________________ गणिविजा 827 - अभिधानराजेन्द्रः - भाग 3 गणधरवंस भवति कालं समाणइत्ता भवति, अहागुरुसंपूइत्ता / सेत्तं संगहपरिण्णा। "सुयं मे आउसतेणं' इत्यादिव्याख्या प्राग्वत्। अष्टौ विधाः प्रकारा यासां ता अष्टविधाः / (गणिसंपद त्ति) गणोऽस्यास्तीति गणिराचार्यस्य संपद इव संपदो गणिसंपदः प्रज्ञप्ताः प्ररूपिताः। तद्यथा-आचारसम्पत् 1, श्रुतसंपत् 2, शरीरसम्पत् 3, वचनसम्पत् 4, वाचनासम्पत् 5, मतिसम्पत् 6, संयोगसम्पत् ७,संग्रहपरिज्ञान नाम सम्पत् 8 / अत्र च प्रत्येकमष्टौ प्रकारा गणिसंपदो वर्णयिष्यति, तदेवमुपन्यस्ताः प्रकाराः। साम्प्रतंतगते सूत्रं वक्तव्यं, तत्र प्रथम संपगतमिदमादिसूत्रम्-(से किंतं गणिसंपया इति) अथास्य सूत्रस्य कः प्रस्ताव:? उच्यते-प्रश्नसूत्रमिदम्, एतचादावुपन्यस्तमिदं ज्ञापयतिपृच्छतो मध्यस्थस्य बुद्धिमतोऽर्थिनो भगवदर्हदुपदिष्टत्त्वप्ररूपणा कार्या, न शेषस्य।तथा चोक्तम्-'मध्यस्थो बुद्धिमान्न्यायी, श्रोता पात्रमिति स्मृतः" इति / पात्रं योग्योऽधिकारी चोच्यते / सर्वजगज्जन्तुनिवहहितायाऽभ्युत्थिता आचार्यास्तद्गुणविशेषणविशिष्टस्यैवाल्याऽक्षरमसंदिग्धं पारावारस्येवाऽतितरां गूढाशयं भवाम्नोभ्युत्तारणप्रवरपोतसमानमहार्थरूपं श्रीजिनागमं संप्रदर्शयन्ति। स एव सम्यग् रक्षति, तद्विपरीतस्तु नाशयति / यत उक्तं च-'आमे घडे इत्यादि' ततोऽयोग्यस्यागमार्थो न देयोऽनुपधानादनुष्ठानस्य च / यत उक्तं स्थानाङ्गे--"चत्तारि अवायणिज्जा पन्नत्ता / तंजहा -अविणीए, विगइपडिबद्धे, अविउसियपाहुडो, मायी' तत्र 'विगइपडिबद्धे" इत्यस्यार्थ उपधानकारी इति,नतु उपधानमिति। कोऽर्थः ? उच्यतेउपष्टभ्यते श्रुतमनेनाऽऽचाम्लादितपोविशेषरूपेण च, योगविधिनेति यावत् / उपधीयते तदुपधानं, ततश्च य एवंविधानुष्ठानयुक्तो भवति। तस्यैवार्थसूत्रभेदाच्छुतं देयमिति ज्ञापितं भवति, इति कृतं प्रसङ्गेन। प्रकृतमनुसरामः-तत्र 'से' शब्दो मगधदेशीप्रसिद्धो निपातस्तत्रशब्दार्थे, अथशब्दार्थे वा द्रष्टव्यः / स च वाक्योपन्यासार्थः / किमिति परिप्रश्ने (तं ति) तावदिति द्रष्टव्यं / तच्च क्रमोद्योतने। तत एष समुदायार्थःतिष्ठन्तु श्रुतसंपदादीनि प्रष्टव्यानि तावद्, आचारसम्पदानन्तरं च तेषामुपन्यस्तत्वात् / तर्चेतावदेव तावत् पृच्छामि-किमाचारसंपदिति ? अथवा प्राकृतशैल्या अभिधेयवद् लिङ्घवचनानि योजनीयानीति न्यायादेव द्रष्टव्यम्, तत्र का तावदाचारसंपदिति? एवं सामान्येन केनचित्प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेनानुचार्य किञ्चिच्छिष्योक्तं प्रत्युच्चार्य आह-'चउव्विहा पन्नत्ता' इति। अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणैतदाचष्टे, न सर्वमेव सूत्रं गणधरप्रश्नतीर्थकर निर्वचनरूपं किन्तू किश्चित्तथा, किञ्चिदन्यथापि, बाहुल्येन तु तथारूपम् / यत उक्तम्-"अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा णिउणं / सासणस्स हियट्ठाए, तत्तो सुत्तं पवत्तइ''||१| इत्यादि / तत्राचारसंपञ्चतुर्धा प्रज्ञप्ता प्ररूपिता, यदा तीर्थकरा एव निर्वक्तारस्तदा अयमर्थो अवसेयोऽन्यैरपि तीर्थक रैर्यदा पुनरन्य: कश्चिचदाचार्य-स्तन्मतानुसारी तदा तीर्थकरगणधरैरिति / चातुर्विध्यामिवोपदर्शयति-(तं जहा) तद्यथेति वक्ष्यमाण-भेदकथनप्रकाशनार्थम् / ननु पूर्वमेव कयरा खलु अडविहा गणिसंपदा' इत्यनेन स्पष्टमेवेति किमर्थं पुनः "से किं तं'' इत्यादिना पच्छति, पुनरुक्तत्वात् / उच्यते-सामान्यतःसंपद्विषयः