरुषसंयोगे तेषांजीवानां विनाशो भवति। स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तर्मुहूर्तायुष: अपर्याप्तावस्थाकालकारिणः अष्टौ प्राणधारकाः नारकदेवयुगलाग्निवायुवर्जितशेषजीवस्थानागमनस्वभावा मुहूर्तपृथक्त्वकायस्थितिकाः असंख्येयाः संमूर्छिममनुष्या उत्पद्यन्तेचेति तथा (बारसमुहत्त त्ति) पुरुषवीर्यस्य कालमानं द्वादश मुहूर्तानि, एतावत्कालमेव शुक्रशोणितविध्वस्तेऽयोनिके भवत इति / (पिअ त्ति)पि