SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ गद्दही 530- अभिधानराजेन्द्रः - भाग 3 गब्भ गद्दही स्त्री०(गर्दभी) 'गद्दभी' शब्दार्थे, नि०चू०१० उ०। गद्धन०(गार्थ्य) तात्पर्य, आचा०१ श्रु०३ अ०३ उ०॥ गद्धपिट्ठ न०(गुस्पृष्ट) मरणभेदे, गृद्धादिभक्षणं गृदम्। उत्त०१ अ०। गृद्धाः प्रतीता: ते आदिर्येषां शकुनिका-शिवदीना, तैर्भक्षणं गम्यमानत्वादात्मनस्तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानुवेशेन च गृद्धादिलक्षणम् / तत्किमुच्यते इत्याह-(गद्धपिट्ठ ति) गृद्धैः स्पृष्टं स्पर्शनं यस्मिंस्तद् गृद्धस्पृष्टं, यदि वा गृद्धानां भक्ष्यं स्पृष्टमुपलक्षणत्वादुदरादि च मर्तुर्यसिंस्तद् गृद्धस्पृष्टम्, स ह्यलक्तकपूणिक पुटप्रदानेनाप्यात्मानं ग्रद्धादिभिः स्पृष्टादि भक्षयतीति / उत्त०५ अ० / गुद्धस्पृष्टाभिधानमनाथपतितगो-कलेवरादिवदध्वनि निपतनरूपम!। तं०। गन पुं०(गण)"णो नः"||४|३०६। इति पैशाच्यां णस्य न: / समुदाये, प्रा०४ पाद। गन्म पुं०(गर्भ)जननीकुक्षौ, तं०) "गभं वक्वंते" गर्भ कुक्षौ व्युत्क्रान्त उत्पन्नः / स्था०५ ठा०१ उ०। गर्भाशये, स्था०२ ठा०३ उ०। सजीवपुद्गलपिण्डके, भ०५ श०४ उ०। उदरसत्त्वे, स्था०१० ठा० प्राणिनां जन्मविशेषे, स्था०४ ठा०४ उ०। अथ गर्भाधिकार:सुणह गणिए दस दसा, वाससयाउस्स जह विमजंति। संकलिए वोगसिए, जं चाउं सेसयं होइ॥२॥ जत्तियमेत्ते दिवसे, जत्तियराईसु होइ उस्सासे / गन्मम्मि वसइ जीवो, आहारविहिं च वुच्छामि // 3 / / (सुणह०जत्तिय०) अत्र पदानां संबन्धोऽयम् वर्षशतायुषो जन्तोर्यथा दश दशा अवस्था विभजन्तीति पृथग्भवन्ति तथा यूयं शृणुत, वसति? गणिते-एकद्वयादिक्रियमाणे सति, तथा दश दशा: संकलिते एकत्र मीलिते, तथा व्युत्कर्षिते निष्काशिते सति वाससयं परमाउंइतो पन्नासं हरई' इत्यादिना यच्चायुःशेषकं भवति तदपियूयं शृणुताशयावन्मात्रान् दिवसान यावद्रात्रीः यावन्मुहूर्तान्यावदुच्छ्रासान् जीवो गर्भ वसति तान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च वक्ष्ये भणिष्यामिति // 3 // तत्र गर्भे अहोरात्राणां प्रमाणमाहदुन्नि अहोरत्तसए, संपुण्णे सत्तसत्तरं चेव / गब्मम्मि वसइजीवो, अद्धमहोरत्तमण्णं च // 4|| एए उ अहोरत्ता, नियमा जीवस्स गब्भवासम्मि। हीणाहियाउ इत्तो, उवघायवसेण जायंति॥५।। 'दुन्नि' द्वेअहोरात्रशते 200 संपूर्णे सप्तसप्तत्यधिके 77 अन्यदर्धमहोरात्रं चजीवो गर्भ वसति तिष्ठति, एतावता नवमासान् सार्द्धसप्तदिनान् जीवो गर्भे तिष्ठतीत्यर्थः।।४।। (एए उ) एते वक्तरूपा अहोरात्रा निश्चयेन जीवस्य गर्भवासे भवन्ति। (इत्तोति) अस्मादुक्तादहोरात्रप्रमाणात् उपघातवशेन वातपित्तादिदोषेन हीनाधिका अपि (जायंति त्ति) धातूनामनेकार्थत्वाद् भवन्तीत्यर्थः / तुशब्दोऽप्यर्थः स च योजित इति / / 5 / / अथ गर्भे मुहूर्तानां प्रमाणमाह अहस हस्सा तिन्नि एउ सया मुहुत्ताण पन्नवीसा य। गन्मगओ वसइ जिओ, नियमा हीणाहिया इत्तो।।