________________ एसणा 58 - अभिधानराजेन्द्रः - भाग 3 एसणा | www sss sss चत्वारि पदान्यधिकृत्य षोडश भङ्गा भवन्ति। भङ्गानां च नयनार्थमियं गाथा। एय समदुग अब्भा, सेसा भंगाण तेसि महरयणा। एगंतरिय लहु गुरु-लहुगुरुगा य वामे सु॥ अस्य व्याख्या इह यावतां पदानां भङ्गा आनेतुं चिन्यन्ते। तावन्तो द्विका ऊधिः क्रमेण स्थाप्यन्ते / ततः प्रथमो द्विको द्वितीयेन द्विके न गुण्यते जाताश्चत्वारस्तैस्तृतीयोद्विको गुण्यते जाता अष्टौ तैरपि चतुर्थो द्विको गुण्यते जाताः षोडश एतावन्तश्चतुर्णा पदानां भङ्गा भवन्ति / तेषां च पुनर्भङ्गानामेषा रचना प्रथमपक्तावेकान्तरितम्।लघुगुरु प्रथमलघुततो गुरुपुनर्लघु पुनर्गुरु एवं यावत् षोडशो भङ्गाः। ततः प्रज्ञापकापेक्षया वामेषु वामपार्श्वेषु द्विगुणा लघुगुरवः। तद्यथा द्वितीयपङ्क्ती प्रथमंदौलघूततो द्वौ गुरूततो भूयोऽपि द्वौ लघूएवं यावत् षोडशो भङ्गाः / तृतीयपक्तौ प्रथम चत्वारो लधवस्ततश्चत्वारोगुरवस्ततः पुनश्चत्वारो गुरवः चतुर्थपङ्क्त चांप्रथममष्टौ लघवः। ततोऽष्टौ गुरुवः / स्थापना। ISH SII SSII HIS ISIS 5115 SSIS !! ISSI SIST |155 SISS अत्र ऋजवोऽशाः शुद्धाः वक्राश्चा शुद्धाः। इह षोडशानां भङ्गानामाद्यो भङ्गोऽनुज्ञातः शेषेषु पञ्चदशसु भङ्गेषु सम्प्रत्युष्णग्रहणे दोषानाहा। दुविहविराहण उसिणे, छडणहाणी य भाणमे ओय। वाउक्खित्ताणंतर-परंपरा य पाडयवत्थि॥ उष्णेऽत्युष्णे इक्षुरसादौ दीयमाने द्विधा विराधना आत्मविराधना परविराधना च। तथाहि यस्मिन् भाजने तप्तस्ततोऽत्युषणं गृह्णाति। तेन तप्तः सत् भाजनं हस्तेन साधुगृह्णन् दह्यते इत्यात्मविराधना / येनापि स्थानेन दात्री ददाति तेनाप्यत्युष्णे न सा दह्यत इति / तथा (छड्डुणे हाणीयत्ति) अत्युष्णमिक्षुरसादि कष्टन दात्री दातुं शक्रोति कष्टेन च दाने कथमपि साधुसत्कभाजनादहिरुद्रमने हानि-र्दीयमानस्येक्षुरसादेः / तथा (भाणभेओ इत्ति) तस्य भाजनस्य साधुना वा नयनायोत्पाटितस्य एतद्ग्रहणादेर्दात्र्या वा दाना-योत्पाटितस्योदञ्चनस्य गण्डरहिस्यात्युष्णतया ऋगिति भूमौ मोचने भङ्ग : स्यात् / तथा च षडजीवनिकायविराधनेति / संयमविराधना संयमप्रतिकायमधिकृत्यानन्तरपरंपरे दर्शयन्ति / वातोत्क्षिप्ताः समीरणोत्पाटिताः पपण्टिताः पपण्टिका शालिपर्पटिका अनन्तरं निक्षिप्तं परंपरनिक्षिप्तम् (वस्थित्ति) विभक्तिलोपावस्तौ उपलक्षणमेतत् समीरणापूरितवस्तिप्रभृति व्यवस्थितं मण्डकादि / संप्रति वनस्पतिविषयं द्विविधमपि निक्षिप्तमाह। हरियाइ अणंतरिया, परंपरं पिठरगाइसु वराणम्मि। पूपाइ पिहिणंतर-भरये कुउवाइसु इयरा॥ वने वनस्पतिविषये अनन्तरनिक्षिप्त हरितादिषु सचित्तव्रीहिकाप्रभृतिषु अनन्तरिता निक्षिप्ता अपूपादय इति शेषः / हरितादीनामेवोपरिस्थितेष्वपि पिठरादिषु निक्षिप्ताः अपूपादयः परंपरनिक्षिप्तम् / तथा वलीवादीनां पृष्ठे अनन्तरनिक्षिप्ता अपूपादयः त्रसेष्वनन्तरनिक्षिप्तं वलीवादिपृष्ठ एव भरके कुतुपादिषु वा भाजनेषु निक्षिप्ता मोदकादयः परंपरनिक्षिप्तम् इह सर्वत्रानन्तरनिक्षिप्तं न ग्राह्य सचित्तसङ्गट्टनादिदोषसम्भवात् / परंपरनिक्षिप्तं तु सचित्तसंघट्टनादि परिहारेण यतनया ग्राह्यमिति संप्रदायः। उक्तं निक्षिप्तद्वारम् / अथ पिहितद्वारमाह। सचित्ते अचित्ते, मीसगपिहियम्मि होइचउमंगो। आगतिगे पडिसेहो, चरिमे भवम्मि भयणा उ॥ इह सचित्त इत्यादौ सप्तमी तृतीयार्थे ततोऽयमर्थः सचित्तेन अचित्तेन मिश्रेण वा पिहिते चतुर्भङ्गी भवति / अत्र जातावेकवच-नम् / तत्र तिसश्चतुर्भङ्गयो भवन्तीतिद्रष्टव्यम्। ततैका सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, तृतीया मिश्राचित्तपदाभ्याम्। तत्र सचित्तेन सचित्तं पिहितं, मिश्रेण, सचित्तं सचित्तेन मिश्र, मिश्रेण मिश्रमिति प्रथमा चतुर्भङ्गी। तथा सचित्तेन सचित्तं पिहितम् / अचित्तेन सचित्तं / सचित्तेनाचित्तम् अचित्तेनाचित्तमिति द्वितीया चतुर्भङ्गी। तथा मिश्रेण मिश्रं पिहितं, मिश्रेणाचित्तम् / अचित्तेन मिश्रम्। अचित्तेनाचित्तमिति / तृतीया। तत्र गाथापर्यन्तंतुशब्दवचनात्प्रथमचतुर्भङ्गयां सर्वेष्वपि भङ्गेषु न कल्पते द्वितीयतृतीयचतुर्भङ्गिकायास्तु प्रत्येकमादिमेषु त्रिषु भङ्गेषुन कल्पते इत्यर्थः / चरमे तुभने 'जनसोवगुरुणेत्यादिना' स्वयमेव वक्ष्यते। संप्रति चतुर्भङ्गीत्रयविषयावान्तरभङ्गकथनेऽतिदेशमाह।। जह चेव उ निक्खित्ते, संजोगा चेव होंति भंगा या। एमेव य पिहियम्मि वि, नाणत्तमिणं तइयभंगे। यथैव निक्षिप्ते निक्षिप्तद्वारे सचित्ताचित्तामिश्राणां संयोगाः प्रागुक्ता यथैव सचित्तपृथिवीकायस्योपरि निक्षिप्त इत्येवं स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयसङ्गेष्वेकैकस्मिन् भने षट्त्रिंशद्भेदाः सर्वसंख्यया चत्वारि शतानि द्वात्रिंशदधिकानि / तथात्रापि पिहितद्वारे द्रष्टव्याः / तथाहि प्रागिवात्रापि चतुर्भङ्गीत्रयम् एकै कस्मिंश्च भङ्गे सचित्तपृथिवीकार्य सचित्तपृथिवीकायेन पिहितम् / सचित्तपृथिवीकायेनावष्टब्धमण्डकादि सचित्त-पृथिवीकायानन्तरपिहितं, सचित्तपृथिवीकायगर्भपिठरादिपिहितादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशत् भेदाः सर्वसंख्यया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानाम् / नवरं द्वितीयतृतीयचतुर्भङ्गयोः प्रत्येकं तृतीये तृतीये भने अनन्तरपरं परमार्गणाविधौ निक्षिप्तद्वारादिकं वक्ष्यमाणनानात्वमवसेयं निक्षिप्ते अनेन प्रकारेणानन्तरपरंपरमार्गणा कृता अत्र त्वन्येन प्रकारेण करिष्यते इति भावः। तत्र सचित्तपृथिवीकायेनावष्टब्धं मण्डकादि सचित्तपृथिवीकायानन्तरपिहितं सचित्तपृथिवीका-यगर्भपिठरादिपिहितंसचित्तपृथिवीकायपरंपरमोदकादिसचित्ताप्कायानन्तरपिहितं हिमादिगर्भपिठरादिना पिहितं सचित्ताप्कायानन्तरपिहितं सचित्ततेजस्कायादिपिहितमनन्तरपरपरञ्च गाथाद्वयेनाह। अंगारधूवियाई, अणंतरो परंपरो सरावाई। तत्थेव अइरवाऊ, परपरं वस्थिणं पिहियं / / अइरं फलाइपिहियं, वणम्मि इयरं तु छय्वपिठराई। कत्थइ संचाराई, अणंतरो णंतरो छ8॥ इह यदा स्थाल्यादौ संस्वेदनादीनां मध्ये अङ्गार स्थापयित्वा हिंग्वादिना वासो दीयते तदा तेनाङ्गारेण केषाञ्चित् संस्वेदनादीनां