SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ गन्ज 813 - अभिधानराजेन्द्रः - भाग 3 गण col माणिउं न चिट्ठइ ति" यतिविशेषसंयुक्तमन्ये, अपरिमितं चावसाने बृहद्भवतीत्येके। अन्ये तु अपरिमितमेव भवति, बृहदित्यर्थः; अवसाने मृदु च पठ्यत इति शेषः / कव्यं गद्यम्, इति एवंप्रकार, ज्ञातव्यमिति गाथाऽर्थः॥७७|| दश०२ अ०|, गजंत त्रि०(गर्जत) घनध्वनि मुञ्चति, उत्त०२ अ०। गाणग न०(गर्जनक) पुरभेदे, यत्र मासकल्पविहारे स्थितैर्विजयसेनसूरिभिरङ्गारदाहकः परीक्षितः। पञ्चा०६ विव०। 'गजनी' (अफगानिस्तान) इति ख्याते म्लेच्छराजनगरे, यद धीश्वरेण हम्मीरनाम्ना म्लेच्छराजेन वल्लभीपुरे श्वरः शिलादित्यो मारितः। ती०१७ कल्प। गजणसह (देशी) मृगवारधध्वनौ, दे० ना०२ वर्ग। गजम पुं०(गर्जभ) अपरोत्तरस्यां शुद्धविदिग्वाते, आ०म०वि०। गजरग न०(गर्जरक) गाजर' इति प्रसिद्ध कन्दभेदे, प्रव०४ द्वार। धा गजल न०(गर्जल) गर्जितसमानशब्दं कुर्वति वस्त्रविशेषे, नि०चू०७ उ०। आचा गजह पुं०(गर्जभ) 'गजभ' शब्दोक्तार्थे, आ०म०द्वि० गजाण पुं०(गद्याण) वल्लषोडशके, "गुञ्जात्रयेण वल्लः स्याद्, गद्याणं ते च षोडश'। कल्प० क्षण। गज्जिता त्रि०(गर्जिता) गर्जितकृति, स्था०४ ठा० / गजिय न०(गर्जित) मेघध्वनौ, प्रश्न०३ आश्र० द्वार। प्रव०। ज्ञा०। स्था०। जी० गजियसद्द पुं०(गर्जितशब्द) गर्जितशब्दो जलसमुत्थो, वायुसमुत्थो वाऽन्यता किमपीति प्रश्ने, उत्तरम्-स्थानाङ्गवृत्तौ स्थाने स्थाने स्तनितानि शब्दानां व्याख्याने मेघगर्जितमित्यर्थकरणान्मेघस्य च जलमयत्वाद् गर्जितशब्दो जलसमुद्भवः संभाव्यते। वायुसमुत्थः शब्दो गर्जितमित्यक्षराणि तु शास्त्रे नोपलभ्यन्त इति / 5 प्र० / सेन०२ उल्ला०। गज्झवक त्रि०(गाह्यवाक्य) नायके, आचा०१श्रु०२ अ०१ उ०) गट्टण पुं०(गट्टन)धरणस्य नागकुमारेन्द्रस्य नाट्याऽनीकाधिपती, स्था०७ ठा० गठिय न०(ग्रथित) शास्त्रेषूपविबद्धे, स्था०२ ठा०१ उ०। गमु अ अव्य०(गत्वा)"कृगमोमडुअः"८४२१२॥ इति क्त्वाप्रत्ययस्य मडुआदेशः। गमनं कृत्वेत्यर्थे, प्रा०४ पाद। गमुल न० (गभुल) तन्दुलधावनादौ पानीये, ध० अधिा स्थान गड पुं०(गर्त) "गर्ते डः"1||३गर्तशब्दे संयुक्तस्य मः। प्रा०२ पाद। श्वभ्रे, भ०७ श०६ उ०। निम्ने भूभागे, अधोलोकग्रामादौ च / भ०६ श०३१ उ०। गडरिया स्त्री०(गडुरिका) पूतनायाम्. भेंड' इतिख्याते चतुष्पदजीवे, सूत्र०१ श्रु०३ अ०४ उ० गड्डरियापवाह पुं०(गड्डुरिकाप्रवाह) 6 त० एडकानामेकस्या अनुमार्गेण सर्वासां सञ्चरणे,ध००। अधुना गड्डरिकाप्रवाह इति नवमं भेदमाह गडरिगपवाहेणं, गयाणुगइयं जणं वियाणंतो। पडिहरइ लोगसन्नं, सुपरिक्खियकारओ धीरो॥