६।। (अट्ठस०) अष्टौ सहस्राणि त्रीणि शतानिपञ्चविशत्याधिकानि मुहूर्तानि 8325 निश्चयेन जीवो गर्भे वसति। तानि च कथं भवन्ति? उक्तलक्षणा सप्तसप्तत्यधिकद्विशताहोरात्रा: 277 त्रिंशता गुणिता 8310 एतावन्तो भवन्ति, अर्धाहोरात्रस्य च पञ्चदश मुहूर्ताने क्षिप्यन्ते, जातानि 8325 इति / इत उक्मरूपात् 8325 वातदोषादिविकारेण हीनाधिकान्यपि मुहूर्तानि वसति गर्भे जीव इति॥६॥ अथगाथाद्वयेन गर्भे निःश्वासोच्छ्रासवप्रमाणमाहतिन्नेव य कोडीओ, चउदससय हवंति सयसहस्साई। दस चेव सहस्साई, दुन्नि सया पण्णवीसा य |7|| उस्सासा निस्सासा, इतियमित्ता हवंति संकलिया। जीवस्स गन्भवासे नियमा, हीणाहिया इत्तो / / 8 / / (तिन्नेव य उस्सासा) तिस्रः कोटयः चतुर्दश शतसहस्राणि, चतुर्दश लक्षणीत्यर्थः, दश सहस्राणि, द्वे शते, पञ्चविंशत्यधिक इति 31410225 / (इत्तियमित्त ति) एतावन्मात्रा: सङ्कलिता एकीकृता जीवस्य गर्भवासे निश्चयेन नि:श्वासोच्छ्रासा भवन्ति / कथमेकस्मिअन्तर्मुहूर्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि 3773 नि:श्वासोच्छासा भवन्ति, एतैश्च यदैतानि 8325 उक्तरूपाणि मुहूर्तानि गुण्यन्ते तदा यथोक्तम् 31410225 एतद्भवतीति / इत उक्तरूपा दोषादिकारणेन हीनाधिका नि:श्वासोच्छासा भवन्तीति // 8 // अथाहाराधिकारे किञ्चिद् गर्भादिस्वरूपमाह-- (आउसो!)इत्थी' नाभहिट्ठा,सिरादुगंपुप्फनालियागारं। तस्स य हिट्ठा जोणी, अहोमुहा संठिया कोसा || (आउसो इत्थी०) हे आयुष्मन् ! हे गौतम! स्त्रिया नार्या नाभेरधोभागे पुष्पनालिकाकारं सुमनोवृन्तसदृशं शिराद्विकं धमनियुग्मं वर्तते, च पुनस्तस्य शिराद्विकस्याधो योनिः स्मरकूपिका संस्थिताऽस्ति / किंभूता? अधोमुखा। पुन: किंभूता? (कोस त्ति) कोशा, खगपिधानकाऽऽकोरत्यर्थः // 6 // तस्स य हिट्ठा चूयस्स मंजरी तारिस उ मसस्स। ते रिउकाले फुडिया, सोणियलवया विमोयंति / / 10 / / (तस्सय) तस्याश्च यानेरधोऽधोभागे चूतस्याऽऽम्रस्य यादृश्यो मञ्जों वल्लो भवन्तितादृश्यो मांसस्य पललस्य मञ्जर्यो भवन्ति तामञ्जों मासान्तेस्त्रीणां यदजसमस्र दिनत्रयं सवति तदृतुकालः स्त्रीधर्मप्रस्ताव:, तस्मिन् स्फुटिताःप्रफुल्ला: सत्य: शोणितलवकान् रुधिरविन्दून विमुञ्चन्ति श्रवन्ति / / 10 / / तं / "सप्ताहं कललं विन्द्यात्, ततः सप्ताहमवुदम्। अर्बुदाज्जायते पेसी, पेसीतोऽपि घनं भवेत्॥१॥ वाच०। कोसायारि जोणिं, संपत्ता सुकमीसिया जइया। तइया जीवुववाए, जुग्गा भणिया जिणिंदेहिं / / 11 / / (कोसा) ते रुधिरबिन्दवः कोशाकारां योनि संप्राप्ता सन्त: शुक्रमिश्रिताः ऋतुदिनत्रयान्ते पुरुषसंयोगेनाऽसंयोगेन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy