________________ गंहि ७५५-अभिधानराजेन्द्रः भाग-३ गंद्रि ख्येयभागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति। अत्र चान्तरे जीवस्य कर्मजनितो घनरागद्वेषपरिणामरूपः कर्कशनिबिमचिरप्ररूढगुपिलवक्रग्रन्थिवद्दुर्भेदोऽभिन्नपूर्वो ग्रन्थिर्भवति। तदुक्तम्"तीए विथोवमित्ते, खविए इत्थंतरंमि जीवस्स ! हवइ हु अभिन्नपुव्वो, गट्ठी एवं जीणा विति॥१॥ गंठि त्ति सुदुडभेओ, कक्खडघणरूढगूढगंठिव्व। जीवस्स कम्मजणिओ, धणरागदोसपरिणामो॥२॥ इति। इमं च ग्रन्थिं यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा अनन्तशः समागच्छन्ति / उक्तं आवश्यकटीकायाम्-अभव्यस्यापि कस्यचिद्यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवतिन शेषलाभ इति / एतदनन्तरं कश्चिदेव महात्मा समासन्नपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुर्निवारषीर्यप्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूपस्य ग्रन्थेर्भेदं विधाय मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणलक्षणविशुद्धिजनितसामोऽन्तर्मुहूर्त्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति / अत्र यथाप्रवृत्तिकरणाऽपूर्वकरणाऽनिवृत्तिकरणानामयं क्रमः"जा गंठी ता पढम, गंठिं समइच्छओ भवे बीयं। अणियट्टीकरणं पुण, संमत्तपुरक्खडे जीवे " // 6 // (गंट्ठि समइच्छओ त्ति) ग्रन्थिं समतिक्रामतो भिन्दानस्येति / (संमत्तपुरक्खडे त्ति) सम्यक्त्वं पुरस्कृतं येन तस्मिन्नासन्नसम्यक्त्वे जीवे अनिवृत्तिकरणं भवतीत्यर्थः / एतस्मिँश्चान्तकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति / अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा। तस्मादेवान्तरकरणादुपरितनी शेषा द्वितीया स्थितिः स्थापना / तत्र प्रथमस्थितौ मिथ्यात्वदलिवेदनादसौ मिथ्यावृष्टिरेव / अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमवाप्नोति, मिथ्यादलिकवेदनाभावात् / यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायतितथा मिथ्यात्ववेदनवनदवोऽप्यन्तरकरणमवाप्य विध्यायति। तथा च सति तस्यौपशमिकसम्यक्त्वलाभः / यदाहुः श्रीपूज्यपादाः"ऊसरदेसंदड्डिल्लयं च विन्भाइवणदवो पप्प। इअमिच्छस्स अणुदए, उवसमसम्मलहइजीवो" // 1 // इति व्यावर्णितं ग्रन्थिभेदसंभवमौपशमिकसम्यक्त्वम्। कर्म०४ कर्म०। ततः किमित्याहभिन्नम्मितम्मि लाभो, सम्मत्ताईण मोक्खहेऊणं। सोय दुलभो परिस्सम-चित्तविघायाइविग्घेहिं / / 1166 // तस्मिन् ग्रन्थौ भिन्ने क्षपयित्वा समतिक्रान्ते मोक्षहेतुभूतानां सम्यक्त्वादीनां लाभो भवति / स च ग्रन्थिभेदो मनोविघातपरिश्रमादिविघ्नैरतिदुर्लभो अतिशयेन दुष्करः, तस्य हि जीवस्य ग्रन्थिभेदं चिकीर्षोर्विद्यासाधकस्येव विभीषिकादिभ्यो मनोविधातो मनःक्षोभो भवति, प्रचुरदुर्जयकर्मशत्रुसंघातजयाश्च महासमरगतसुभटस्येव परिश्रमश्चातिशयेन संजायत इति। एतदेवाह-- सो तत्थ परिस्सम्मइ, घोरमहासमरनिग्गयाइ व्व। विजा य सिद्धिकाले, जह बहुविग्घा तह सो वि // 1197 // | सजीवस्तत्र ग्रन्थिभेदे प्रवृत्तो घोरमहासमरशिरसि दुर्जयापाकृताऽनेकशत्रुगणसुभट इव, आदिशब्दाद् महासमुद्रादितारकवत् परिश्राम्यति / यथा च सिद्धिकाले विद्या बहुविघ्ना संपद्यते साधकस्योपसर्गेमनः क्षोभ जनयति, तथा सोऽपि ग्रन्थिभेद इति। . अथ प्ररकः प्राहकम्मट्ठिई सुदीहा, खविया जइ निग्गुणेण सेसं पि। सखवेउ निग्गुणो चिय, किं पुणो दंसणाईहिं / / 1198 // यदि ग्रन्थिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनैवानेन जन्तुना सुदीर्घा द्राघीयसी कर्मस्थितिः क्षपिता, तर्हि शेषमपि कसिौ सम्यक्त्वादिगुणशून्य एव क्षपयतु, ततो मोक्षमप्येवमेवासादयतु: किंपुनः सम्यग्दर्शनादिगुणैस्तद्धेतुभिर्विकल्पितैः ? इति। अत्रोत्तरमाहपाएण पुष्वसेवा, परिमउई साहणम्मि गुरुतरिया। होइ महाविजाए, किरिया पायं सविग्धा य॥११६६|| तह कम्मट्ठिइखवणे, परिमउई मोक्खसाहणे गुरुई। इह दंसणाइकिरिया, दुलहा पायं सविग्घा य // 1200 / महाविद्यासाधनवदेतद् द्रष्टव्यम् / यथा महाविद्यायाः सिसाधयिषितायाः प्रायः पूर्वसेवा नातिगुर्वी, किन्तु परिमृद्वी / भवति, तत्साधनकाले तु या क्रिया सा गुरुतरा अतिगरीयसी भवति, सविघ्ना च प्रायः संजायते / / विशे० / / ग्रन्थिभेदेनात्यन्तसंक्लेश इति / इह ग्रन्थिरिव ग्रन्थिइँदो रागद्वेषपरिणामः, तस्य ग्रन्थर्भेदे अपूर्वकरणवज्रसूच्या विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसामर्थ्यान्नात्यन्तं न प्रागिवातिनिविडतया संक्लेशो रागद्वेषपरिणामः प्रवर्तते / नहि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्ध्रोऽपि प्रागवस्था प्रतिपद्यत इति। एतदपि कुतः? इत्याह-न भूयस्तद्वन्धमिति। यतो न भूयः पुनरपितस्य ग्रन्थेबन्धनं निष्पादनं भेदे सतिसंपद्यत इति। किमुक्त भवति? यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वानां स्थितिरन्तः सागरोपमकोटीकोटिलक्षणाऽवशिष्यते तावत्प्रमाणेमेवासौ सम्यगुपलब्धसम्यग्दर्शनो जीवः कथञ्चित् सम्यक्त्वापगमात्तीव्रायामपितथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं बन्धेनामिक्रामतीति॥ध०१अधि० / ग्रन्थिच्छेदे, रा०॥ अथ ग्रन्थिभेदस्वरूपम्-तत्र पञ्चेन्द्रियत्वसंज्ञित्वपप्तित्वरूपा-भिस्तिसृभिः लब्धिभिर्युक्तः / अथवा उपशमलब्धिः उपदेशश्रवणलब्धिकरणत्रयहेतुप्रकृष्टयोलब्धित्रिकयुक्तः। करणकालात् पूर्वमपि अन्तर्मुहूर्तकालं यावत् प्रतिसमयमनन्तगुणवृद्ध्या विशुद्भया विशुध्यमानोऽवदायमानचित्रसन्ततिः / ग्रन्थिकसत्त्वानामभव्यसिद्धिकानां या विशोधिस्तामतिक्रम्य वर्तमानः / ततोऽनन्तगुणविशुद्धः / अन्यतरस्मिन् मतिश्रुतविभङ्गान्यतमस्मिन् साकारोपयोगे चान्यतमस्मिन् वर्तमानस्तिसृणां विशुद्धानां लेश्यानामन्यतमस्यां लेश्यायां वर्तमानः, जघन्यतस्तेजोलेश्यायां मध्यमपरिणामेन पद्मलेश्यायामुत्कृष्टपरिणामेन शुक्ललेश्यायाम्। तथाऽऽयुर्वर्जानां सप्तानां कर्मणां स्थितिमन्तःसागरोपमकोटाकोटीप्रमाणां कृत्वा अशुभानां क