पूर्वप्रश्नः, | द्वितीयस्तु तद्विषयभेदान्तज्ञापनविषय इति समुच्चयविशेषविवक्षायां न विरोध इत्यलं प्रसङ्गेना प्रस्तुतमुपस्तूयते-यः संयमध्रुवयोगयुक्तश्चापि भवति 1 असंप्रतिगृहीतात्मा 2 अनियतवृत्तिः३ वृद्धशीलश्चापि भवति। तत्राचारो नाम प्रथममङ्ग, तस्मिन् अधीते दशविधश्रमणधर्मों ज्ञातो भवति, तस्मादाचाराङ्ग यो भणति सूत्रतोऽर्थतः संपद्युक्तो भवति यः स आचारसंपत्। (संजमेत्यादि) संयमो नाम चरणं, तस्य ये ध्रुवा अवश्य कर्तव्यत्वाद् योगाः प्रतिलेखानास्वाध्यायादयः तैर्युक्तो भवति / अथवा संयमः सप्तदशप्रकारः पञ्चाश्रवाद्विरमणमित्यादिकः,तस्मिन् ध्रुवो नित्यो योगो व्यापारो यस्य स संयमध्रुवयोगयुक्तः अथवा संयमे धुवो नित्यो योगो यस्य स संयमधुवयोगयुक्तः / चशब्दाद् ज्ञानाकिदष्वपि नित्योपयोगः / अपिशब्दग्रहणात् असंयमेऽपि योजयति इत्येका 1 / असंप्रतिगृहीताव्याः अनुत्सेकदानात्मा यस्य सोऽसंप्रगृहीतात्मा, निराभिमान इत्यर्थः / यथा अहमाचार्यो बहुश्रुततस्तपस्वी सामाचारीकुशलो जात्यशदमान् वा इत्यादि मदरहित: 2 / अनियता अनिश्चता वृत्तिर्व्यवहरणं विहारो वा यस्य सोऽनियतवृत्तिर्यथा 'गाते एगराइ नगरे पंचराई' इत्यादिका। अथवा निकेतं नाम गृह, तत्र वृत्तिर्वर्तन यस्य स निकेतवृत्तिः, न निकेतवृत्तिरनिकेतवृत्तिः / अथवा चतुर्थादितपोविशेषैरेषणासमितियोगेन च निकेतवृत्ति: परिचितगृहेष्यगन्ता इति 3 / वृद्धशीलो निभृतशीलः, अवञ्चनशील इति यावत्। अर्थग्रहणात् वृद्धेषु ग्लानादिषु सम्यग्वैयावृत्त्यादिकरणकारापणयोरुद्युक्तो भवति, एवं विधः / अथवा वृद्धशीलता तावद् दु:खितमनसि च निभृतस्वभावता, निर्विकारतेति यावत् 4 / (सेत्तमित्यादि) सैषाआचारसंपत् चतुर्विधा। एवंविधाचारविशिष्टस्य श्रुतं भवति, दीयमानं च यथोक्तं गृह्णाति, सा श्रुतसंपत् / तां पिपृच्छिषुरिदमाह-(से किं तमित्यादि) अथ का सा श्रुतसंपत् ? सूरिराह-श्रुतसंपत् चतुर्विधा प्रज्ञप्ता। तद्यथा-बहुश्रुतश्चापि भवति 1. परिचितसूत्र: 2, विचित्रसूत्र:३, घोषविशुद्धिकारक: 4 / तत्र बहुश्रुतो युगे युगे प्रधान: श्रुतेन, एतावता यस्मिन् काले यावनागमो भवति तस्मिन् काले तावन्तं संपूर्ण हेत्वर्थयुक्त्यादिभिर्जानाति, युगप्रधानाग इति भावः / चशब्दाद् बहुचारितंः / अपिशब्दाद् बहुपर्यायः, स चैव जघन्यत: पञ्चवार्षिकः, उत्कर्षत एकोनविंशतिवर्षपर्याय: 1 / परिचितसूत्रः-उत्क्रमक्रमवाचनादिभिः स्थिरसूत्रोऽस्खलितागमः / विचित्रःस्वपरसमयादिपर्यायजीनाति, अथवाऽर्थेन विचित्रंबलर्थविचारणायुक्ते जानाति / अथवा उत्सार्गापवादौ सामान्यविशेषैर्वा विचित्र जानाति स विचित्रसूत्रः ३।घोषविशुद्धिकारकः-घोषा उदात्तादयः, तेषा शुद्धि?षशुद्धिः, विशेषेण शुद्धिर्विशुद्धिस्तां करोतीति घोषविशुद्धिकारकः। यतः स्वयं घोषविशुद्धिमान् अन्यानपि तथैव स्वरशुद्धिकारकः / घोषा उदात्तादयः, तेषां शुद्धिघोषशुद्धिः / / (सेत्तं) पूर्ववत् / सांप्रतं शरीरबलवद् एव श्रुतं चतुर्विधं भवति, अतः शारीरं संपदमेव पिपृच्छिषुरिदमाह-(से किं तमित्यादि) प्रश्नसूत्रंव्यक्तम् / सूरिराहशरीरसंपञ्चतुर्विधा प्रज्ञप्ता / तद्यथा आरोहपरिणाहसंपूर्णश्चापि भवति 1, एवमनवत्राप्यशरीरः 2, स्थिरसंहननः 3, बहुप्रतिपूर्णेन्द्रिय-- 4 / इह च आरोहो दैर्ध्य , परिणाहो विस्तारः, ताभ्यां संपूर्णः / चापिशब्दावन्याङ्गसुन्दरत्वख्यापकाविति। येन उच्यते लौकिकैरपि-'यत्राकृतिस्तत्र गुणा वसन्ति' अनवत्राप्यम्-नावत्राप्यम्लजयस्य सोऽयमनयत्राप्यः /