________________ ७८३-अभिधानराजेन्द्रः भाग-३ गंगा इआ विविहतारारूवोवचिआ ईहामिअउसहतुरगणरमगरवि- / हगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलभत्तिचित्ता खंभुग्यवहरवेइअपरिगयामिरामा विज्जाहरजमलजुअलजंतजुत्ता विवअचीसहस्समालणिआ रूवगसहस्सकलिआ मिसमाणा भिन्भिसमाणा चक्खुल्लोअणलेसा सुहफासा सस्सिरीअरूवा घंटावलिचलिअमहुरमणहरसरापासादीआ४। तेसिणं तोरणाणं उवरि बहवे अट्ठट्ठमंगलगा पण्णत्ता / तं सोच्छियसिरिवच्छ० जाव पडिरूवा। तेसिणं तोरणाणं उवरि बहवे किण्हचामरब्भया० जाव सुक्किलचामरव्भया अच्छा सण्हा रूप्पपट्टा वइरामयदंड जलयामलगंधिया सुरम्मा पासाईआ। तेसिणं तोरणाणं उप्पिं बहवे छत्ताइच्छत्ता पडागाइपडागा घंटाजुअला चामरजुआलउप्पलहत्थगा पउमहत्थगा० जाव सयसहस्सपत्तहत्थगा सव्वरयणामया अत्था० जाव पडिरूवा। तस्स णं गंगाप्पवायकुंडस्स बहुमज्झदेसभाए / एत्थ णं महं एगे गंगादीवे णामंदीवे पण्णत्ते अट्ठजोअणाइं आयामविक्खंभेणं साइरेगाइं पणवीसं जोअणाई परिक्खेवेणं दोकोसउसिए जलंताओ सटववइरामए अच्छे सण्हे / से णं एगाए पउमवरवेइआए एगेण य वणसंडेण सव्वओ समंतासंपरिक्खत्ते वण्णओ भाणिअटवो / गंगदीवस्स णं दीवस्स उप्पिं बहुसमरणिज्जे भूमिमागे पण्णत्ते / तस्स णं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पण्णत्ते / कोसं आयमेणं अद्धकोसं विक्खंभेणं देणंगकोसं उड्डं उच्चत्तेणं अणेगखंभसयसणिनिवढे० जाव मज्झदेसभाए मणिपेदिआए। सयणिज्जे से केण?णं०जाव सासऐणामघेज्जे पण्णत्ते / तस्स णं गंगप्पवायकुंडस्स दक्खिणिल्लेणं तोरणेणं गंगामहाणई पटवूढा समाणी उत्तरतभरहवासए जेमाणी जेमाणी सत्तहिं सलिलासहस्सेहि आउरेमाणी अउरेमाणी अहे खंडप्पवायगुहाए वेअट्टपब्वयं दालइत्ता दाहिणभरहवासए जेमाणी जेमाणी दाहिणभरहवासत्थ बहुमज्झदेसभागं गंता पुरच्छाभिमुही आवत्ता समाणी चोइसहिं सलिलासहस्सेहिं समाणा अहेज्जगई दालइत्ता पुरच्छिमेणं लवणसमुई समुप्पेइ गंगा णाम महाणई। पवहेच्छस्स कोसाईजोअणाई विक्खंभेणं अद्धकोसं उध्वेहेणं, तयणंतरं च णं मायाए मायाए परिवट्टमाणी परिवट्टमाणी मुहे वा सढि जोअणाई अद्धजोअणं च विक्खंभेणं सकोसं जोअणं उब्वेहेणं उभओ पासिंदोहिं पउमवरवेइआहिंदोहिं वणसंडेहिं संपरिकत्ता वेझ्या वणसंडवण्णओ भाणियव्यो। (तस्स णं) इत्यादि। तस्य पद्मद्रहस्य पौरस्त्येन तोरणेन गङ्गानाम्नी महानदी स्वपरिवारभूतचतुर्दशसहस्त्रनदीसंपदुपेतत्वेनस्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी, एवं सिन्ध्वादिष्वपिज्ञेयम्। प्रव्यूढा निर्गता सती पूर्वाभिमुखी पञ्चयोजनशतानि पर्वतेन पर्वतोपरीत्यर्थः / अथवा णं इति प्राग्वत्, पर्वते गत्वा गङ्गावर्तननाम्नि कूटे, अत्र सामीप्ये सप्तमी। 'वटे गावः सुशरते' इत्यादिवत् / गङ्गावर्तनकूटस्याधस्तादावृत्ता सती | प्रत्यावृत्येत्यर्थः / पञ्चयोजनशतानि त्रयोविंशत्यधिकानि श्रींश्चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महान् यो घटस्तन्मुखादिव प्रवृत्तिर्निर्गमो यस्य स तथा तेन / अयमर्थः-यथा घटमुखाज्जलौघो निर्यन् 'खुभिखुभीति' शब्दायमानो बलीयाँश्च निर्याति तथाऽयमपीति। मुक्तावलीनां मुक्तासरीणां यो हारस्तत्संस्थितेन तत्संस्थानेनेत्यर्थः, सातिरेकं योजनशतं क्षुद्रहिमवच्छिखरतलादारभ्य दशयोजनोद्वेधप्रपातकुण्डं यावद्धारापातो मानं यस्येति सातिरेकयोजनशतिकस्तेना तथा प्रपातेन प्रपतज्जलौधेन, अत्र करणे तृतीया, प्रपतति प्रपातकुण्ड प्राप्नोतीत्यर्थः / प्रदक्षिणाभिमुखगमनपञ्चयोजनशतादिसंख्यात्वे च हिमवद्भिरिव्यासात् योजन 1052 कला 12 रूपात् गङ्गाप्रवाहव्यासे योजन 6 क्रोश 1 प्रमिते शोधिते, शेष 1046 क्रोशेतु पादोनं कलापञ्चकं, तत्कलाद्वादशकात्शोध्यं, ततः शेषाः सप्त सपादाः कलाः / गङ्गाप्रवाह: पर्वतस्य मध्यभागेन पद्मद्रहाद्विनिर्याति, तेनास्या दक्षिणाभिमुखगङ्गाप्रवाहो न गिरिव्यासार्द्धस्य, गन्तव्यत्येन गडाव्यासो न गिरिव्यासः योजन 1046 कलासपादसप्त 7 रूपोऽद्धीक्रियते। जातं यथोक्तं योजन५२३ कला 3 / यद्यप्यत्र कलात्रिकं किं चित् समधिकार्द्धयुक्तमायाति तथाप्यल्पत्वान्न विवक्षितमिति / अथ जिलिकाया अवसरः (गङ्गा महाणई जओ पवडइ इत्थ णं) इत्यादि। गङ्गा महानदी यतः स्थानात् प्रपतति, अत्रान्तरे महती एका जिलिका प्रणालापरपर्याया प्रज्ञप्ता / (साणं) इत्यादि / सा जिलिका अर्द्धयोजननमायामेन षट् सक्रोशानि योजनानि विष्कम्डेन गङ्गामूलव्यासस्य मातव्यत्वात् अर्द्धक्रोशं बाहल्येन पिण्डेन विवृतं प्रसारितं यन्मकरमुखं जलचरविशेषमुखं तत्संस्थानसंस्थिता, विशेषणस्य परनिपातः प्राग्वत्। सर्वात्मना वज़मया इत्यादिकत्वम् / अथ प्रपातकुण्डस्वरूपमाह-(गंगा महाणई) इत्यादि / गङ्गा महानदी यत्र प्रपतति, अत्रान्तरे महदेकं गंगाप्रपातकुण्ड नाम यथार्थनामकं प्रज्ञाप्त कुण्डं षष्टियोजनान्यायामविष्कम्भाभ्याम्। अत्र करणविभावनायां मूले "पणासं जोअणवित्थारो 50 उवरिं सट्ठा 60" इति विशेषोऽस्ति। श्रीउमास्वातिवाचककृतजम्बूद्वीपमसमास-सूत्राटावपि तथैव। इत्थं च कुण्डस्य यथार्थनामतोपपत्तिरपि भवति / एवमन्येष्वपि यथायोगं ज्ञेयमिति / तथा नवतिं नवत्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण श्रीजिनभद्रगणिक्षमाश्रमणपादाः स्वोपज्ञक्षेत्रविचारसूत्रे "आयामो विक्खंभो, सहि कुंडस्स जोअणा हुंति / नउअसयं किंचूर्ण, परिही दसजोअणोगाहो" ||1|, इत्यूचुः / तवृत्तावपि श्रीमलयगिरिपादास्तथैव कणरीत्यापि तथैवागच्छन्ति, तेन प्रस्तुतसूत्रं गम्भीरार्थं बहुश्रुतैर्विचार्य, नाऽस्मादृशां मन्दमेधसां मतिप्रवेश इति। यद्वा प्रस्तुतसूत्रं पद्मवरवेदिकासहितकुण्डपरिधि-विवक्षया प्रवृत्तमिति संभाव्यते, तेन न दोषस्तत्त्वं तु केवलिगम्यमिति। दशयोजनान्युद्धेन उच्चत्वेन अच्छस्फटिकबद्धादीनिर्मलप्रदेशं श्लक्ष्णश्लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशरजतमयं रूप्यमयं कूलं यस्य तत्तथा। समंन गसिद्भावतो विषमंतीरवर्तिजलापूरितं स्थानं यस्मिन् तत्तथा / वज्रमयाः पाषाणाः भित्तिबन्धनाय यस्य तत्। तथा वज्रमयं तलं यस्य तत्तथा। सुवर्णं पीतहेम, शुक्लरूप्यविशेषः