________________ गच्छ 804 - अभिधानराजेन्द्रः - भाग 3 गच्छ ... एएण कारणेणं, गच्छो उ भवे महिड्डीओ॥ दर्शनज्ञानचारित्राणां यस्माद्गच्छे परिवुद्धिर्भवति, एतेन कारणेन गच्छो महर्द्धिको भवति। पुरतो व मग्गतो वा, जम्हा कत्तो वि नत्थि पडिबंधो। एएण कारणेणं, जिणकप्पीओ महिडीओ। पुरतो वा विहरिष्यमाणक्षेत्रे, मार्गतो वा पृष्ठतः पूर्वविहृतक्षेत्रे यस्मात्कुतोद्धपिद्रव्यतः कोलतो भावतो वा प्रतिबन्धस्तस्य भगवतो न विद्यते एतेन कारणेन जिनकल्पिको महर्द्धिकः। ___ अथद्वयोपपि महर्द्धिकत्वं दृष्टान्तेन दर्शयतिदीवा अन्नो दीवो, पइप्पई सो य दिप्पइ तहेव। सीसो चिय सिक्खंतो, आयरिओ होइनन्नत्तो।। दीपादन्यो द्वितायो दीपो दीप्यते, स च मूलो दीपस्तथैव दीप्यते, एवं जिनकल्पिकदीपोऽपि गच्छदीपादेव प्रादुर्भवति, स च गच्छदीपस्तथैव ज्ञानदर्शनचारित्रैः स्वयं प्रदीप्यते। यद्वा यथा शिष्य एव शिष्यमाणः सन् क्रमेणाचार्यो भवति, नान्यतो नान्येन प्रकारेण, एवं स्थविरकल्पिक एव तपःप्रभूतिभिर्भावनाभिरात्मानं भावयन् क्रमेण जिनकल्पिको भवति, नान्यथा। अतो द्वावपि महर्द्धिको / अस्यैवार्थस्य समर्थनायाऽपरं दृष्टान्तत्रयं दर्शयितुं नियुक्तिगाथामाहदिद्रुत गुसासीहे, दोन्नि य महिला पया य अपया य। गावीण दोनि वग्गा, सावेक्खो चेव निरवेक्खो। दृष्टान्तोऽत्र गुहासिहविषयः प्रथमः / द्वितीयो द्वे महिले, एका प्रजा अपत्यवती, द्वितीया अप्रजा अपत्यविकला। तृतीयो गवां द्वौ वर्गी, एकः सापेक्षोऽपरो निरपेक्ष इति। तत्र गुहासिंहदृष्टान्तं भावयति• सीहं पालेइ गुहा, अविहाडं तेण सा महिड्डीया। तस्स पुण जोव्वणम्मी, पओअणं किं गिरिगुहाए ? 11 "अविहाडं" इति देशीभाषया बालकं सिंह गुहा पालयति वनमहिषव्याघ्रादिभ्यो रक्षति, तन्निर्गतस्य तेभ्यः प्रत्यपायसंभवात्। तेन कारणेन गुहा महर्द्धिका / यदातु सिंहो यौवनं प्राप्तो भवति तदातस्य किं प्रयोजनं गिरिगुहया ?, न किञ्चिदित्यर्थः / स्वयमेव वनमहिषाधुपद्रवादात्मानं पालयितुं प्रत्यलीभूतत्वादित्थं सिंहो महर्द्धिक। अथाअर्थोपनयमाहदच्यावदमाईसं, कुसीलसंसग्गिअन्नउत्थीहिं। रक्खइगणी पुरोगो, गच्छो अवि कोवियं धम्मे / / गणी आचार्यः, स पुरोगः पुरःसरो नायको यस्य तथाविधो गच्छो गुहास्थानीयः / सिंहशावकस्थानीयसाधुधर्मे श्रुतचारित्रात्मकोविदमध्याप्य प्रबुद्धद्रव्यापदि, आदिशब्दात् क्षेत्रकालभावापत्यु, तथा कुशीलाः पार्श्वस्थादयस्तैरन्यतीर्थिकैर्वा सार्द्ध यः संसर्गस्तत्र च रक्षति / बिश्रोतसिकाप्रमादमिथ्यात्वाद्युपद्रवात्पालयति, अतो गच्छो महर्द्धिकः। यदा त्वसौ द्विविधेद्धपि धर्मे व्युत्पन्नमतिः कुतपरिकर्मा