________________ गंगा ७८४-अभिधानराजेन्द्रः भाग-३ गंगा रजतं प्रतीतं, तन्मयी वालुका यस्मिन् तत्तथा / वडूर्यमणिमयानि स्फटिकरत्नसंबन्धिपटलमयानि प्रत्यवटानि तटस मीपवर्त्यभ्युन्नतप्रदेशा यस्य तत् तथा सुखेनावतारो जलमध्ये प्रवेशनं यस्मिन् तत्तथा / सुखेनोत्तारो जलमध्या बहिर्विनिर्गमनं यस्मिन् तत्तथा। ततः पूर्वपदेन विशेषणसमासः / तथा नानामणिभिः सुबद्धं तीर्थं यत्र तत्तथा / अत्र बहुव्रीहावपिक्तान्तस्यपरनिपातो, भार्यादिदर्शनात, प्राकृतशैलीवशाद्वा। तेथा वृत्तं वर्तुलम् आनुपूर्येण क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्ठ अतिशयेन यो जातो वप्रः केदाराजलस्थानं तत्र गम्भरीमलब्धस्ताचं जलं यस्मिन् तत् तथा संछन्नानिजलेनान्तरितानि पत्रबिसमूणालानि यस्मिन् तत्तथा / अत्र बिसमृणालसाहचर्यात् पत्राणि पद्मिनिपत्राणि द्रष्टव्यानि बिसानि कन्दाः, मृणालानि पद्मनाभानि / बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहपुण्डरिकशतपत्रसहस्त्रत्रशतसहस्त्रपत्राणां प्रफुल्लानां विकस्वराणां करैः किञ्जक्लैरुपशोभितं भृते, विशेषणस्य व्यस्ततया निपातः, प्राकृतत्वात् / षट्पदैर्भमरेः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्मिन् तत्तथा। अच्छेन स्वरूपतः स्फटिकवत् शुद्धन् विमलेनागन्तुकमलरहितेन पथ्येनारोग्यकारणेन सलिलेन पूर्णम्। तथा (पडिहत्था) अतिप्रभूता, देशी शब्दोऽयं; भ्रमन्तो मत्स्यकच्छपा यत्र तत्तथा / अनेकशकुनिमिथुनकानां प्रविचरितमितस्ततो गमनं यत्र तत्तथा ! ततः पूर्वपदेन विशेषणसमासः। तथा शब्दोन्नतिक उन्नतशब्दकं, सागसादिजलचररुतापेक्षया, मधुरस्वरं च हंसभ्रमरादिकूजितापेक्षया, एवंविधं नादितं पलितं यत्र तत्तथा / अत्र च यत् कानिचिद्विशेषणानि प्रस्तुतसूत्रदृश्यमानादर्शापेक्षया व्यस्ततया लिखितानि सन्ति तज्जीवाभिगमवाप्यादिवर्णकसूत्रस्य बहुसमानगमनकतया तदनुसारेणेति बोध्यम्, एवमन्यत्रापि / (पासाईए त्ति) अनेन 'पासाईए दरिसणिज्जे अभिरुवे पडिरूवे" इति पदचतुष्टयं ग्राह्यं, तच्च प्राग्वत् / अथात्र पद्मवरवेदिकादिवर्णनायाह-(से णं) इत्यादि व्यक्तम्। अत्र मुखावतारोत्तारौ कथं भवतः? इत्याह-(तस्सणं) इत्यादि।तस्य गङ्गाप्रतापकुण्डस्य त्रिदिशि दिक्त्रये वक्ष्यमाणलक्षणे त्रीणि सोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतद्व्याख्या प्राग्वत्, शेषं व्यक्तम् / (तेसिणं) इत्यादि / व्यक्तं, जगतीवर्णकतुल्यत्वात्। नवरम्-(आलंबणा) अवतारोत्तारयोरालम्बनहेतूभूताः अवलम्बनबाहावयवाः, अवलम्बन-बाह्या नाम द्वयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः / (तेसिणं) इत्यादि। तेषां त्रिसोपानप्रतिरूपकाणांपुरतः प्रत्येकं प्रत्येकं तोरणानि प्रज्ञप्तानि। तानि तोरणानि नानामणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि सामीप्येन स्थितानि तानि च कदाचिचलानि स्थानभ्रष्टानीत्यर्थः / अथवा पदप्रतीतानि भवेयुरिति सन्निविष्टानि सम्यग् निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः / विविधा नाना विच्छित्तिकलितामुक्ताफलानि, अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति / (अंतरांतरोवइआ) आरोपिता यत्र तानि / तथा विविधैस्तारारूपैस्तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थ तारिकाणि बध्यन्ते इति प्रतीतं लोकेऽपि / ईहामृगाः वृकाः, ऋषभा वृषभाः, व्याला भुजङ्गाः, रुरवो मृगविशेषाः, शरभा अष्टापदाः, चमराः आटव्या गावः वनलता अशोकादिलताः प्रतीताः पद्मलताः पद्मिन्यः , शेष प्रतीतम् एतासां भक्तयो विच्छिन्ना याभिस्ताभिश्चित्राणि। / स्तम्भोगतया स्तम्नोपरिवर्तिन्या वज्रवेदिकया परिगतानि परिकरितानि सन्ति यानि अभिरामाणि अभिरमणीयानि तानि तथा / विद्याधरयोविशिष्टशक्तिमत्पुरुषविशेषयोर्यमलं समश्रेणिकं युगलं द्वन्द्वं तेनेव यन्त्रेण संचरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्तानि, आर्षत्वाच्चैवंविधः समासः। अथवा प्राकृतत्वेन तृतीयालोपात् / विद्याधरयमलयुगलेन वेति, शेष पूर्ववत् / अचिषां मणिरत्नप्रभाणां सहस्वैर्मालनीयानि परिवारणीयानि रूपकसहस्त्रकलितानीति स्पष्टम् / भशमत्यर्थं मानं प्रमाणं येषां तानि तथा / (भिडिभसमाण त्ति)"भासेर्भिसः" 8 | 41203 / इत्यनेन भिसादेशे प्रकृष्टार्थप्रत्यये रूपसिद्धिः / अत्यर्थं देदीप्यमानानि लोकने सति चक्षुषोलेशः श्लेषो यत्र तानि, त्रिपदो बहुव्रीहिः। पदविपर्यासः प्राकृ तत्वात, शेषं सुबोधम् / नवरं घण्टावलेतिवशेन चलिताया मधुरो मनोहरश्च स्वरो येषु तानि तथा / (तेसिणं) इत्यादि। अस्य व्याख्या प्राग्वत् / (तेसिणं) इत्यादि। तेषां तोरणानामुपरि बहवः कृष्णचामरध्वजाः,एवं नीलचामरध्वजादयोऽपि वाच्याः,तेच सर्वेऽपि कथंभूताः? इत्याह-अच्छा आकाशस्फटिकवदतिनिर्मलाः,श्लक्ष्णाः 'लक्ष्णपुगलस्कन्धनिर्मापिताः, रूप्यमया वज्रमयस्य दण्डस्योरिपादायेषां ते तथा। वजमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते तथा / जलजानामिव जलजकुसुमानां पद्मादीनामिवाऽमलो, न तु कुद्रव्यगन्धसन्निभो यो गन्धः स विद्यते येषां ते जलजामलगन्धिकाः / "अतोऽनेकस्वरात्"७।२। 6 / इति (हैम०) इकप्रत्ययः / अत एव सुरम्याः (पासाईआ) इत्यादि प्राग्वत् / (तेसिणं) इत्यादि / अस्य व्याख्या प्राग्वत् / अथ गङ्गाद्वीपवक्तव्यतामाह-(तस्स गंगप्पवाय) इत्यादि / तस्य गङ्गाप्रपातकुण्डसय बहुमध्यदेशभागेऽत्र महानेको गङ्गादेव्या वासभूतो द्वीपो 'गङ्गाद्वीप' इति नाम्ना द्वीपः प्रज्ञप्तः, मध्यलोपिसमासात् साधुः। अष्टौ योजनान्यायामविष्कम्भेण सातिरेकाणि पञ्चविशति योजनानि परिक्षेपेण द्वौ कौशौ यावदुच्छितौ जलं तावत् जलपर्यन्तात् सर्वतोवर्तिजलस्य जलेनावृतस्य क्षेत्रस्य द्वीपव्यवहारात्। शेष व्यक्तम्। (सेणं) इत्यादि। स गङ्गाद्वीप एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वर्णकश्य भणितव्यो जगतीपद्मवरवेदिकावदिति / अथ तत्र यद्यदस्ति तदाह-(गंगादीवस्स णं) इत्यादि। गङ्गाद्वीपस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः। तस्य बहुमध्यदेशभागे अत्रान्तरे गंगाया देव्या महदेकं भवनं प्रज्ञप्तम् / आयामादि विभागादिकं शय्यावर्णकपर्यन्तं सूत्रं सव्याख्यानं श्रीभवनानुसारेण ज्ञेयम् / अथ तामन्वर्थं पृच्छति (से केणटेणं) इत्यादि / व्यक्तम्। अथ गङ्गा यथा समुपसर्पति तथाह-(तस्स णं) इत्यादि / तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रव्यूढा निर्गता सती गङ्गा महानदी उत्तरार्द्धभरतवर्ष इयूती इयूती गच्छन्ती गच्छन्ती सप्तभिः सलिलानां नदीनां सहस्त्रैरापूर्यमाणा अपूर्यमाणा भ्रियमाणा भ्रियमाणा अधः खण्डप्रपातगुहाया वैताट्यपर्वतं दारयित्वा भित्त्वा दक्षिणार्द्धभरतं वर्ष इयूती इयूती दक्षिणार्द्धभरतवर्षस्य बहुमध्यदेशभागं गत्वा पूर्वाभिमुखा आवृत्ता सती चतुर्दशभिः सलिलासहस्त्रैः समग्रा सम्पूणी आपूर्यमाणा इत्यर्थः / अधोभागे जगतीं जम्बूद्वीपप्राकारं दारयित्वा पूर्वेण लवणसमुद्रं समुपसर्पति अवतरतीत्यर्थः / अथास्या एव प्रवाहमुखयोः पृथुत्वोद्वेधो दर्शयति (गंगाणं) इत्यादि। गंगा महानदी प्रवहै यतःस्थानात् उद्घोढुंप्रवर्तते स प्रवाहः / पद्मद्र हतोरणान्निर्गम इत्यर्थः / तत्र षट् सक्रोशानियोजनानि