________________ गच्छ 803 - अमिधानराजेन्द्रः - भाग 3 गच्छ सूगच्छेवसेत्। एवं शुभाऽशुभगच्छस्वरूपेऽवगते सति मुनिः किं कुर्यात् ? इत्याहतम्हासम्मं निहालेउ,गच्छंसम्मग्गपट्ठि। वसिजा पक्ख मासं वा, जावज्जीवं तु गोयमा!।१०५।। यस्मात्सद्रच्छः संसारोच्छेदकारी, असद्गच्छश्च संसारवर्द्धकः; तस्मात् सम्यग् निभाल्य सम्यग् विलोक्य, गच्छं गणं सन्मार्गप्रस्थितं, तत्र पक्षं वा मासं वा, उपलक्षणत्वाद् मासद्वयादिकं वा, यावजीवम् वातुरपि विकल्पार्थे एव, वसेन्मुनिः, हे गौतम ! इति / ग०३ अधि०। (वसतिरक्षणमधिकृत्यैकाकिन्या क्षुल्लिकादिकया वतिन्योपाश्रयरक्षणे दोषो, रात्री वसतेर्बहिर्गमने निर्मर्यादत्वादि च भागेऽस्मिन्नेव 32 पृष्ठ 'एगाइ' शब्दे गच्छाचारपाठे द्रष्टव्यम्) (आर्यया गृहिसमक्षं दुष्टभाषणे दोषस्तु अज्जा' शब्दे प्र०भागे 220 पृष्ठे द्रष्टव्यः) गच्छमर्यादा-- से भयवं! केवइयं कालं० जाव गच्छस्सणं मेरा पण्णविया ?, केवइयं कालं०जावणंगच्छस्स मेराणाइक्कमे यव्वा ? गोयमा! जावणं महायसे महासत्रे महाणुभागे दुप्पसहे अणगारे तावणं गच्छमेरा पण्णविया, जाव णं महायसे महासत्ते महाणुभागे दुप्पसहे अणगारे ताव णं गच्छमेरा नाइक्कमेयव्वा / महा०|| जत्थ य गोयम ! पंच-एह कह वि सूणाण एकमवि होला। तं गच्छंतिविहेणं, वोसिरिय वइल अत्तत्थं / / सुणारंमवित्तं, गच्छं वेसुजलं बण वसेजा। जंचारितगुणेहिं,तु उज्जलं ते निवासेजा। महा०५ अ० गच्छे आचार्यादीनामभावे न वसेत् / यत्र गच्छे पञ्चानामाचार्योपाध्यायगणावच्छे दिप्रवर्तिस्थविररूपाणामसद्भावो, यदि वा यत्र पञ्चानामन्यतमोऽप्येको न विद्यतेतत्र न वस्तव्यम्, अनेकदोषसंभवात्, तानेव दोषानाहएवं असुभगिलाणे, परिण्णकुलकञ्जमादिवग्गो उ। अण्णस्स ससल्लस्सा, जीवियघाते चरणघातो। एवमुक्तेन प्रकारेण एकादिहीने गच्छे, एकोऽशुभकार्ये मृतकस्थापनादौ, अपरो ग्लानप्रयोजनेषु, अन्यः परिज्ञायां कृतभक्तप्रत्याख्यानस्य देशनादौ, अपरः कुलकार्यादौ व्यग्र इति;अन्यस्य पञ्चमस्याप्यन्त्यावस्थाप्राप्तस्य आलोचनाया असंभवेन सशल्यस्यसतो जीवनाशे चरणव्याघातश्चरणगात्रभ्रंशः, चरणभ्रंशेच शुभगतिविनाशः। अत्र पर आह-- एवं होइ विरोहो, आलोयणपरिणतो उसुद्धोउ। एगंतेण पमाणं, परिणामो वी न खलु अम्हं / / नन्वेवं सति परस्परविरोधः / तथाहि भवद्भिरिदानीमेवमुच्यतेसशल्यस्य सतो जीवितनाशे चरणभंशः, प्राक्तवेवमुक्तम्अदत्तालोचनेऽप्यलोचनापरिणामपरिणतः शुद्ध इति, ततो भवति परस्परविरोधः / अत्र सूरिराह--(एगतेणेत्यादि) नखल्वस्माकं स्वशक्तिनिगृहनेन यथाशक्तिप्रवृत्तिविरहितः केवलपरिणाम एकान्तेन प्रमाणं, तस्य परिणामाऽऽभासत्वात; किन्तु सूत्रं प्रमाणीकुर्वतो यथाशक्तिप्रवृत्तिसमन्वितः, न चैकाद्यभावे गच्छे वसन् सूत्रमनुवर्तते, ततस्तस्य तात्विकपरिणाम एव नेति सशल्यस्य जीवितनाशे चरणनाशः। पुनरपि वक्तव्यान्तरं विवक्षुः प्रश्नमुत्थापयतिचोयग किं वा कारण, पंचण्हऽसती तहिं न वसियट्वं / दिलुतो वणियए, पिंडियअत्थे वसिउकामे // चोदक आह-यत्र पञ्चानां परिपूर्णानामसद्भावस्तत्र न वस्तव्यमित्यत्र किंवा कारणम् ? को नाम दोषः?| सूरिराह-अत्र अधिकृतार्थे वणिजा पिण्डितार्थेन वस्तुकामेन दृष्टान्त उपमा, गाथायां सप्तमी तृतीयाऽर्थे / इयमत्र भावना कोऽपि वणिक्, तेन प्रभूतोऽर्थः पिण्डितः, ततः सोऽचिन्यत्-कुत्र मया वस्तव्यम् ?, यतैनमर्थं परिभुजेऽहमिति / ततस्तेन परिचिन्त्येदं निश्चिक्ये-- तत्थ न कप्पइ वासो, आहारो जत्थ नत्थि पंच इमे। राया वेज्जो धणिडं, नेवइया रूवजक्खा य / / तत्र न कल्पते वासो यत्रेमे वक्ष्यमाणः पञ्चनाधाराः। केते ?, इत्याह-- राजा नृपतिः, वैद्यो भिषग, अन्येचधनवन्तो, नैतिकिका नीतिकारिणो, रूपयक्षा धर्मपाठकाः। ___ कस्मादीति चेदत आहदविणस्स जीवियस्सव, वाघातो होज जत्थ नत्थे ते। वाघाए चेगतर स्स दवसंघाडणा अफला॥ यत्र न सन्त्येते राजादयः परिपूर्णाः पञ्च, नियमतो द्रविणस्य धनस्य, जीवितस्य वा व्याघातो भवत्। वैद्येन विना जीवितस्य, राजादिभिर्विना धनस्य, व्याघाते चैकस्य धनस्य जीवितस्य वा द्रव्यसंघाटना द्रव्योपार्जना विफला, परिभोगस्यासंभवात्। अथवा रण्णा जुवरण्ण वा, महतरय अमच तह कुमारेहि। एएहि परिग्गहियं, वसेज रज्जं गुणविसालं। राज्ञा युवराजेन महत्तरकेणाभात्येन तथा कुमारैः, एतैः पञ्चभिः परिगृहीतं राज्यं गुणविशालं भवति, गुणविशालत्वाच तद्वसेत् / व्य०१ उ01 (राजादीनां लक्षणानि स्वस्वस्थाने द्रष्टव्यानि) गच्छो जिनल्पश्च द्वावप्येतौ महर्द्धिको अथ शिष्यः प्रश्नयतिगच्छे जिणकप्पम्मि वि, दोण्ह वि कयरो भवे महिडीओ? निप्फण्णगनिप्फण्णा, दोन्नि वि हों ती महिड्डीया। गच्छजिनकल्पयोर्मध्ये कतरो महर्द्धिकः प्रधानतरो भवेत् ? गुरुराहनिष्पादकनिष्पन्नाविति कृत्वा द्वावपि महर्द्धिकौ भवतः / तत्र गच्छः सूत्रार्थग्रहणादिना जिनकल्पिकस्य निष्पादकः, अतोऽसौ महर्द्धिकः; जिनकल्पिकस्तु निष्ष्पन्नो ज्ञानदर्शनचारित्रेषु परिनिष्ठित इत्यसौ महर्द्धिकः। इदमेव भावयतिदंसणनाणचरित्ते, जम्हा गच्छम्मि होइ परिवुड्डी।