________________ गणधर 816 - अभिधानराजेन्द्रः - भाग 3 गणधर ति:, सुधर्मश्च स्वामिनिवीरे निवृते परिनिवृतः। तत्रापि प्रथममिन्द्रभूति:, पश्चात् सुधर्मस्वामी। यश्च यश्च कालं करोति स सुधर्मस्वामिनो गणं | ददाति, तेषां तथाविधसन्तानप्रवृत्तिहेतु - भूजाचार्यासंभवात् / सुधर्मस्वामी तु कालं कुर्वन्निजशिष्याय जम्बूस्वामिने गणं समर्पितवान्। अधुना तपोद्वारमाहमासं पाओवगया, सव्वे विय सवलद्धिसंपन्ना। वजरिसहसंघयणा, समचउरंसाय संठाणे॥ सर्व एव गणधरा मासं यावत् पादपोपगमनगताः। द्वारगाथोपन्यस्तशब्दार्थमाह-सर्वेऽपि सर्वलब्धिसंपन्नाः, आमर्षांषध्याद्यशेषलब्धिसंपन्नाः तथा वज्रर्षभसंहनना: समचतुरस्राश्च संहनना। समचतुरनाश्च संस्थाने संस्थानविषये / आ०म०द्वि० विशे० एवं चतुश्चत्वारिंशच्छतानि द्विजा: प्रव्रजिताः। तत्र मुख्यानां त्रिपदीग्रहणपूर्वकमेकादशाङ्गचतुर्दश-पूर्वरचना गणधरपदप्रतिष्ठा च। तत्र द्वादशाङ्गीरचनाऽनन्तरं भगवाँस्तेषां तदनुज्ञां करोति, शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः सन्निहितो भवति / ततः स्वामी रत्नमयसिंहासनादुत्थाय संपूर्णा चूर्णमुष्टिं गुहृति, ततो गौतमप्रमुखा एकादशापि गणधरा ईषदवनता अनुक्रमेण तिष्ठन्ति / देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीका: शृण्वन्ति। ततो भगवान् पूर्व भणति"गौतमस्य द्रव्यगुणपर्यायैस्तीर्थमनुजानामीति," धूर्णाश्च तन्मस्तके क्षिपति। ततो देवा अपिचूर्णपुष्पगन्धवृष्टितदुपरि कुर्वन्ति, गणंच भगवान् सधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति / इति।।१२१।। कल्प०६ क्षण। तीला "अत्थं भासइ अरहा, सुत्तं गंयंति गणहरा णिउणं (1116) इति ।(गणधारिणं सूत्रकरणं 'सुय' शब्दे चतुर्थभागे व्याख्यास्यते) विशे०। सूत्र०ा अत्यन्ताप्तगोचरश्रद्धा-स्थैर्यवतोऽनुष्ठानात्तीर्थकृत्यं, मध्यमश्रद्धासमन्विताद्गणधरत्वम् / यो०बि०। गणस्य गच्छस्य धारकत्वाद्रणधरः / उत्त०२६ अ० गणनायके आचार्ये, स्था०८ ठा०। संथा०। गणधरश्च यैर्गुणैर्युक्तस्य नरस्य गणधरणार्हत्वं भवति तद्युक्त एवेति / स्था०८ ठा०। यस्त्वाचार्यदेशीयो गुर्वादेशात्साधुगणं गृहीत्वा पृथग विहरति सगणधरः / आचा०२ श्रु०१ अ०१० उ०) "चिन्तयत्येवमेवैतत्, स्वजनादिगतं तु यः / तथाऽनुष्ठानतः सोऽपि, धीमान् गणधरो भवेत्॥१॥ द्वा०१५ द्वारा पं०सं०। (अथा कीदृशः कथं वा आचार्यपदे स्थाप्यते इति 'आयरिय' शब्दे द्वि० भागे 303 पृष्ठे उक्तम्) नवरमिह भिक्षोर्गणधारणासूत्रम्भिक्खू य इच्छेज्जा गणंधारित्तए नो कप्पइसे थेरे अणापुच्छित्ता गणं धारित्तए / कप्पइ थेरे आपुच्छित्ता गणं धारित्तए थविरा य से वियरेजा। एवं से कप्पइगणं धारित्तए थेराय से एगे वियरेजा।। एवं से णो कप्पइ गणं धारित्तए, जण्णं थेरेहिं अविदिन्नं गणं घारेति से संतराए छेए वा परिहारे वा जे ते साहम्मिया उट्ठाए विहरंति। णत्थि णं तेसिं छेदे केइ वा परिहारे वा // 2 // अत्थास्य सूत्रस्य