________________ एषणा 57 - अभिधानराजेन्द्रः - भाग 3 एषणा प्रथमचतुर्भङ्ग्याश्चतुर्थो भङ्गो व्याख्यातः सर्वसंख्यया प्रथम-चतुर्भङ्गयां चतुश्चत्वारिंशद्भङ्ग शतम् / एवमेव द्वयोरपि सचित्त-मिश्रयोरचित्तेषु निक्षिप्यमाणयोर्ये द्वे चतुर्भङ्गयौ प्रागुत्के तथाऽपि प्रत्येक चत्वारिंशद्भङ्ग शतं भवति सर्वसंख्यया भङ्गानां शतानि चत्वारि द्वात्रिंशदधिकानि भवन्ति / उक्ता निक्षेपस्य भेदाः / सं-प्रत्यस्यैव निक्षेपस्य पूर्वोक्तचतुर्भङ्गी त्रयमधिकृत्य कल्प्या-कल्प्यविधिमाह। जत्थ उ सचित्तमीसे, चउभंगो तत्थ चउसु वि भंगेसु। तंतु अणंतरइयं, परित्ताणं तं च वणकाए / / यत्र निक्षेपे सचित्तमिश्रे आदिचतुर्भङ्गी भवति / प्रथमा चतुर्भङ्गी भवतीत्यर्थः / तत्र चतुर्वपि भङ्गेषु अपिशब्दात् द्वितीयतृतीयचतुर्भङ्गयोरपि आद्येषु त्रिषु विभङ्गेषु वर्तमानममन्तरं परंपरा वा वनस्पतिविषये प्रत्येकमनन्तं वा तत्सर्वमग्राह्यं सामर्थ्यात् / द्वितीयतृतीयचतुर्भझ्याश्चतुर्थे चतुर्थभने वर्तमानंगाह्यांतत्रदोषाभावात्। संप्रति सचित्तादिभिस्त्रिभिरपि मतान्तरेणैकमेव चतुर्भङ्गीकल्प्याकल्प्यविधिं प्रदर्शयति। अइव ण सचित्तमीसो, से एगओएगउ अचित्तो। एत्थं चउक्कभंगो, तत्थाइचित्तए कहा नत्थि // अथवेति प्रकारान्तरताद्योतको णमिति वाक्यालङ्कारे इह चतुर्भङ्गीप्रतिपक्षपदोपस्थित्या (से) तस्य भवति / तत्र एकस्मिन् पक्षे सचित्तमिश्रे एकचतुष्पक्षे अचित्तः। ततः प्रागुक्तक्रमेण चतु-भङ्गी भवति तद्यथा सचित्तमिश्रे सचित्तमिदं सचित्तमिश्रे अचित्तम् अचित्ते अचित्तमिति / अत्रापि प्रागिव एकै कस्मिन् भने पृथियतेजोवायुवनस्पत्तिभेदात्। तत्र षट्त्रिंशभेदाः सर्वसंख्यया चतुश्चत्वारिंशदधिकं शतं तत्रादित्रिके आदिमे भङ्गत्रये कथा नास्ति ग्रहणे वार्ता न विद्यते सामर्थ्याच्चतुर्थो भङ्गः कल्पते / तदेवं "पुढवीत्यादि" स्थलमाद्ययोः पूर्वार्द्धम् व्याख्यातं / संप्रति “एक्के के दुहाणंतरमि" त्यवयवं व्याचिख्यासुर्द्वितीयचतुर्भङ्गयाः सत्कस्य तृतीयस्य भङ्ग स्य सामान्यतोऽशुद्धस्य विषये विशेष विभणिषुरनन्तरपरंपरया वा मार्गणां करोति। जं पुण अचित्तदवं, निक्खिप्पइ चेयणेसु दवेसु। तह मग्गणा उ इणमो, अणंतरपरंपरं होई॥ यत् किमपि अचित्तं द्रव्यमोदनादिचेतनेषु स चित्तेषु मिश्रेषुवा निक्षिप्यते तत्रेयमनन्तरं परंपरया वा मार्गणा परिभावनं भवति। ओमाहिगादणंतर-परपिठरगाइपुढवीए। नवणीयाइ अणंतर-परंपरा ताव माइंसु॥ अवमाहिगादि पक्वान्नं मण्डकप्रभृति पृथिव्यामनन्तरनिक्षिप्तं पृथिव्या एवोपरि स्थिते पिठरकादौ यन्निक्षिप्तमवग्गाहिमादि तत्परंपरानिक्षेप उक्तः। सम्प्रत्यप्कायमाश्रित्य "नदणीए'' इत्यादि नवनीतादि म्रक्षणस्थानीभूतघृतादिसचित्तादिरूपे उदके निक्षिप्तमनन्तरनिक्षिप्तं तदेव नवनीतादि वा अवगाहिमादि वा जलमध्यस्थेिषु नावादिषु स्थितं परंपरनिक्षिप्तम्। सम्प्रति तेजस्कायमधिकृत्यानन्तरे परंपरे व्याख्यानयन् "अगणिम्भि सत्तविहो" इत्याद्यवयवं व्याख्यानयति॥ विज्झायमम्मुरिंगा-लडेव अप्पत्तपत्तसमजाले। वोझते सत्त दुर्ग, जंतोलित्ते य जयणाए। इह सप्तधा वह्निस्तद्यथा विध्यातो, मर्मुरो, ऽङ्गारः, अप्राप्तः, प्राप्तः, I समज्वालो व्युत्क्रान्तश्च / तत्र यः स्पष्टतया प्रथमं नोपलभ्यते / पश्चारित्वन्धनप्रक्षेपे वृद्धिमपि गच्छति स व्युत्क्रान्तः / एते सप्त भेदास्तेजस्कायस्य। तत्र एकैकस्मिन् भेदे द्रिकं तद्यथा अनन्तरनिक्षिप्त परंपरनिक्षिप्तं च। तत्र यत् विध्यातादिरूपे वह्नौ मण्डकादि प्रक्षिप्यते तत् अनन्तरनिक्षिप्तम् यत्पुनररुपस्थापिते पिठरादौ क्षिप्तं तत्परंपरनिक्षिप्तम् तत्र सप्तानां भेदानां मध्ये यमेव तमेवाधिकृत्य यन्त्रेषु रसपाकस्थाने कटहादौ अवलिप्ते मृत्तिकाखरण्टिते यतनया परिसाटिपरिहारेण ग्रहणमिक्षुरसस्य कल्पते / संप्रत्येनामेव गाथां व्याख्यानयन् प्रथमतो विध्यातादीनां स्वरूपं गाथाद्वयेनाह। विज्झाउंति न दीसइ, अग्गी दीसेइ इंधणे बूढो। आपिंगलअगणिकणा, मम्मुरनिज्झालइंगाले / अप्पत्ता उ चउत्थे, जाला पिठरं तु पंचमे पता। छट्ठ पुण कन्नसमा, जालासमइत्थिया चरिमे। सुगमं नवरं (अप्पत्ता उ चउत्थे जाला इति) चतुर्थे अप्राप्ताख्ये भेदे पिठरमप्राप्ता ज्वाला द्रष्टव्याः। पञ्चमेत्यत्राप्यक्षरगमनिका कार्या। संप्रति (जं तोलिते य जयणाए) इत्यवयवं व्याचिख्या-सुराह। यं सो लित्तकडाहे, परिसाडी नत्थि तं पिय विसाल। सो विय अचिरबूढो, इच्छुरसो नाइउसिणो य / / इह यदीति सर्वत्राध्याहियते यत् यदि कटाहः पिठरविशेषः पिठरः पार्श्वेषु मृत्तिकया वा लिप्तो भवति। दीयमाने चेक्षुरसे यदि परिसाटिर्नोपजायते तदपि च कटाह रूपं भाजनं यदि विशालं विशालमुखं भवति / सोऽपि चेक्षुरसोऽचिरक्षिप्त इति कृत्वा यदि नात्युप्णो भवति तदा स दीयमान इक्षुरसः कल्पते। इह यदिदीयमानस्येक्षुरसस्य कथमपि विन्दुर्बहिः पतति तर्हि स लेप एव वर्त्तते न तु चुह्नीमध्यस्थिततेजस्कायमध्ये पतति ततः पार्शवलिप्त इति कटाहस्य विशेषणमुक्तम् / तथा विशालमुखादाकृष्यमाण उदञ्चनः पिठरस्य कर्णे न लगति। ततो न पिठरस्थ भग इति न तेजस्कायविराधनेति विशालग्रहणम्। अनत्युप्णग्रहणे तु कारणं स्वयमेव वक्ष्यति। संप्रत्युदकमधिकृत्य विशेषमाह। उसिणोदगं पिघेप्पइ, गुडरसपरिणामियं न अच्छुसियं / जंतु अघट्टियकंतं, फड्डिय पडणं पिमा अग्गी॥ उष्णोदकमपि गुडरसपरिणामितमनत्युष्णं गृह्यते। किमुक्तं भवति यत्र कटाहे गुडः पूर्व क्वथितो भवति तस्मिन् निक्षिप्तं जल-मीषत्तप्तमपि कटाहसंसक्तगुडरसमिश्रणात्सत्वरं सचित्तीभवति। ततस्तदनन्तरमपि कल्पते / अत्रापि पार्थावलिप्तकटा-हस्थितमपरिसाटिं मत्वेति विशेषणद्वय-मनुपात्तमपि द्रष्टव्यम् / तथायत् अघटितकर्ण न यस्मिन् दीयमाने पिठरस्य कर्णावुदञ्चनेन प्रविशता निर्गच्छता वा घट्ये ते तद्दीयमानः कल्प्यते इत्याह (फड्डियपडणं पि मा अग्गी) उदञ्चनेन प्रविशता निर्गच्छता वा पि ठरस्य कर्णयोर्घट्यमानयोर्लेपस्योदकस्य वा पतनेन नाग्नि-विराद्यतेति कृत्वा एतेन वक्ष्यमाणः षोडश-भङ्गानामाद्यो भङ्गो दर्शितः। संप्रति तानेव षोडशभङ्गान् दर्शयति। पासोलित्तकडाहे,नच्छुसिणो अपरिसाडिघट्टते। सोलसभंगविगप्पो, पढमे णुन्नान सेसेसु॥ पार्शवलिप्तः कटाहः अनत्युष्णो दीयमान इक्षुरसादिः अपरिसाटि: परिसाव्यभावः (अघट्टते इति) उदञ्चनेन पिठरकर्णाघट्टने इत्यन्तानि