________________ गणिसंपया 528 - अभिधानराजेन्द्रः - भाग 3 गणिसंपया अथवा अपात्रापयितुं लज्जयितुमर्हः शक्यो वाऽवत्राप्यो लज्जनीयः, न तथाऽनवत्राप्यः यतो हीनशरीरस्तु लजोत्पादको भवति / स्थिरसंहननो बलवत्तरशरीरः, एवंविधश्च तपःप्रभृतिषु शक्तिमान् भवति 3. बहुपरिपूर्णानीन्द्रियाणि यस्य स बहुपरिपूर्णेन्द्रियोऽनुपहतचक्षुरादिकरणः, एवंविधध्च सर्वार्थसाधनपरो भवति / सेत्तमित्यादिपूर्ववत्। शरीरश्रुतसम्पद्युक्तस्यैव प्रायो वचनसंपद् भवति अतस्तां पिपृच्छिषुरिदमाह-(से किं तं) इत्यादि व्यक्तम् / सूरिराहवचनसंपञ्चतुर्विधा प्रज्ञप्ता / तद्यथा-आदेयवचनश्चापि भवति ? एवं मधुरवचनः 2, अनिश्रितक्चन:३, असन्दिग्धवचनः / तत्रादेयवचनः सकलजनग्राह्यवाक्यः, श्रोतारः श्रुत्वा यद्वाक्यं प्रमाणं कुर्वन्ति / चाऽपिशब्दावादेशान्तरदानेऽपि न कोऽपि तद्वाक्यमन्यथा करोतीति द्योतकः 1, मधुरं रसवद्यदर्थतो विशिष्टार्थवत्तया अर्थावगाढत्वेन शब्देन श्राव्यपरुषत्वमौखर्यगाम्भीर्यादिगुणोपेतत्वेन श्रोतुराणादमुपजनयति तदेवंविधं वचनं यस्य स तथा 2 / अनिश्रितवचनो रागादिना वाक्यकालुष्यवर्जितः३। असन्दिग्धवचनः परिस्फुटवाक्य:, यद् व्रते तत्सर्वैरपि सेदेहरहितं बुध्यते / एवं विधस्य वाक्यश्रवणान्न संशयेदिति 4 / सेत्तमित्यादि प्राग्वत् / अधुना एवंविध एव शिष्याणां वाचनां दातुं समर्थो भवतीति वाचनासंपदं प्रश्नयितुमाह-(से किं तं) इत्यादि कण्ठ्यम् / गुरुराह-(वायणेत्यादि) वाचनासंपञ्चतुर्धा प्रज्ञप्ता / विदित्वोद्दिशति 1, विदित्वा समुद्दिशति 2, परिनिर्वाप्य वाचयति ३,अर्थनिर्यापकश्चापि भवति / तत्र विदित्वोद्दिशति यथा योगविधिक्रमेण सम्यग्योगेनाधीष्वैवमुद्दिशति, समुद्दिशति वा यथायोगसामाचार्यैव स्थिरपरिचितुं कुर्विदमिति वदतीति, अन्यथा अपरिणामिकादावपक्वघटनिहितजलोदाहरणेन दोषसंभवात् / अथवा आमभाजने वा निक्षिप्तं क्षीरं विनश्यति, एवमयोग्ये दत्तं सूत्रं विनश्यतीति २।(परीति) सर्वप्रकारं निःर्वापयतो निरो निःसंदिन्धादिभृशार्थदर्शनाद् भृशं गमयते पूर्वदत्तालापकादिसत्मिना स्यात्मनि परिणमयतः शिष्यस्य सूत्रगताऽशेषविशेषग्रहणकालं प्रतीक्ष्य शक्तयनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचयति सूत्रं प्रददाति 3 / अर्थ: सूत्राऽभिधेयं वस्तु, तस्य निरिति भृशं यापना निर्वाहणा, पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमयति निर्यापयति इति निर्यापकः / चाऽपिशब्दौ विचारादिद्योतको 4 / सेत्तमित्यादि सुगमम् / सांप्रतं जात्यमेवो पदिष्ट उत्पन्नप्रतिभो भवति / जातितग्रहणाद् विशिष्टजातिमत एव विशिष्टदुद्धिसंभव इति दर्शितं भवति, अन्यथा हि परतीर्थिकैराक्षिप्तस्तत्प्रत्युत्तराऽसमर्थश्चेत्तदा तादृशं तं दृष्ट्वा विप्रतिपतिं गच्छेयुरभिनवश्रद्धालवोऽपि चेतिमतिसंपदं प्रश्नयितुमिदमाह-(से किं / तं) इत्यादि प्रश्नसूत्रं व्यक्तम् / भगवानाहमतिसंपच्चतुर्विधा प्रज्ञप्ता, तद्यथा--अवग्रहमतिसंपदेव 1 / ईहा 2 अपायः 3 धारणा 4 / तत्र सामान्यार्थस्य अशेषविशेषनिरपेक्षाऽनिर्देश्यरूपादेख-ग्रहणमवग्रहः, सा चासौ मतिसंपचावग्रहमतिसंपत्, अवमन्या अपि 1 | नवरं ईहा तदर्थविशेषानोचनम् 2 / प्रकृतीर्थविशेषनिश्चयोऽपायः 3, अवगतार्थस्याऽविच्युतिस्मृतिवासना धारणा / सांप्रतमवग्रहमतिसंपढ़ेदान् / जिज्ञासुरिदं प्रश्नयति-(से किं तं) इत्यादि व्यक्तम् / सूरिराहषड्विधा षट् प्रकारा प्रज्ञप्ता / तद्यथा-क्षिप्रमव