कः संबन्ध:? तत आहदुहतो वि पलिच्छन्ने, अप्पडिसेहोत्तऽतिप्पसंगाओ। धारेच अणापुच्छा, गणमेसो सुत्तसंबंधो / / द्विधातोऽपि द्रव्यतो भावतश्च, परिच्छन्ने परिच्छदोपेत आचार्यस्त्रयमपि च द्विधात: परिच्छन्ने गणधारणस्य न प्रतिषेध इति कृत्वा किमनुज्ञया स्थविराणां कार्यमिति बुद्धया माऽतिप्रसंगतः स्थविराणामनासपृच्छया गणं धारयेदतस्तत्प्रतिषेधार्थमिदं सूत्रमारभ्यते / एषोऽधिकृतसूत्रस्य संबन्ध: / अनेन संबन्धेनायातस्याऽस्य व्याख्याभिक्षुरिच्छेद् गणं धारयितुम् / तत्र (से) तस्य न कल्पते स्थविरान् गच्छगतान् पुरुषान् अनापृच्छ्य गणं धारयितुम् / कल्पते (से) तस्य स्थविरान् आपृच्छय गणं धारयितुम, स्थविराश्च (से) तस्य वितरेयुरनुजानीयुर्गणधारणम्, पूर्वोक्तेः कारणैरर्हत्वात्, तत एवं सजि (से) तस्य कल्पते गणं धारयितुम् / स्थविराश्च (से) तस्य न वितरेयुः, गणधारणानहत्वात्, एवं सति न कल्पते गणधारयितुम्। य: पुन: स्थाविरैरवितीर्णमननुज्ञातः गणं धारयेत् तत: (से) तस्य कृतादनन्तरादपन्यायात्प्रायश्चित्तं छेदो वा परिहारो वा, वाशब्दादन्यद्वा तपः / एष सूत्राक्षरार्थः। भावार्थं भाष्यकृदाहकाउं देसदरिसणं, आगतऽपट्ठाविएँ उवरया थेरा। असिवादिकारणेहिं,न ठावितो साहगस्सऽसती।। सो कालगतम्मी उव-गतो विदेसं व तत्थ व अपुच्छा। येरे धारेय गणं, भावनिसिहं अणुग्धाया। देशदर्शननिमित्तं गतेन ये प्रव्राजितास्तान्यदि आत्मनो यावत्कथिकान् शिष्यतया बध्नाति, ततस्तस्य प्रायश्चित्तं चतुर्गुरुकम् / तथा देशदर्शनं कृत्वा तस्मिन्नागते अप्रस्थापिते च तस्मिन्नाचार्यपदे स्थविरा यस्याचार्या उपरता: कालगताः, यदि वा स प्रत्यागतोऽप्यशिवादिभिः कारणैः, यद्वा साधकस्य (असति त्ति) अभावेनाचार्यपदेऽस्थापितोत्रान्तरे चाचार्यः ततस्तस्मिन् कालगते, यदि वागतो विदेशं तत्रैव विदेशे गणं धारयितुतिच्छेत्, एतेषु सर्वेष्वपि कारणेपु समुत्पन्नेषु यदि स्थविरान् गच्छमहतोऽपृष्ट्वा, यद्यपि तस्याचार्येण भावेतो गणो निसृष्टोऽनुज्ञातस्तथापि स्थविरा आपृच्छनीयाः। तत आहभावनिसृष्टमपि गणं धारयति तर्हि तस्य स्थविरानापृच्छाप्रत्ययं प्रायश्चित्तम् / अनुद्धाता गुरुकाश्चत्वारो मासा: / उपलक्षणमेतद् अज्ञानावस्थामिथ्यात्वविराधनारूपाश्च तस्य दोषाः / सयमेव दिसाबंध, अणणुण्णाते करे अणापुनच्छा। थेरेहिं पडिसिद्धो, सुद्धा लग्गा उवेहंता॥ यो नाम स्वयमेव आत्मच्छन्दसा को मम निजमाचार्य मुक्त्वाऽन्य आपृच्छनीय: समस्ति? इत्यध्यवसायतः पूर्वीचर्येणाननुज्ञात आचार्यपदे तस्यास्थापनात् / स्थविरान् गच्छमहत्तरररूपान् अनापृच्छ्य दिग्वन्धं करोति, स्थविरैः प्रतिषेधनीयः यथा निवर्तते'आर्य ! तव तीर्थकराणामाझं लोपयितुं न युक्तम् / एवं प्रतिचोदितोऽपि यदिन प्रतिनिवर्तते तर्हि स्थविराः शुद्धाः, स तु चतुर्गुरुके प्रायश्चित्ते लग्नः / अथ स्थविरा उपेक्षन्ते तर्हि ते उपेक्षाप्रत्ययं चतुर्गुरुके लग्नाः, यत एवमुपेक्षायामनापच्छाचयां च