SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ गच्छसारणा 806 - अभिधानराजेन्द्रः - भाग 3 गच्छसारणा न वितरति। न वितरति / चतुर्थभङ्गे पुनरुभयोरप्यशक्तत्वादात्मनाऽपि प्रतिसेवते, परेणापि प्रतिसेवापयति / तथा यतना खलु त्रिपरिरया द्रष्टव्या / 'री' गतौ, परि समन्तात्रयणं परिरयः परिभ्रमणमित्यर्थः। त्रय; परिरया यस्यां सा त्रिपरिरया / किमुक्तं भवति?-एषणीयाहारान्वेषणार्थं स्वग्रामादौ तिस्रो वाराः सर्वतः पर्यट्य योषणीयं न लभते ततः पश्चादलाभे अप्राप्तौ पञ्चकपरिहाण्या यतते / अथफलद्वारम्गीतार्थः प्रथममेव कार्य प्रारभमाणः परिभावयति / एवमनुत्तिष्ठतो ममाऽन्यस्य वा फलं भविष्यति, न वा तत्तु फलं द्विविधम् / तदेवाहइह परलोगे य फलं, इह आहाराइ इक्कमेकस्स। सिद्धि सग्ग सुकुलता, फलं तु परलोइयं एयं / / इहलोकफलं परलोकफलं चेति फलं द्विधा। तत्रेहलोकफलमाहारादि, आदिशब्दावस्त्रपात्रादि।तथा सिद्धिगमनं, स्वर्गगमनं, सुकुलोत्पतिश्च, एतत्पारलौकिकं फलम् / एतद् द्वयमप्येकैकस्याऽऽत्मनः परस्य च परस्परोपकारेण यथा भवति तथा गीतार्थः समाचरति / यच गीतार्थोऽरक्तद्विष्टः प्रतिसेवते, तत्र नियमादप्रायश्चित्ती भवति। आह-केन पुनः कारणेन प्रायश्चित्ती? उच्यतेखेत्ताऽयं कालोऽयं, करणमिणं साहओ उवाओऽयं / कत्त त्तिय जोगि त्ति य, इय कडजोगी वियाणाहि॥ यो न रागे न द्वेषे किन्तु तुलादण्वद् द्वयोरपि मध्ये मप्रवर्तते स ओजा भण्यते / क्षेत्रेऽध्वादौ ओजाः क्षेत्रौजाः / काले अवमौदर्यादौ ओजाः कालौजाः, क्षेत्रे काले च प्रतिसवमानो न रागद्वेषाभ्यां दूष्यते इत्यर्थः। कथम्? इत्याह-यतः स गीतार्थः करणमिदं सम्यक् क्रियेयम्, एवं क्रियमाणे महती कर्मनिर्जरा भवतीति विमृशति / तथा ज्ञानदर्शनचारित्राणि साधनीयानि, तेषांचसाधकोऽयमुपायो यदसंस्तरणे यतनया प्रलम्बसेवनम् / तथा कृतयोगी गीतार्थः स कर्तेति च योगीति भण्यते। 'इय' एवं विजानीहि, इति नियुक्तिगाथासमासार्थः। अथैनामेव विवृणोतिओयन्मूतो खित्ते, काले भावे य जं समायरइ। कत्ता उसो अकोप्पो, जोगी व जहा महावेजो।। यओजोभूतो रागद्वेषाविरहितो गीतार्थः क्षेत्रेऽध्वादौ, काले दुर्भिक्षादौ, भावे च रनत्वादौ, प्रलम्बादिप्रतिसेवारूपं यत्किमपि समाचरति, स सम्यक् क्रियेयं साधकोऽयमुपाय इत्यालोच्यकारी कर्ता, अकोप्योऽकोपनीयः, अदूषणीय इत्युक्तं भवति। कश्वेत्याह-योगीव यथा महावैद्य इति। यथेतिदृष्टान्तोपन्यासे, स योगी धन्वन्तरिः, तेन च विभङ्गज्ञानबलेनाऽऽगामिनि काले प्राचुर्येण रोगसंभवं दृष्ट्वा अष्टाङ्गायुर्वेदरूपं वैद्यकशास्त्रं चक्रे, तच यथाऽऽनायं येनाधीतं स महावैद्य उच्यते / स चायुर्वेदप्रामाण्येन क्रियां कुर्वाणो योगीव धन्वन्तरिरिव न दूषणभ ग् भवति / यथोक्तक्रियाकारिणश्च तस्य तचिकित्साकर्म सिध्यति / एवमत्रापि योगी तीर्थकरस्तदुपदेशानुसारेणोत्सर्गाऽपवादाभ्यां यथोक्ता क्रियां कुर्वन् गीतार्थोऽपि न वाच्यतामर्हति।। अथ "कत्तत्तिय जोगि त्तिय 'पदद्वयमेव प्रकारान्तरेण व्यख्याति अहण कत्ता सत्था, न तेण कोविज्जती कपं किंचि। कत्ता इव सो कत्ता, एवं जोगी विनायव्वो। 