गृह्णति 1, बहुकमवगृह्णाति 2, | बहुविधमवगृह्णाति 3, धुवमव गृहति , अनिश्रितमवगह ति 5, असन्दिग्धमवगृह्णति 6 / तत्र क्षिप्रमतिशीघ्रमुच्चारितमात्रभवपृच्छद्भिः शिष्यैरवगृह्णति। अथवा परवादिभिः पृच्छद्भिरेवोचारितमात्रमवगृह्णति, यथा प्रतिभानामनिग्रहस्थानादिदोषा न संभवन्ति उक्ताऽननुवादेन च वादे पराजितत्वं भवति 1, बहुमिति एकवारमुक्तानि पञ्चषड्ग्रन्थशतानि धारयति 2, बहुविधमितिलिखति, धारयति, मनसि संख्या गणयति, स्वमुखैनाऽन्यदाऽऽख्यानमप्यन्तराले कथयति, अनैकैश्चोचारितमवगृह्णाति, एवं च यथा लोकोक्त्या अष्टावधानिनो दशावधानिनश्चोच्यन्ते तथा करोतीति ३॥ध्रुवमिति न कदापि विस्मारयति सकृत्पठितमपि यथाश्रुतमवगृह्णाति, एवेच प्रज्ञावान्लोके प्रशस्यते, प्रत्युत्तरादिविधाने च समर्थो भवतीति / अनिश्चितं नाम पवुस्तकादिनिरपेक्षमेव पठति, अवगृह्णाति च। अथवा एकवारं श्रुतं पुननर्यदा कश्चिद्यदनूद्य वदति तदैव वक्तुं समर्थो भवति नान्यथैवंविधाने भवति किं तु स्मरणनिरपेक्ष यवं भवतीति 5 / असन्दिग्धं नाम सन्देहवर्जितमवगृह्णाति, न तु यत्र तत्र साशङ्क एवंविधश्च स्वयं निःसंदेहत्वात् अन्यानपि निःसन्देहतया प्रज्ञापयिता भवति इति एवमित्थमीहामतिसंपत् क्षिप्रमवगृह्णतीत्यादिषट्कारा ज्ञेया / एवमित्यऽमुनैवक्रमेण षट्प्रकारा अपायमलिसंपद अपि वर्णनीया३ अधुना धारणा मतिसंपदं जिज्ञासुः परिपृच्छति-(से किं तं) इत्यादि सुकरं प्रश्नसूत्रम्। गुरूराह-(छव्विहेत्यादि) व्यक्तम्। तद्यथा बहु धारयति 1, बहुविधं धारयति 2, पुराणं धारयति 3 दुर्द्धर धारयति 4, अनिश्रितं धारयति 5, असंदिग्धं धारयति 6, इति षडपि . पदानि व्यक्तानि / नवरं (पोराणं ति) पुराणं जीर्ण , प्रभूतकालपठित तदपि यथाश्रुतं धारयति यदा पृच्छति तदा धारणासमर्थत्वात् सर्वे वदति (दुद्धरं ति) दुर्द्धरं दुःखेन धर्तुं शक्यं नयगमभङ्गगुपिलं धारयति / सेत्तमित्यादि निगमनवाक्यं व्यक्तमिति / इदानीं मतिसंपत्समन्वित एव प्रयोगसंपद्योग्यो भवति इति प्रयोगमतिसंपदं जिज्ञासुरिदं पृच्छति-(से किं तं) इत्यादि प्रश्नसूत्रं कण्ठ्यम् / गुरुराह-प्रयोगमतिपञ्चतुर्विधा प्रज्ञप्ता / तद्यथा--आत्मानं विदाय वादप्रयोक्ता भवति 2, क्षेत्र विदाय वादप्रयोक्ता भवति 3. वस्तु विदाय वादप्रयोक्ता भवति / तत्र आत्मानं वादादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मनःशक्तिरस्ति न वेति (विदाय त्ति) विद् ज्ञानी जानीते, ततो (वादं इति) धर्म कथयितुं वाद वा कर्तुं प्रयोक्ता इतिआत्मानं वादं प्रयोजयति भवति 1 / एवं पर्षद यथा किमियं पर्षत् सौगता, सांख्या, अन्या वा, तथा प्रतिभादिवती, तदितरा वेति / अथवा "जाणिया अजाणिया दुचियत्ता वा' वचित् (पुरिसं वेत्ति) तत्र पुरुष एवैतादृशो वाच्यः / (क्षेत्र विदायेति) किमिदं क्षेत्राय बहुलम् ऋजु परिणतं वा तथा साधुभिरभावितं भावित नगरादीति ज्ञात्वा वादप्रयोक्ताा भवति, अन्यथा हि तत्स्वरूपाऽपरिज्ञाने सहसा वादकरणे पराजयप्रसङ्गात् 3 / 'वस्तु विदायेति' किमिदं राजामात्यादिसभासदि विवादवस्तु दारुणं वा भद्रकममभद्रकं वे ति परवादिप्रभृति बलगममल्पागमं वा। अथवा वस्तुशब्दादुपलक्षिता द्रव्य 1 क्षेत्र 2 काल 3 वस्त्वादयः 4, तान् विदाय वाद इति उपलक्षणणत्वात् सामाचारीप्रभृतिप्रयोक्ता भवति / तत्र द्रव्यम् इदमनुष्ठानादि कर्तुं स किं बालग्लानादिकं निर्वाहयितुं वा समर्थो भविष्यति, नवेति क्षेत्रमिदं किं मासकल्पचतुर्मासकल्पादिकरणयो