६८)! गडरिका एडका, तासां प्रवाहः संचरणम् / एकस्या अनुमार्गेण सर्वासा गमनं गडरिकाप्रवाहः / द्वारगाथायामादिशब्दः कीटिकामकोटकादिप्रवाहसंसूचनार्थः, तेन कृत्वा गतानुगतिकमविचारितकारिणं, जनलोक विजानन्नवबुध्यमानः परिहरति, लोकसंज्ञामविचारितरमणीयां लोकहेरिं, कुरुचन्द्रनरेन्द्रवत्। कथंभूतः सन्नित्याह-सुपरीक्षितकारकः सुपर्यालोचितविधायी, धीरोमतिमानिति। ध००। (कुरुचन्द्रनरेन्द्रकथा तु 'कुरुचंद' शब्दे ऽत्रैव भागे 560 पृष्ठे द्रष्टव्या) गडह पुं०(गर्दभ) "गर्दभे वा"|२।३७। गर्दभेदस्य डो वा भवति, इति दस्य डः प्रा०२ पाद / खरे, "गडहे व्व गवं मज्झे, विस्सरं नयई नयं" स०३० समा गड्डा स्वी०(गर्ता) महत्यां खड्डायाम्, जी०३ प्रति०ा आचा० ज०। गढ धा०(घट) चेष्टायाम्, भ्वा०आत्म०अक० सेट् / घटेगडः" ४।११घटेर्गढ इत्यादेशो वा भवति इति गढादेशः। 'गढइ' घटते। प्रा०४ पाद। गढित्तए अव्य०(ग्रथयितुम) दृढबन्धनबन्धीकर्तुमित्यर्थ, जी०४ प्रति। गढिय त्रि०(गृद्ध) अध्युपपन्ने, आचा०२ श्रु०२ अ०२ उ० दशा। अवबद्धे, सूत्र०२ श्रु०१ अ०। आचा०। प्रश्न०। प्रथित इव ग्रथितः आहारविषयसेहरज्जुभिः संदर्भिते, भ०१४ श०७ उ०। ज्ञा०1 विपा०। सूत्रा पदपाठमन्धेन वा श्लोकबन्धेन वा बद्ध, बृ०३ उ०। शारखेषूपनिबद्धे, स्था०२ ठा०१ उ01 गढियगिद्ध त्रि०(ग्रथितगृद्ध) अत्यन्तं गृद्धिमति, प्रश्न०२ आश्रका द्वार। गण पुं०(गण) मल्लादीनां समूहे, उत्त०१५ अ०। स्था०। आ००। एक याचनाऽऽचारक्रियास्थानां (आ०म०प्र०। स्था०। कल्प) परस्परसापेक्षाणामनेकुलानां साधूनां समुदाये, पं०व०१ द्वार। स्था० प्रति०चं०प्र०। भागच्छे, नं०। प्रव०। व्य०। आ०चू०। प्रश्न० / ग०| सम्प्रति गणस्य निक्षेपमभिधित्सुराहनामादिगणो चउहा, दव्वगणो खलु पुणो भवे तिविहो। लोइय कुप्पवयणिओ, लोउत्तरियं बोधव्यो। नामदिरूपोगणश्चतुर्दा चतुष्प्रकारः। तद्यथा-नामगणः, स्थापनागणो, द्रव्यगणो, भावगणश्च / तत्र यस्य गण इति नाम स नामगणः / गणस्य स्थापनाऽक्षवराटकादिषु स्थापनागणः / द्रव्यगणो द्विधाआगमतो,नोद्यागमतश्च / तत्राऽऽगमतो गणशब्दार्थज्ञाता, तत्र चानुपयुक्तः। नो आगमतस्त्रिधाज्ञशरीरभव्यशरीरतव्यतिरिक्त भेदात् / तत्र ज्ञशरीरभव्यशरीरे प्राग्वत्, तद्व्यतिरिक्तस्विधा / तद्यथा--लौकिकः कुप्रावचनिको, लौकात्तरिकश्च / एतेषां त्रयाणामपि प्रतिपादनार्थमाहसचित्तादिसमूहो, लोगम्मि गणो उ मल्लपूरादी। कुप्पावयणम्मी लो-उत्तरओसन्नगीयाणं / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy