________________ गंगदत्त ७७६-अभिधानराजेन्द्रः भाग-३ गइरागइलक्खण तिसूत्रेषु (जन्नावा पुत्ववेतालि) इत्यादि। वेतालिशब्दो देशीवचनत्वादेतालातटवाची। प्रज्ञा०१६पदागतेर्वा प्रवृत्तेः क्रियायाः प्रपातः प्रपतनं सम्भवः प्रयोगादिष्वर्थेषु वर्तनं गतिप्रपातस्तत्प्रपातकमध्ययनं गतिप्रपातम्। भ०५ श०७ उ०। गतिप्रपातप्रतिपादकेऽन्ययूथिकान्प्रति स्थविरैः कथिते अध्ययने, भ० "तएणं तेथेरा भगवंतो अण्णउत्थिए एवं पडिहणन्ति, एवं पडिहणेत्ता गइप्पवायनामं अज्झयणं पण्णवइंसु। कइविहे जं भंते ! गइप्यवाए पण्णत्ते ? गोयमा ! पंचविहे गइप्पवाए पण्णत्ते / तं जहा-पओगगई तवगई बंधणच्छेयणगई उववायगई विहायगई एत्तो आरत्भपओगपदं निरवसेसं भाणियव्वं० जाव सेत्तं विहायगई सेवं भंते! भंते ! ति // भ०८ श०७ उ०। गतिप्रवादन० गतिः प्राद्यतेप्ररूप्यते यत्रतद्गति प्रवादम्। भ०८ श०७ उ०। गइबन्धनपरिणाम पुं० (गतिबन्धनपरिणाम) येनायुःस्वभावेन प्रतिनियतगतिकर्मबन्धो भवति, यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बध्नाति; तदेव नारकगतिनामकमेंति स गतिबन्धनपरिणामः / आयुःपरिणामभेदे, स्था०६ ठा०। गइय त्रि० (गदित) प्रतिपादिते, प्रति०। गइरइय त्रि० (गतिरतिक) गतौ रतिरासक्तिः प्रीतिर्येषां ते गतिरतिकाः | समयक्षेत्रवर्तिषु अनुपरतगतिकेषु देवेषु / स्था० 2 ठा०२ उ०॥ गइरागइलक्खण न० (गतिरागतिलक्षण) लक्षणभेदे, विशे तत्स्वरूपं च विशे०। अथ 'गइरागइत्ति" गत्यागतिलक्षणस्वरूपं प्रचिकटयिषुराह--- अवरोप्परं पयाणं, विसेसण-विसेसणिज्जया जत्थ। गचागई य दोण्हं, गयागइलक्खणं तं तु // 2156 / / परस्परं द्वयोद्वयोः पदयोर्यत्र विशेषणविशेष्यतया आनुकूल्येन गमनं गतिः। यथा जीवो भदन्त ! देवः' इति, जीवमनूध देवत्वं पृच्छ्यते। अत्र जीवपदाद् देवपदे आनुकूल्येन यथास्थित्या गतिः / तथा प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिर्यथा 'देवो जीवः' इत्यत्र देवमनूधजीवत्वं पृच्छ यत इतीह प्रत्यावृत्त्या देवपदाजीवपदे आगतिः। गतिश्चागतिश्च गत्यागती ताभ्यां ते वा लक्षणं तदेतद् गत्यागतिलक्षणम्। एतच्च चतुर्धा, तद्यथा-- पूर्वपदव्याहतम्, उत्तरपदव्याहतम्, उभयपदव्याहतम् उभयपदाव्याहतं चेति / तत्र पूर्वपदं व्याहतं व्यभिचारि यत्र तत्पूर्वपदव्याहतं लक्षणं पूर्वपदव्यभिचारीत्यर्थः / एवमन्यत्रापि यथायोगं समासः। एतानेव चतुरो भङ्गान् सोदाहरणानाह भाष्यकार:पुथ्वावरोभएसं, वाहयमव्वाहयं च तं तत्थ। जीवो देवो देवो,जीवो त्ति विगप्पनियमोऽयं // 2157 / / इह पूर्वपदव्याहतम् अपरपदव्याहतमुभयपदव्याहतमुभय पदाव्याहतं चेति चतुर्दा तद् गत्यागतिलक्षणमुक्तम्। तत्र 'जीवे भंते ! देवे देवे जीवे गोयमा ! जीवे सिय देवे सिय नो देवे देवे पुण नियमा जीवे' इति भुवनगुरुवचनाज्जीवो देव इति विशेषणविशेष्यभूते पदद्वये जीव इति पूर्वपदं देवत्वं व्यभिचरत्यपि। जीवस्य देवस्यादेवस्य च नरकादेदर्शनात्। 