जिनकल्पं प्रतिपन्नस्तदा स्वयमेवाऽऽत्मानं द्रव्यापदादिष्वपि विश्रोतसिकादि विरहितः सम्यक् परिपालयति, अतो जिनकल्पिको महर्द्धिकः / अथमहे लाद्वयदृष्टान्तमाहआणाइस्सरियसुह, एगा अणुभवति जइ वि बहुपुत्ती। देहस्स य संठप्पं, भोगसुहं चेव कालम्मि।। परवावारविमुक्का, सरीराकारतप्परा नियं। मंडणए वक्खित्ता, भत्तं पिन चेयई अपया / / द्वयोमहेलयोर्मध्ये एका सप्रसवा यद्यपि बहुतरापत्यस्नपनादि बहुव्यापारव्यापृता तथापि सा गुहस्वामिनीत्वादाझैश्वयं सुखमनुभवति, काले च प्रस्तावे देहस्य संस्थाप्यं संस्थापना भेगसुखमपि च प्राप्नोति। याचा प्रजा अप्रसवा सा परव्यापारविमुक्ता अपत्यादिचिन्तावर्जिता नित्यं सदा शरीरस्य संस्कारमुखधावनादौ तत्परा मण्डनके विलेपनाभरणादौ व्याक्षिप्ता सती भक्तमपि भोजनमपि न चेतयति न संस्मरति। अर्थोपनयमाहवेयावये चोयण-वारणवावारणासुय बहूसु। एमादी वक्खेवो, सययं झाणं न गच्छम्मि। यथा सप्रसवायाः स्त्रियो बहुव्यापारव्यग्रता भवति तथा गच्छऽपि, यथाऽऽचार्योपाध्यायादिवैयावृन्यम् / यावच्चक्रबालसामाचारी हापयतो नोदना चाकृत्य प्रतिसेवनां कुर्वतो, वारणीयाश्च बहवो, वस्त्रपात्रत्पादनविषया व्यापारणाः, तदेवमादिषु यो व्याक्षेपोव्याकुलत्वंतस्माद्धेतोर्गच्छे सततं निरन्तरं ध्यानमेकाग्रशुभाऽध्यवसायात्मकमात्मनो मण्डनकल्पं न भवति / जिनकल्पिकस्य तु वैयावृत्त्यादिव्याक्षेपरहितस्य निरपत्यस्त्रिया आत्मनो मण्डनमिव निन्तरमेव तथा तदुपजायते, यथा भोक्तुमपि स्पृहा न भवति। अथ गोवर्गद्वयदृष्टान्तमाहसपाइयाओ, नस्संतीओ वि णेव धेनूओ। मोत्तूण वण्णगाई ,हवन्ति सपरकमाओ वि।। न वि वच्छएसु सज्ज-ति वाहिओ नेव वच्छमाऊसु / सबलमगृहंतीओ, नस्संति भएण वग्धस्स॥ धेनवोऽभिनवप्रसूता गावः, ताः शार्दूलेन व्याघ्रण पातितास्त्रासिताः सत्यो नश्यन्त्योऽपि वर्णकानि वत्सरूपाणि मुक्त्वा सपराक्रमा अपि समर्था अपि नैव प्रधावन्तिन शीघ्रं पलायन्ते, अपत्यसापेक्षत्वात्। यास्तु 'वाहिओ' बष्कयण्यः, ता नापि वत्सकेषु सज्जयन्ति ममत्वं कुर्वन्ति, नापि वत्समातृषुधेनुषु, किन्तु स्वबलभगृहमाना व्याघ्रस्य भयेन नश्यन्ति, निरपेक्षत्वात्। एष दृष्टान्तः। अथार्थोपनयमाहआयसरीरे आयरि-यबालबुड्डेसु अवि य सावेक्खा। . कुलगण्धसंघेसुतहा, चंइयकजाइएसुंच॥ यथाधेनवस्तथः गच्छवासिनोऽप्यात्मशरीरे आचार्यबाल-वृद्धेष्वपि च कुलगणसङ्घकार्येषु चैत्यादिकार्येषु च सापेक्षाः, अतः संसारव्याघ्रभयेन नश्यतोऽपि संहननादिबलोपेता अपि न शीध्र पलायन्ते / जिनकल्पिकास्तु भगवन्त आत्मशरीरादिनिरपेक्षा अधेनुगाव इव स्ववीर्यमगुहमानाः संसारव्याघ्रान्निप्रत्यूह पलायन्ते।