________________ गंठिभेय ७८६-अभिधानराजेन्द्रः भाग-३ गंठिभेय स्थितिघातरसधातौ गुणश्रेणिर्वा न प्रवर्तन्ते, के वलमुक्तरूपा मणामनुभागचतुःस्थानकं सन्तं द्विस्थानकं करोति। शुभानां च कर्मणां द्विस्थानकं सन्तं चतुःस्थानकं करोति / तथा ध्रुवप्रकृतिसप्तचत्वारिंशत्सङ्ख्यया बनिन् परावर्तमानाः स्वस्वभावप्रायोग्याः प्रकृतीःशुभा एव बध्नाति। ता अप्यायुर्वर्जाः, अतिविशुद्धपरिणामो हि बन्धमारभते। यदुत तिर्यग्मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृतीबध्नाति / देवो नैरयिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्याः शुभाः प्रकृतीबंध्नाति। सप्तमनरकनारकः तियग्द्विकं नीचैर्गोत्रं बध्नाति, भवप्रायोग्यात्। बध्यमानस्थितिमन्तः सागरकोटाकोटिं बध्नाति, नाधिका, योगवशात् / प्रदेशाग्रमुत्कृष्टजघन्यमध्यगं च बध्नाति। स्थितिबन्धे पूर्ण सत्यन्यस्थितिबन्धं प्राक्तनस्थितिबन्धाऽपेक्षया पल्योपमासंख्येयभागन्यूनं करोति / ततः अन्यं पल्योपमासख्येयभागन्यूनं करोति / अतोऽन्य स्थितिबन्धं पूर्वपूर्वापेक्षया पल्योपमाऽसंख्येयभागन्यूनं करोति / अशुभानां च प्रकृतीनां बध्यमानानामनुभाग द्विस्थानकं बध्नाति / तमपि प्रतिसमयमनन्तगुणहीनं, शुभानां च चतुःस्थानकं प्रतिसमयमनन्तगुणवृद्धं कुर्वन करणं यथाप्रवृत्तं करोति, अपूर्वकरणं ततः अनिवृत्तिकरणमिति / करणं परिणामविशेषः / एतानि च त्रीण्यपि करणानि प्रत्येकमान्तमुहूर्तकानि। ततः उपशान्ताद्धां लभते, सापि चाऽऽन्तर्मुहूर्तकी यथाप्रवृत्तकरणं च। "अणुसमयं वदंतो, अप्पवसाणणंतगुणणाए। परणाममहाणाणं, दोसु वि लोगा असंखिज्जा // 1 // इति कर्मप्रकृतौ / प्रतिसमयमध्यवसानानामनन्तगुणतया विशुद्ध्या वर्धमानानां करणसमाप्ति यावत् वर्धते। ते कियन्ति अध्यवसानानि भवन्ति / द्वयोरपि यथाप्रवृत्त्यपूर्वकरणयोः परिणामस्थानानामनुसमयं लोकाऽसंख्येया भवन्ति / यथाप्रवृत्तकरणे अपूर्वकरणे च प्रतिसमयेऽसङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणानि अध्यवसा-यस्थानानि भवन्ति / तथाहि यथाप्रवृत्तकरणे प्रथमसमये विशोधिस्थानानि नानाजीवापेक्षया असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि, द्वितीयसमये विशेषाधिकानि, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं यावचरमसमयः / एवमपूर्वकरणेऽपि द्रष्टव्यम् / अनि चाध्यसायस्थानानि यथाप्रवृत्ताऽपूर्वकरणयोः संबन्धीनि स्थाप्यमानानि विषमचतुरस्त्रं क्षेत्रमावरणन्तिा तयोरुपरिचाऽनिवृत्तिकरणाध्यवसायानि मुक्तावलीसंस्थानि उपर्युपरि अमूनि अनुचिन्त्यमानानि प्रतिसमयमनन्तगुणवृद्ध्या प्रवर्तमानान्यवगन्तव्यानि तिर्यक्षट्स्थानपतितानि। इह कल्पनया द्वौ पुरुषौ युगपत् करणप्रतिपन्नौ विवक्ष्येते / तत्रैकः सर्वजघन्यया श्रेण्या प्रतिपन्नः, अपरः सर्वोत्कृध्या विशोध्या / प्रथमजीवस्य प्रथमसमय मन्दा, द्वितीयसमये अनन्तगुणा, तृतीयेऽनन्तगुणा, एवं यावत् यथाप्रवृत्तकरणस्याऽसंख्येयभागो गतो भवति। ततः प्रथमसमये द्वितीयस्य जीवस्य उत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यम्। ततोऽपि द्वितीये उत्कृष्टा विशोधिरनन्तगुणा, तत उपरि जघन्यविशोधिरनन्तगुणा, एवमुपर्यधश्च एकैकं विशोधिस्थानमनन्तगुणं द्वयोर्जीवयोस्तावज्ज्ञेयं यावच्चरमसमये जघन्या विशोधिः / तत आचरमात् चरममभिव्याप्य यानि अमुक्तानि शेषाणि उत्कृष्टानि स्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि। तदेवं समाप्तं | यथाप्रवृत्तकरणम् / अस्य च यथाप्रवृत्तकगणस्य पूर्वप्रवृत्तं द्वितीयं नाम शेषकरणाभ्यां पूर्व प्रथम प्रवृत्तं पूर्वप्रवृत्तमिति। अस्मिंश्च यथाप्रवृत्तकरणे तेषामनुभागं द्विस्थानकं बध्नाति। यानि च शुभानि येषां चतुःस्थानकं स्थितिबन्धेऽपि च पूर्णे पूर्ण सत्यन्यं स्थितिबन्धं प्रल्योपमसंख्येयभागन्यूनंच बध्नाति। संप्रत्यपूर्वकरणमभिधीयते--"वीयस्सवीयसमये, सहण्हमविअणंतरुक्कस्सा'' इत्यादिवचनात्। द्वितीयस्याऽपूर्वकरणस्य यो द्वितीयः समयः कृतजघन्यमपि विशोधिस्थानाद् अनन्तगुणं वक्तव्यम् / एतदुक्तं भवति, नेह यथाप्रवृत्तकरणवत् प्रथमतो निरन्तरं विशोधिस्थानमनन्तगुणं वक्तव्यं, किन्तु प्रथमसमये प्रथमतो जघन्या विशोधिः सर्वस्तोका, सापि च यथाप्रवृत्तकरणचरमसमयवत् तावद् उत्कृष्टाद् विशोधिस्थानात् अनन्तगुणा / ततः प्रथमसमये एवोत्कृष्टा विशोधिरनन्तगुणा, ततोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा, ततोऽपि तस्मिन्नव द्वितीयसमये उत्कृष्टा विशोधिरनन्तगुणा, एवं प्रतिसमये तावद् वाच्यं यावचरमसमये उत्कृष्टा विशोधिः / अपूर्वाणि करणानि स्थितिघातरसघातगुणश्रेणिस्थितिबन्धादीनि वर्तनानि यस्मिन् तत् अपूर्वकरणम्। तथाहि-अपूर्वकरणे प्रविशन् प्रथमसमयमेव स्थितिघातं रसघातं गुणश्रेणिस्थितिबन्धं चान्यं युगपदारभते / तत्र स्थितिघातः स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षत उदधिपृथक्त्वप्रमाणं, जघन्येन पुनः पल्योपमसङ्खयेयभागमानं स्थितिकण्डकमुत्किरति। उत्कीर्य च या स्थितिः अधो न खण्डयिष्यति तत्र तद्दलिक प्रक्षिपति अन्तर्मुहूर्तेन कालेन, तत् स्थितिकण्डकमुत्कीर्यते / एवं द्वितीयम्, एवं तृतीयम्, एवं प्रभूतानि स्थितिखण्डसहस्त्राणि व्यतिक्रामन्ति / तथा च सति यद् अपूर्वकरणस्य प्रथमसमये सत्कर्माऽऽसीत् तत् तस्यैव चरमसमये सङ्ख्येयगुणहीनं जातम्। रसघाते तु अशुभानां प्रकृतीनां यद् अनुभागसत्कर्म तस्यानन्ततमं भाग मुक्त्वा शेषाननन्तानुभागभागान् अन्तिमवृत्तेन विनाशयति। ततः पुनरपि तस्य प्रागुक्तस्यानन्ततमं भागं शेषाद् विनाशयति / एवमनेकानि अनुमागखण्डसहस्त्राणि एकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति / तेषां च स्थितिकण्डानां सहस्त्रे द्वितीयमपूर्वकरण परिसमाप्यते। स्थितिबन्धाद्वा तु अपूर्वकरणस्य प्रथमसमये अन्य एव अपूर्वपल्योपमसङ्ख्येयभागहीनस्थितिबन्ध आरभ्यते 1 जीर्णस्थितिघातस्थितिबन्धौ तु युपषदेवारभ्येते, युगपदेव निष्ठां यातः। गुणश्रेणिस्तु "गुणसेढी निक्खेवो, समये असंखगुणणाए। अद्वादुगाइरित्तो, सेसे सेसे य निक्खेयो' ||1|| भाविताच घातिस्थितिखण्डमध्याइलिकं गृहीत्वा उदयसमयात् प्रतिसमयमसंख्येयगुणतया निक्षिपति। प्रथमसमये स्तोक, द्वितीयसमये असङ्घयेगुणं, तृतीयसमये असंख्येगुणम्, एवं यावच्चरमसमयः / एष प्रथमसमयगृहीतदलिकनिक्षेपविधिः, एवं द्वितीयादिसमयगृहीतानामपि। इत्यनेन प्रथमसमय स्तोकः, द्वितीयसमये असङ्खयेयगुणःतृतीयसमये असंख्येगुण-श्रेणिदलिकनिक्षेपो भवति / इति अपूर्वकरणस्वरूपम्। अनिवृत्तकरणे एतदुक्तं भवति / अनिवृत्तकरणस्य प्रथमसमयेऽपि ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषामपि समाना एकरूपा विशोधिः। द्वितीयसमयेऽपि येवर्तन्ते, येच वृत्ता, येच वर्तिष्यन्तेतेषामपि समा विशोधिः। एवं सर्वेष्वपि समयेषु / नवरं पूर्वतः उपरितनेऽनन्तगुणाऽधिका विशोधि चरमसमयं यावदस्मिन् करणे प्रविष्टानां तु