'देवः किं जीवः ?' इति प्रत्यावृत्तौ देवो जीवत्वं न व्यभिचरत्येव, देवस्य नियमेन जीवत्वात्तस्मात्पूर्वपदष्याहतो विकल्पनियमोऽयं भङ्गा विकल्पो व्याहतिर्भजना व्यभिचार इत्यर्थः / नियमो निश्चयोऽव्यभिचार इत्यर्थः। ततश्च पूर्वपदविकल्पोपलक्षित उत्तरपदनियमो यत्रासौ विकल्पनियमः प्रथमो भङ्ग इति। शेष भङ्गत्रयं सोदाहरणं यथाजीवइ जीवो जीवो, जीवइ नियमो मओ विगप्पो य / देवो भव्वो भव्वो, देवो त्ति विगप्पमो दो वि॥२१५८|| जीवो जीवो जीवो,जीवो त्ति दुगे विगम्मए नियमो। जीवो जहोवओगो, तहोवओगो य जीवो त्ति // 2156 / / व्याख्या-(जीवइ जीवो जीवो जीवइ त्ति) इत्यनेन द्वितीयभङ्गप्रतिपादकं भगवतीसूत्रं सूचितम्। तच्चेदम्-"जीवइभंते! जीवे जीवे जीवइ गोयमा! जीवइ ताव नियमा जीवे जीवे पुण सियजीवइ सिय नो जीवइ'' इति। इह 'जीवई' शब्देन दशविधप्राणलक्षणं जीवनं जीवितव्यमुच्यते। तत्र जीवनं तावन्नियमाजीवे, अजीवे तस्य सर्वथाऽसंभवात्। जीवः पुनः स्याज्जीवति स्यान्न जीवति, सिद्धजीवस्य जीवनासंभवादत इहोत्तरपदं व्याहतंव्यभिचारात्। पूर्वपदं त्वव्याहतं,जीवनस्य जीवमन्तरेणाभावादत एवाह-(नियमो मओ विगप्पो यत्ति) पूर्वपदेऽव्यभिचारान्नियमो मतः। उत्तरपदे तु विकल्पो भजना व्याहतिर्व्यभिचार इत्यर्थः / ततश्च नियमेनोपलक्षितो विकल्पो यत्रासौ नियमविकल्पनामकोऽयमुत्तरपदव्याहतो द्वितीयो भङ्गः / (देवो भवो भव्वो देवो त्ति) अनेनापि तृतीयभङ्गप्रतिपादकं प्रज्ञप्तिसूत्रं सूचितम् / तद्यथा-"देवे णं भंते ! भवसिद्धिए भवसिद्धिए ? देवे गोयमा ! देवे सिय भवसिद्धिए सिय अभवसिद्धिए भवसिद्धिए विसिय देवे सिय नो देवेत्ति'' अत्र पूर्वपदवर्ती देवो भव्यत्वं व्यभिचरति अभव्यस्यापि तस्य संभवात्, उत्तरपदवर्त्यपि भव्यो देवत्वं व्यभिचरत्यदेवस्यापि तस्य नरकादौ संभवादत उभयपदव्याहतमिदमत एवाह-(विगप्पमो दो वित्ति) इह प्राकृतशैल्या द्वयोरपि पदयोर्विकल्पो व्यभिचार इत्यर्थः। ततश्च विकल्पयुक्तो विकल्पो यत्रासौ विकल्पविकल्पनामकोऽयमुभयपदव्याहतस्तृतीयो भङ्ग इति। (जीवो जीवो जीवो जीवो त्ति) इहापि व्याख्या प्रज्ञप्तिसूत्रमेतदृष्टव्यं, तद्यथा--"जीवे भंते ! जीवे जीवे जीवे ? गोयमा ! जीवे ताव नियमा जीवे, जीवे वि नियमा जीवे ति" इहैकस्य जीवशब्दस्योपयोगो वाच्यस्ततचोपयोगो नियमाजीवः, जीवोऽपि नियमादुपयोगोऽत उभयपदव्याहतमिदमत एवाह-"दुगे वि गम्मए नियमो" इत्यादि / पदद्वयेऽप्यत्र नियमो गम्यते / ततश्च नियमान्वितो नियमो यत्रासौ नियमनियमाभिधान उभयपदाऽव्याहतश्चतुर्थो भङ्ग इति। अथ लोकेऽपि चतुर्विधमिदं गत्यागतिलक्षणं प्रसिद्धमिति दर्शयन्नाहरूवी घडो तिचूओ, दुम्मो त्ति नीलुप्पलं च लोयम्मि। जीवो सचेयणो त्तिय, विगप्पनियमादओ सिद्धा 2160 / पूर्वपदव्याहतं यथा-'रूपी घटः' इति / अत्र रूपिणो घटस्य पटादेच भावात्पूर्वपदव्याहतिः, उत्तरपदंतुन व्याहतं; घटस्य रूपिण एव भावादिति विकल्पनियमः प्रथमो भङ्गः। उत्तरपदव्याहतं 'चूतो द्रुमः' इति / इह चूतो द्रुम एव भवतीति नव्याहतिः, द्रुमस्तु चूतोऽचूतश्च स्यादित्युत्तरपदव्याहतिरिति नियमविकल्पो द्वितीयो भङ्गः / उभयपदव्याहतं यथानीलोत्पलमिति। नीलमुत्पलं मरकतादि च भवति, उत्पलमपि नीलं शु