'अहवण त्ति' अखण्डमव्ययम् अथवाऽर्थे, कर्ता शास्ता तीर्थकर उच्यते; यथा तेन तीर्थकरणे कृतं कार्य किञ्चिदपि न कोप्यते, एवमसावपि गीतार्थो विधिना क्रियां कुर्वन् कर्ता इव तीर्थकर इवाऽकोपनीयत्वात्कर्ता द्रष्टव्यः / एवं योग्यपि ज्ञातव्यः / किमुक्तं भवति ? यथा तीर्थकरः प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगी भण्यते, एवं गीतार्थोऽष्युत्सगपिवादबलवेत्ता अपवादक्रियां कुर्वाणोऽपि प्रशस्तमनोवाकाययोगं प्रयुञ्जानो योगीवज्ज्ञातव्यः। एवमाचार्योक्त शिष्य प्राहकिं गीयत्थो किवचलि, चउव्विहे जाणणे य गहणे य। तुल्ले रागद्दोसे, अणंतकायस्स वज्जणया / / किंगीयत्थोर्थः केवली येन तीर्थकृत इव तस्य वचनं करण वा कोपनीयम्। सूरिराह-ओमिति ब्रूमः / तथाहि-द्रव्यादिभेदाचतुर्विधं ज्ञानं, तद्यथा केवलिनस्तथा गीतार्थस्यापि, तथा यत्प्रलम्बानामेकानेग्रहणविषयं विषमप्रायश्चित्तप्रदान, यश्च तत्र तुल्येऽपि जीवत्वे रागद्वेषाभावो, या वाऽनन्तकायस्य वर्जना, एतानि यथा के वली प्ररूपयति तथा गीतार्थोऽपीति द्वारगाथासमासार्थः / विस्तरार्थं प्रतिपदं विभणिषुराहसव्वं जेयं चउहा, तं वेइ जिणो जहा तहा गीतो। चित्तमचित्तं मीसं, परित्तऽणंतं च लक्खणतो।। सर्वमपि जगतोत्रयगतं जेयं चतुर्धा। तद्यथा-द्ररूतः, क्षेत्रतः, कालतो, भावतश्च / तचतुर्विधमपि यथा जिनः केवली ब्रूते तथा गीतार्थोऽपि / यद्वा-(तं वेइ त्ति) तचतुर्विधं ज्ञेयं यथा जिनो वेत्ति जानाति तथा गीतार्थोऽपि श्रुतज्ञानी जानात्येव / तथाहियथा केवल सचित्तमित्तं मिश्र परीत्तमनन्तं च लक्षणतो जानाति प्रज्ञापयति वा, तथा श्रुतधरोऽपि श्रुतानुसारेणैव सचित्तलक्षणेन सचित्तम् / एवमचित्तमिश्रपरीत्ताऽनन्तान्यपि स्वस्वलक्षणावैपरीत्येन जानाति, प्ररूपयति चेति केवलीव द्रष्टव्यः / आह--केवली समस्तवस्तुस्तोमवेदी, श्रुतकेवली पुनः केवलज्ञानानन्ततमभागमात्रज्ञानवान्, ततः कथमिव केवली तुल्यो भवितुमर्हति? इत्याहकामं खलु सव्वणू, नाणेणऽहिओ दुवालसंगीतो। पन्नत्ताइ उ तुल्लो, केवलनाणं जओ मूर्य / काममनुगतं खल्वस्माकं सर्वज्ञः केवली द्वादशाङ्गिनः श्रुतकेवलिनः सकाशाद्ज्ञानेनाऽधिकः, परं प्रज्ञप्त्या प्रज्ञापनया श्रुतके वलिनः केवली तुल्यः / कुतः? इत्याह-यतः केवलज्ञानं मूकम् अमुखम् / किमुक्त भवति ?-यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवल्यापि। ये तुश्रुतज्ञानस्याऽविषयभूता भावाः केवलिनाऽवगभ्यन्ते तेषामप्रज्ञापनीयतया केवलिनाऽपि वक्तुमशक्यत्वात् / बृ० (इतोऽग्रे ‘णाण' शब्दे मतिश्रूतभेदप्रस्तावादवगन्तव्यः) श्रुते द्वादशावलक्षणे सूत्ररचनया निबद्धोऽनन्तस्यानन्तभेदभिन्नत्वादित्यभिप्रायः / आह-कथमेतत्प्रतीयते, यथा प्रज्ञापनायामनन्तभागः श्रुते निबद्धः? उच्यतेजं चउदसपुथ्वधरा, छट्ठाणगया परोप्परं होति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy