________________ गणहरपाउग्ग 522 - अभिधानराजेन्द्रः - भाग 3 गणवक्कमण गणहरपाउग्ग त्रि०(गणधरप्रायोग्य) 'गणधरपाउग्ग' शब्दार्थे,व्य०२ उ०। गणहरलद्धि स्त्री०(गणधरलब्धि) गणाधरलद्धाद' शब्दार्थे, पा००। प्रव०। गणहरवंस पुं० (गणधरवंश) 'गणधरवंस' शब्दार्थे, स०) गणहारिण पुं०(गणधारिन्) 'गणधारि' शब्दार्थे, आ० म० द्वि०। गणजीव पुं०(गणाजीव) मल्लादिगणीयमात्मानं सूत्रादिनोपदर्थ्य | भक्तादिग्राहके आजीवभेदे, स्था०५ ठ०१ उ०। गणाधिव पुं०(गणाधिप) गौतमादिषु प्रधानगण धरेषु, विशे०। गणामिओग पुं०(गणाभियोग) गणः स्वजनादिसदायस्त-तस्याभियोगो गणाभियोगः / ध०२ अधि०। गणवश्यतायाम, उपा०१ अ०॥ गणावकमण न०(गणापक्रमण) गणाद्गच्छादपक्रमणं निर्गमो गणापक्रमणम्। गच्छान्निर्गमे, स्था। सत्तविहे गणावकमणे पण्णत्ते / तं जहा-सव्वधम्मा रोएमि, एगइया रोएमि, एगइया नो रोएमि, सव्वधम्मा वितिगिच्छामि एगइया वितिगिच्छामि, एगइया नो वितिगिच्छाति, सव्वधम्मा जुहुणामि, एगइया जुहुणामि, एगइया नो जुहुणामि, इच्छामि णं भंते ! एगल्लविहारपडिमं उवसंपत्तिा णं बिहरित्तए। सप्तविधं सप्तकारं प्रयोजनभेदेन भेदाद्गणाद्वच्छादपक्रमणं निर्गमो गणोपक्रमणं प्रज्ञप्तं त / तीर्थङ्करादिभिः / तद्यथा-सर्वान् धर्मान् निर्जराहेतून श्रुतभेदान् सूत्रार्थोभयविषयान् अपूर्वग्रहणविस्मृत सुधीनपूर्वाधीतरावर्तनरूपान् चारित्रभेदाँश्च क्षपणवैयावृन्यरूपान् रोचयामि रुचिविषयीकरोमि चिकीर्षामि। ते चामुत्र परगणे संपद्यन्ते, नेह स्वगुणे, बहुश्रुतादिसामर,यभाचात् / अतस्तदर्थ स्वगणादपक्रमामि भदन्त ! इत्येवं गुरुपृच्छाद्वारेणैकं गणापक्रमणमुक्तम् / अथ सर्वधर्मान् रोचयामीत्युक्ते कथं पृच्छार्थोऽवगम्यत इत्युच्यते-"इच्छामिणं भंते ! एगल्लाविहारपडिमं'' इत्यादि पुच्छावचनसाधादिति / रुचेस्तु करणेच्छार्थता "पत्तियामि रोएम्मि' इत्यत्र व्याख्यातैवेति / क्वचित्तु "सव्यधम्मजाणामि एवमेगे अवक्कमे' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रामति / तथा (एगइय त्ति) एककान् काँश्चन श्रुतधर्मान् चारित्रधर्मान् वा रोचयामि चिकीर्षामि, एककाँश्च श्रुतधर्मान् चारित्रधर्मान् वा नो रोचयामि न चिकीर्षामि इत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्यभावादपक्रमामि भदन्त ! इति द्वितीयम् / तथा सर्वधर्मानुक्तलक्षणान् विचिकित्सामि संशयविषयीकरोमि, इत्यतः संशयापनोदार्थ स्वगणादपक्रमामीति तृतीयम् 3 / एवमेककान्विचिकित्सामि, एककान् नो चिकित्सामीति चतुर्थम् 4 / तथा (जुहुणामि त्ति) जुहोमि अन्यभ्यो ददामि, न च स्वगणे पात्रंमस्त्व्यतोऽपक्रमामीति पञ्चमम् 5 / एवं षष्ठमपि६'तथा इच्छामिणं भदंत!' धर्माचार्य एकाकिनो गच्छनिर्गतत्वाजिनकल्पिकादितया यो विहारो पिचरणं तस्य या प्रतिमा प्रतिपत्तिः प्रतिज्ञा, सा एकाकिविहारप्रतिमा, तामुपसंपद्याङ्गीकृत्य विहर्तुमिति सप्तममिति 7 / अथवा सर्वधर्मान् रोचयामि श्रद्दधेऽहमिति तेषां स्थिरीकरणार्थमुपक्रमामि, तथा एककान् रोचयामि श्रद्दधे, एकाकांश्च नो रोचयामीत्यश्च द्वितानां श्रद्धानार्थमपक्रमामित्यनेन पदद्वयेन सर्वविषयाय, देशविषयाय च सम्यग्दर्शनाय गणापक्तमयामुक्तम्। एवं सर्वदेशविषय संशयविनोदसुचकेन "सव्वधम्मा गिच्छामि" इत्यादि पदद्वयेनज्ञानार्थमपक्रमणामुक्ततम् / तथा सर्वधर्मान् जुहोमीति जुहोतेरदनार्थत्वाद्भक्षणार्थस्य च सेवावृत्तिदर्शनादाचारम्यनुतिष्ठामीति यावत् तथा एक कान् नो सेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपणवैयावृत्त्यादीनो चारित्रधर्माणामासेवार्थमपक्रमामीत्येनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति। उक्तञ्च-"नाणट्ठदंसणट्ठा, चरणहा एवमाइसंकमणं / संभोगट्ठा व पुणो, आयरियट्ठा च णायव्वं"||१|| इति। तत्रज्ञानार्थं "सुत्तस्सव, अत्थस्स व उभयस्स व कारणा उ संकमणं / वीसज्जियस्सगमणं, भीओय नियत एकोए"।।१।। त्ति / दर्शनप्रभावकशास्त्रार्थ दर्शनार्थं चारित्रार्थ तथा "चरित्तट्ठदेसे दुविहा" देशे द्विविधा दोषा इत्यर्थः / "एसणदोसा य इत्थिदोसा य " ततो गणपक्रमणं भवति "गच्छंम्मि य सीयंते, आयसमुत्थेहिं दोसेहिं " ||१|ति संभोगार्थ नाम यत्रोपसंपन्नस्ततोऽपि विसंभोगकारणे सदनलक्षणे सत्यपक्रामतीति आचार्यार्थ नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसंक्रमो भवतीति। इह चस्वगुरुं पृष्ठव विसर्जितनाऽपक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः / उक्तकारणवशात्तु पक्षादिकालात्परतोऽविसर्जितोऽपि गच्छेदिति निष्कारणगणापक्रमणं त्वविधेयं, यतः "आयरियाईण भया, पच्छित्तभया न सेवइ अकिच्चं / वेयावच्चऽज्झयणे, सुसज्जए तदुवओगेणं" / / 1 / / सूत्रार्थोपयोगेनेत्यर्थः / तथा "एगो इत्थीगम्मो, तेणादिभया य अल्लिययगारे" (गृहस्थान्) "कोहादी च उदिण्णे, परिनिव्वावंति से अण्णे त्ति''||१|| स्था०७ ठा०| पंचहिं छाणेहिं आयरियउवज्झायस्स गणावक्कमणे पण्णत्ते। तं जहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवइ / आयरियउवज्झए गणंसि अहारायणियाए किइकम्मं वेणइयं नो सम्मं पउंजित्ता भवइ / आयरियउवज्झाए गणंसिजे सुय पजवजाए धारिंतिते काले णो सम्ममणुपवादेत्ता भवइ / आयरियउवज्झाए गणंसि सगणियाए वा परगणियाए दा निग्गंथीए वहिल्लेसे भवइ मित्ते णाइगणे वा से गणाओ अवक्कमेजा तेसिं संगहोवग्गहट्टयाए गणावकमणे पण्णत्ते // आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद् गच्छाद् अपक्रमणं विनिर्गमो गणापक्रमणम्। आचार्योपाध्याययोर्गणे गच्छविषये आज्ञा वा योगेषु प्रवर्तनलक्षणां धारणा वा विधेयेषु निवर्त्तनलक्षणां नो नैव सम्यग्यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलो भवति / इदमुक्तं भवतिदुविनीत्वाद्गणस्य तंप्रयोक्तुमशक्नुवन् गणादपक्रामति कलिकाचार्यवदित्येकम् / तथा गणविषये यथारत्नाधिकतया यथाज्येष्ठं कृतिकर्म, तथा वैनयिक विनयं नौ नैव सम्यक् प्रयोक्ता भवत्याऽचार्यसंपदा, साभिमानत्वात् / यत आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानागुचितविनयः कर्तव्य एवेनि द्वितीयः। तथा असौ यानि श्रुतपर्यवजातानि यान् श्रुतपर्यायप्रकारान् उद्देशकाध्ययनादीन् धारयति, हृद्यविस्मरणतस्तानिकाले काले यथावसरं नो सम्यगनुप्रवाचयिता तेषां पाठयिता भवति। 'गणे त्ति' इह संबध्यते, तेन गणे गणविषये, गणमित्यर्थः। तस्या