SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ गच्छसारणा 811- अभिधानराजेन्द्रः - भाग 3 गच्छायार ती, से णं रने, से णं सिद्धे, सेणं मुत्ते, से णं पारगए, से णं देवे, से णं देवेदेवे एयस्स गोयमा ! गणणिक्खेवं कुला, एयस्स णं गणनिक्खेवं कारेना, एयस्सणं गच्छनिक्खवणं समणुजाणज्जा। अन्नहा गोयमा ! आणाभंगे। कहा/०५ अ० पार्श्वस्थदीक्षितात्साधेर्गणश्चलतीति कुत्रोक्तमस्ति ? अत्र संविन आचार्यादिः संविग्नगीतार्थाद्यभावे संविग्नभक्तपार्श्वस्यादिपाश्र्वे यदा प्रायश्चित्तमङ्गीकरोति तदापुनव्रतारोपरूपं प्रायश्चित्तं कश्चित्प्रतिपद्यते, एवं छेदग्रन्थोक्तानुसारेण समाधानमवसेयम् / इति श्रीहीरविजयसूरिणं प्रति पण्डितकेवलर्षिगणिकृतः प्रश्नः। ही०३ प्रका०। गच्छाणुकंपण पुं०(गच्छानुकम्पनार्थ)सबालवृद्धस्य गच्छस्यानुकम्प नहेतौ, नि०चू०१ उ०। पं०भा०। पं०चू० गच्छायार पुं०(गच्छाचार गच्छस्य सुविहितमुनिसमुदायस्याचारः / शिष्टजनसमाचरितक्रियाकलाप्रकीर्णकविशेषाभिधेये, तादृशे प्रकीर्णक चाग "उद्बोधो विदधेऽजानामिव भव्यशरीरिणाम्। गवां विलासैर्येनासौ, जीयाद्वीररविश्चिरम् / / 1 / / पदपद्मं स्वगुरूणां, सदा सदाचारचरणचुञ्चूनाम्। नत्वा विदधे विवृति, गच्छाचाराख्यसूत्रस्य"॥२॥ इह तावच्छास्त्रादौ मङ्गलसम्बन्धाभिधेयप्रयोजनान्यभिधातव्यानि। तत्र विघ्नविनायकोपशान्तये शिष्यजनप्रवर्तनाय शिष्टसमयपरिपालनार्थ चेष्टदेवतानमस्काररूपं भावमङ्गलमुपादेयम् / तथाश्रोतृजनप्रवृत्त्यर्थं शिष्टसमयपरिपालननार्थं च संबन्धादित्रयं वाच्यम्। तथाहिइह श्रेयोभूते वस्तुनि प्रवर्त्तमानानां प्रायो विघ्नःसंभवति, श्रेयोभूतत्वादेव, श्रेयोभूतं चेदम्, स्वर्गापवर्गहतुत्वात् / विघ्नोपहतशक्तेश्चशास्त्रकर्तुश्चिकीर्षितशास्त्राऽसंसिद्धयाऽभिप्रेतपरुषार्थस्याऽनिष्पत्तिर्मा भूदिति विघ्नविनायकोपशमनाय मङ्गलमुपादेयम्। आह च-"बहुविग्धाइ सेयाइ, तेण कयमंगलोवयारेहिं / सत्थे पयट्टियव्वं, विजाए महानिहीए व्व / / ननु मानसादिनमस्कारतपश्चरणादिना मङ्गलान्तरेणैव विघ्नोपघातसद्भावादिष्टसिद्धिर्भविष्यतीति किमनेन ग्रन्थगौरवकारिणा वाचनिकनमस्कारेणेति? सत्यम्,किन्तु श्रोतृप्रवृत्त्यर्थमिदं भविष्यति। तथाहि-यद्यप्युक्तन्यायेन कर्तुरविघ्नेष्टसिद्धिः स्यात्तथापि प्रमादवतः / शिष्यस्येष्टदेवतानमस्काररूपमङ्गलं विना प्रक्रान्तग्रन्थाध्ययनश्रवणादिषु प्रवर्तमानस्य विघ्नसंभवादप्रवृत्तिः स्यात् / मङ्गलवाक्योपन्यासेतु मङ्गलवचनाभिधानपूर्वकं प्रवर्तमानस्य मङ्गलवचनापादितदेवताविषयशुभभावव्यपोहितविघ्नत्वेन शास्त्रे प्रवृत्तिरप्रतिहततरा स्यात् / तथा देवताविशेषनमस्कारोपादाने सति देवताविशेषगदितागमानुसारीदं शास्त्रमत उपादेयमित्येवंविध-बुद्धिनिबन्धनत्वेन शिष्यप्रवृत्त्यर्थमिदं भवतीति / आह च "मंगलपुव्वपक्त्तो, पमत्तसीसो वि पारमिह जाइ / सत्थे विसासणाओ, गोरवादिह पयट्टेज्जा''॥१॥ ननुभङ्गलविकलानामपि बहुतमशास्त्राणां दृश्यते संसिद्धिः, श्रोतृजनप्रवृत्तिश्चेति, ततः किमनेनानैकान्तिकेन शास्त्रगौरवकारिणा च मङ्ग लेनाभिहितेन? सत्यम्, किं तु शिष्टसमयपरिपालनार्थमिदं भविष्यति तथाहि--शिष्टाः क्वचिदिष्ट वस्तुनि प्रवर्तमाना इष्टदेवतानमस्कारपूर्वकं प्रायः प्रवर्तन्ते। शिष्टश्चायमप्याचार्य इति शिष्टसमाचारः परिपालितो भवत्विति मङ्गलमभिधेयम् / आह च-"शिष्टाः शिष्टत्वमायान्ति, शिष्टमार्गानुपालनात्। तल्लङ्घनादशिष्टत्वं, तेषां समनुपद्यते''||१|| तथा सम्बन्धादीनि श्रोतृजनप्रवृत्त्यर्थमभिधेयानि / तथाहि-यदसंबद्धं तत्र न प्रवर्तन्ते प्रेक्षावन्तो दशदामिमादिवाक्ये इव, एवं निरभिधेयेऽपि काकदन्तपरीक्षायामिव, एवं निष्प्रमार्जनेऽपि कण्टकशाखामर्दन इवेति / अतः संबन्धादिप्रतिपादनं श्रोतृणां शास्त्रे प्रवृत्त्यङ्गम्। अथासर्वज्ञाऽवीतरागवचनानां व्यभिचारित्वसंभवेन सम्बन्धादिसद्भावनिश्चयाभावान्नेतः प्रेक्षावतां प्रवृत्तिस्त्र भविष्यति। यापुनः संशयात्प्रवृत्तिस्तां संबन्धादिवचन विनैव भवन्ती को निवारयितुं पारयतीति न श्रोतृप्रवृत्त्यङ्ग संबन्धादिवचनम् / सत्यं, किं तु शिष्टसमयपरिपालनार्थ भविष्यति, शास्त्रकारा ह्येवं प्रवर्तमानाः प्रायः प्रेक्ष्यन्ते इति।। ग्रन्थकृद् गच्छाचाराऽभिधप्रकीणेकं चिकीर्षुमंडल संबन्धाभिधेय प्रयोजनाभिधायिकामिमां गाथामाहनमिऊण महावीरं, तिअसिंदनमंसिअं महाभाग। गच्छायारं किंची, उद्धरिमो सुयसमुद्दाओ॥१॥ नत्वा प्रणम्य, कमित्याह-महावीरं, विशेषण ईस्यति क्षिपति कर्माणीति वीरः / 'विदारयति कर्माणि, तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः'।१। इति लक्षणान्निरुक्ताद्वा वीरः, महांश्चासौ इतरवीरापेक्षया वीरश्च महावीरः, तम् / जन्ममहोत्सवसमये तनुशरीरोऽयं कथं जलप्राग्भारं सोढा? इति शक्रशङ्काशसमुद्धरणाय भगवता वामधरणाङ्गुष्ठनिपीमितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितसरित्पतिक्षोभशङ्कितब्रह्माण्डभाण्डांदरदर्शनप्रयुक्तावधिज्ञानज्ञातपभावातिशयविस्मितेन वास्तोष्पतिना व्यवस्थापितैवंविधनामक चरमतीर्थाधिपतिं; शेषजिनत्यागेन च महावीरग्रहणं प्रवर्तमानतीर्थाधिपत्वेन परोपकारित्वात् / किंभूतम्? त्रिदशेन्द्रनमस्यित, त्रिदशाः सुमनसस्तेषामिन्द्रास्त्रिदशेन्द्रास्तैर्नमस्यितस्तम्। तथा महाभाग, महान् भागः "भागो रूपार्द्धक भाग्यैकदेशयो" इति हेम वचनाद्भाग्य परमैश्वर्यादिप्राप्तिहुत तीर्थकृन्नामर्मोिदयरूपं यस्यासौ महाभागस्तम्। ततः किमित्याह-गच्छस्य सुविहितमुनिसमुदायस्याचारः शिष्टजनसमाचरितः क्रियाकलापो गच्छाचारस्तमुद्धरामः प्रकीर्णकरूपत्वेन पृथक्कुर्मो, वयमिति शेषः / अनेन चास्याभिधेयमुक्तम्। ननु भद्रयाहुस्वाम्यादिभिरेव गच्छचारस्योद्धृतत्वात् किं नु तदुद्धरणेनेत्याशङ्क्याहकिञ्चित् संक्षिप्तमेव, पुर्वाचार्यैर्हि प्रपञ्चतः स उद्धृतो, वयं तु मन्दमति - सत्त्वानुग्रहार्थं संक्षेपेण तमुद्धराम इत्यर्थः / अनेन च प्रकीर्णककरणविषयायाः स्वप्रवृत्तेः प्रयोजनमुक्तम् / यतः "प्रयोजनमनुद्दिश्यमन्दोऽपि न प्रवर्तत"। तथा संक्षिप्तप्रकीर्णकस्य सुखाध्येयत्वादिना विस्तरवद् ग्रन्थत्यागेन श्रोतारोऽत्र प्रवर्तिता भवन्ति, ननु श्रोतृजनप्रवर्तकविशेषणकदम्बकोऽयमपीदं प्रकीर्णकमसर्वज्ञेनावीतरागेण च भवतोद्धियमाणमविसंवादार्थिनां न प्रवृत्तिविषयो भविष्यत्यसर्वज्ञवचने विसंवादाशड्कानिवृत्ते रित्याशङ्कमान आह श्रुसमुद्रात्, श्रुतं कल्पव्यवहारादिरूपं तदेव गम्भीरत्वादिगुणैः समुद्रः श्रुतसमुद्रस्तस्मात् / यदि हि स्वरचितादेर्भयोध्रियेत तदा व्यभिचारशङ्कया नेदं प्रवृत्तिवि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy