________________ गइ ७७५-अभिधानराजेन्द्रः भाग-३ गइ जुगवं० जाव णिनुणसिप्पोवगए आउंटिअं वाहं पसारेज्जा, पसारियं वाहं आउंटेज्जा, विकिण्णं वा मुट्ठि साहरेज्जा, साहरियं वा मुलुि विक्खिरज्जा, उम्मिसियं वा अच्छिं णिम्मिसेज्जा, णिम्मिसियं वा अच्छिं उम्भिसेज्जा, भवे एआरूवे णो इणटेसमटेणेरइयाणं एगसमरण वा दुसमएण वा तिसमएण वा विग्गहेणं उववज्जति ऐरइयाणं तहा सीहा गई तहा सीहे गइविसइए पण्णत्ते एवं० जाव वेमाणियाणं / णवरं एगिदियाणं चउसमइए विग्गहे माणियब्वे सेसं तं चेव। "णेरइयाणं' इत्यादि (कहं सीहा गइ त्ति) कथं केन प्रकारेण कीदृशीत्यर्थः / शीघ्रा गति रकाणामुत्पद्यमानानां शीघ्रा गतिर्भवतीति प्रतीतम् / यादृशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतः प्रश्नः कृतः (कह सीहे गइविसए त्ति) कथमिति कीदृशः (सीहे ति) शीघ्रगतिहेतुत्वाच्छीध्रः गतिविषयो गतिगौचरस्तद्धेतुत्वात्काल इत्यर्थः / कीदृशी शीघ्रा गतिः कीदृशश्च तत्काल इति तात्पर्यम् (तरुणे त्ति) प्रवर्द्धमानवयाः स च दुर्बलोऽपि स्यादत आह-(बलवं ति) शरीरप्राणवान, बलंच कालविशेषा द्विशिष्टं भवतीत्यत आह-(जुगवं ति) युगं सुषमदुःषमादिः कालविशेषस्तत्प्रशस्तविशिष्टबलहेतुभूतं तस्यास्त्यसौ युगवान् यावत्करणादिदं दृश्यम् / (जुवाणे) वयः प्राप्तः (अप्पायङ्के) अल्पशब्दस्याभावार्थत्वादनातकोनीरोगः (थिरग्गहत्थे) स्थिराग्रहस्तः सुलेखकवत् (दढपाणिपायपासविस॒तरोरुपरिणए) दृढं पाणिपादं यस्य पाश्चों पुष्ट्यन्तरे च उरू च परिणते परिनिष्ठिततां गते यस्य स तथा उत्तमसंहनन इत्यर्थः। (तलजमलजुयलपरिघनिभबाहू) तलौतालवृक्षौ तयोर्यमलं समश्रेणीकं ययुगलद्वयं परिघश्चार्गला तन्निभौ तत्सदृशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा (चम्मेठ्ठदूहणमुट्ठियसमाहयनिचियगायकाए) चर्मेष्टया दुधणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्य निचितानि गात्राणि यत्र स तथाविधः कायो यस्य स तथा। चर्मेष्टादयश्च लोकप्रतीताः ("ओरसबलसमणागए'') आन्तरबलयुक्तः (लंघणपवणजइणवायामसमत्थे)जवनशब्दःशीध्रवचनः (छए) प्रयोगज्ञः (दक्खे) शीघ्रकारी / (पत्त8) अधिकृतकमणि निष्ठां गतः (कुसले) आलोचितकारी (मेहादी) सकृच्छुतदृष्ट कर्मज्ञः [निउणे ति] उपायारम्भकः एवं विधस्य हि पुरुषस्य शीघ्रं गत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति। (आउंटियं ति) संकोचितम् (विकिण्णं ति) | विकिर्णा प्रसारिताम्। साहरेज्जत्ति] संहरेत्। संकोचयेत् [विक्खिरेज्ज त्ति] विकिरेत् प्रसारयेत् (उम्मिसियं ति) उन्मिषितं उन्मीलितम्। (निमिसेज्जत्ति) निमीलयेत् (भवे एआरूवे त्ति) काक्वाध्येयं, काकुपाठे चायमर्थः। स्याद्यदुत एवं मन्यसे त्वं गौतम! भवेत् तद्रूपं भवेत्स स्वभावः शीघ्रताया नारकगतेस्तद्विषयस्य च यदुक्तविशेषणपुरुषबाहुप्रसारणादेरिति / एवं गौतममतमाशक्य भगवानाह-नायमर्थः / अथ कस्मादेवम् ? इत्याह (णेरइयाणं इत्यादि) अयमभिप्रायःनारकाणां गतिरेकद्वित्रिसमया बाहुप्रसारणादिका असङ्ख्येयसमयेति। कथं तादृशी गतिर्भवति नारकाणामिति तत्र च (एगसमएण व त्ति) एकेन समयेन उपपद्यन्त इति योगः। ते च ऋजुगतावेव, वाशब्द विकल्पे / अह च | विग्रहशब्दो न सम्बन्धितस्तस्यैकसामायिकस्याऽभावात्। (दुसमयेण वत्ति) द्वौ समयौ यत्र स द्विसमयः तेन विग्रहेणेतियोगः। एवं त्रिसमयेन वा विग्रहेण वक्रेण, तत्र द्विसमयो विग्रह, एवं यदा भरतस्य पूर्वस्या दिशो नरके पश्चिमायामुत्पद्यते तदैकेन समयेनाधो याति द्वितीयेन तु तिर्यगुत्पत्तिस्थानमिति / त्रिसमयविग्रहस्त्वेवम् यदा भरतस्य पूर्वदखिणाया दिशो नरकेऽपरोत्तरायां दिशि गत्वोत्पद्यते तदा एकेनाधः समश्रेण्या याति, द्वितीयेन च तिर्यपश्चिमायां, तृतीयेन तु तिर्यगेव वायव्यां दिश्युत्पत्तिस्थानमिति। तदनेन गतिकाल उक्तः। एतदभिधानाच शीघ्रा गतिर्यादृशी तदुक्तमिति / अथ निगमयन्नाह-('णेरइयाणं' इत्यादि)(तहा सीहा गइ त्ति)यथोत्कृष्टतः समयत्रये भवति। (तहासीहे गइविसए त्ति) तथैव (एगिदियाणं चउसमइए विग्गहे त्ति) उत्कर्षतश्चतुःसमय एकेन्द्रियाणां विग्रहो वक्रगतिर्भवति। कथम्? उच्यते-त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन जीवानामनुश्रेणिगमनात् / द्वितीयेन तु लोकमध्ये प्रविशति तृतीयेनोवं याति / चतुर्थेन तु सनाडीतो निर्गत्य दिग्व्यवस्थितमुत्पादस्थान प्रापोतीति / एतच बाहुल्यमङ्गीकृत्योच्यते, अन्यथा पञ्चसमयोऽपि विग्रहो भवेदेकेन्द्रियाणाम् / तथाहि-त्रसनाड्या बहिस्तादधोलोके विदिशो दिशं यात्येकेन, द्वितीयेन लोकमध्ये, तृतीयेनोर्ध्वलोके, चतुर्थेन ततस्तिर्यक्पूर्वादिदिशो निर्गच्छति। ततः पञ्चमेन विदिग्व्यवस्थितमुत्पत्तिस्थानं यातीति। उक्तं च-"विदिसा उ दिसिं पढमे, बीए पइसरइ नाडि मज्झम्मि / उद्धृतइए तुरिए, दिसिइ विदिसिं तु पंचमए"||१|| इति / (सेसं तं चेव त्ति) "पुढविकाइयाणं भंते ! कह सीहा गई" इत्यादि सर्वं यथा नारकाणां तथा वाच्यमित्यर्थः / भ०१४ श०१ उ०। (निर्ग्रन्थानां गतिः 'णिग्गंथ' शब्दे) (सामायिकादिसंयतानाच 'संजय' शब्दे) (सामाइयशब्दे च सामायिकवताम्) (गतिमाश्रित्याल्पबहुत्वादि 'अप्पाबहुय' शब्दे प्र० भागे 630 पृष्ठे विचिन्तितम्) (अथ के कतिगतिका कत्यागतिक इति 'आगइ' शब्दे द्वि० भागे 46 पृष्ठे विचिन्तितम्) भवान्तरस्थितौ, कल्प 6 क्षण / गम्यते सौस्थ्याय दुस्थैराश्रीयते इति गतिः। कल्प 2 क्षण। दुस्थितैः सुखार्थमभिगम्यमाने शरणे, औ० / सिद्धैर्गम्यते इति गतिः कर्मसाधनः / दश०१ अ० / सिद्धौ तस्याः सिद्धैर्गम्यमानत्वात् भ०१ श०१ उ०ा विशे / रा०। सर्वे गत्या ज्ञानार्था इति। सूत्र०१ श्रु०१५ अ०अवबोधे, विशे / प्रमाणे, आधारे क्तिन्। शरणे, पथिस्थाने च। गम्यते कर्मणि क्तिन् स्वरूपे, विषये, करणे क्तिन् अभ्युपाये, नामीव्रणे, पाणिन्युक्तेषु प्रादिषु,शब्दविशेषेषु, "उपसर्गाः क्रियायोगे' 1 / 456 / "गतिश्च 1 / 4 / 60 // वाच०। सम्प्रति किं सर्वा अपि प्रकृतयः सर्वासुगतिषु प्राप्यन्ते किंवा न ? इतिसंशये सति तदपनोदार्थमाहतित्थगरदेवनिरियाउगं च तिसु तिसु गइसु बोधव्वं / अवसेसा पयडीओ हवंति, सथ्वासु विगइसु // 6 // तीर्थकरनामदेवायुर्नरकायुश्च प्रत्येकं तिसृषु तिसृषु गतिषु बोद्धव्यम् / तथाहि-तीर्थकरनाम नरकदेवमनुष्यगतिरूपासु तिसृषु गतिषु सत्प्राप्यते, न तिर्यग्गतावपि तीर्थकरसत्कर्मणस्तिय सूत्पादाभावात् / तत्र गतस्य च तीर्थकरनामबन्धासंभवात्तथा भवस्वाभाव्यात्। तथा तिर्यग्मनुष्यदेवगतिषु च देवायुर्न