________________ एषणा 55 - अभिधानराजेन्द्रः - भाग 3 एषणा छद्मस्थः श्रुतज्ञानी ऋजुको मायारहितः प्रयत्नेन यथागमादरेण गवेषयन् पञ्चविंशतेर्दोषाणामन्यतमंदोषमाफ्नोऽपि श्रुत-ज्ञानप्रमाणतः आगमप्रामाण्यतः शुद्धः / एनमेवार्थ स्पष्यति। ओहो सुओवउत्तो, सुय नाणी जइवि गिण्हइ असुद्धं / तं केवली वि मुंजइ अपड णसुयं भवे इयरहा / / "ओहो' इत्यत्रप्रथम तृतीयार्थे तत ओघेन सामान्येन श्रुतेपिण्डनियुक्त्यादिरूपे आगमने उपयुक्तः स तु तदनुसारेण कल्प्याकल्प्यं परिभावयन् श्रुतज्ञानी यद्यपि कथमप्यशुद्धं गृह्णाति तथाऽपि ततः केवल्यपि केवलज्ञान्यपि भुङ्क्ते इतरथा श्रुत-ज्ञानमप्रमाणं भवेत्। तथा हि छद्मस्थः श्रुतज्ञानवलेन शुद्धं गवेषयितुमीष्ट न प्रकारान्तरेण / ततो यदि केवली श्रुतज्ञानिना यथागमं गवेषयितमप्यशुद्धमिति कृत्वा न भुञ्जीत ततः श्रुतेऽनाश्वासः स्यादितिनकोऽपि श्रुतं प्रमाणत्वेन प्रपद्येत श्रुतज्ञानस्य चाप्रामाण्ये सर्वक्रियाविलोपप्रसङ्गः / श्रुतमन्तरेण छद्मस्थानां क्रियाकाण्डस्य परिज्ञाना संभवात्। ततः कि मित्याह। सुत्तस्य अप्पमाणे, चरणाभावो तओय मोक्खस्स। मोक्खस्स विय अभावे, दिक्खपवित्तीनिरत्या उ॥ सूत्रस्याप्रामाण्ये चरणस्य चारित्रस्याभावः श्रुतमन्तरेण यथावत्सावद्येतरविधिप्रतिषेधपरिज्ञानासंभवात् / चरणाभावे च मोक्षाभावो मोक्षाभावे च दीक्षानिरर्थिका तस्या अनल्पार्थत्वात्। संप्रति | ग्रहणे शङ्कितो भोजने च इत्यस्य प्रथमभङ्गस्य संभवमाह! किं नुहख द्धा मिक्खा, दिजह न य तरइ पुच्छिउँ हरिमं / इइ संकाए घेत्तुं, न भुंजइ संकिओ चेव / / कोऽपि साधुः स्वभावतो लज्जावान् भवति / तत्र क्वापि गृहे भिक्षार्थ प्रविष्टः सन् प्रचुरां भिक्षा लभमानः स्वचेतसि शङ्कते किमत्र प्रचुरा भिक्षा दीयते। नचलज्जया। प्रष्टुं शक्रोति तत एवं शङ्कया गृहीत्वा शङ्कित एव तद् भुङ्क्ते इति प्रथम भङ्गे वर्तते। संप्रति ग्रहणे शङ्कितो न भोजने इत्यस्य संभवमाह। हियएण संकिणा गहि-या अन्नेण सोहिया साय। एगयं पहेणगं वा, सोउं निस्संकियं मुंजे। इह केनापि साधुना लज्जादिना प्रष्टुमशक्नुवता प्रथमतःशङ्कितेन हृदयेन या गृहीता भिक्षा सा अन्यसंघाटकेन शोयिता यथा प्रकृतं प्रकरणं किमपि प्राघूर्णभोजनादिकं यदि वा प्रहेणकं कुतश्चिदन्यस्माद् गृहादायातमिदि। ततो द्वितीयसंघाटकादेतत् श्रुत्वा यो निःशङ्कितो भुङ्क्ते स द्वितीये भङ्गे वर्तते। तृतीयस्य भङ्गस्य संभवमाह। जारिसए ब्विय लद्धा, खद्दा भिक्खा मए असुयगेहे। अन्नेहि दितारिसिया, वियर्डतनिसामणे तइए॥ इह कोऽपि साधुर्लब्धप्रचुरभिक्षाको विकटयतो गुरोरग्रतः सम्यगालोचनाश्रवणे सति शङ्कते यादृश्येव मया भिक्षा प्रचुरा लब्धा तादृश्येवान्यैरपि संघाटकैस्तत्र न मे तदाधाकर्मादिदोषदुष्ट भविष्यतीति भुञ्जानो यतिस्तृतीय भङ्गे वर्तते। अत्र पर आह। जइ संका दोसकरी, एवं सुद्धम्मि होइ अविसुद्धं / निस्संकामसियंतिय, अणेसणिजम्मि निहोस।। यदिशंद्धा दोषकरी तत एवं सति इदमायातं शुद्धमपि शङ्कितं सत् अशुद्धं भवति। शङ्कादोषदुष्टत्वात्।तथा अनेषणीयमपि निःशङ्कितमन्वेषितं शुद्धं प्राप्नोति शङ्करहितत्वात् न चैवं युक्तं स्वभावतः शुद्धस्याशुद्धस्य वा शङ्काभावाभावमात्रेण अन्यथा कर्तुमशक्यत्वात् / अत्राचार्य आह सत्यमेतत्तथाहि। अविसुद्धो परिणामो, एगयरे अवडिओ य पक्खम्मि / एसिं पि कुणइणेसिं, अणेसिमेसि वि सुद्धो उ॥ अविशुद्धः परिणामः / अध्यवसायः किं रूपो विशुद्ध इत्याह / एकतरस्मिन्नपि शुद्धमेवेदं भक्तादिकं यदि वा अशुद्धमे - वेत्यन्यतरस्मिन्नपि पक्षेऽपतन (एसिं पित्ति) एषणीयमशुद्धं विशुद्धस्तु परिणामो यथोक्तागमविधिना गवेषयतः शुद्ध-मेवेदमित्यध्यवसायः / अनेषणीयमपि स्वभावतोऽशुद्धमपि शुद्धं करोति श्रुतज्ञानस्य प्रामाण्यत्तस्मान्न कश्चित् प्रागुक्तो दोषः / तदेवमुक्तं शङ्कितद्वारमधुना भ्रक्षितद्वारमाह। दुविहं च मक्खियं खलु, सचित्तं चेव होइ अचित्तं / सचित्तं पुण तिविहं, अचित्तं होइ दुविहं तु॥ मृक्षितं द्विधा तद्यथा सचित्तमचित्तं च सचित्तम्रक्षितं चेत्यर्थः / तत्र यत्सचित्तेन पृथिव्यादिनाऽवगुण्ठितं तत्सचित्तं यत्पुनरचित्तेन पृथिवीरजःप्रभृतिनाऽवगुण्ठितं तदचित्तं तत्र सचित्तं सचित्तम्रक्षित्तं च / अचित्तमचित्तम्रक्षितम्। पुनस्त्रेधा एतदेव व्याख्यानयति। पुढवीआउवणस्सइ, तिविहं सच्चित्तमक्खियं होइ। अचित्तं पुण दुविहं, गरहियमियरे य भयणा उ॥ शचित्तम्रक्षितं त्रेधा तद्यथा पृथ्वीम्रक्षितम् अप्कायम्रक्षितं वनस्पतिकायम्रक्षितं च। तत्रैव पदैकदेशे पदसमुदायोपचारात् पृथिव्य दिम्रक्षित पृथिवीत्याधुक्तम् / अचित्तमचित्तम्रक्षितं पुन-द्धिधा तद्यथा गर्हितं वसादिना लब्धमितरत्पूतादिना / / अत्र च कल्प्याकल्प्यविधौ भजना विकल्पना सा चाग्रे वक्ष्यते। संप्रति सवित्तपृथिवीकायम्रक्षितं प्रपञ्चतो भावयति।। सुक्खेण ससरक्खेण, मक्खियमोल्लेण पुढविकाएणा॥ सव्वं पिमक्खियत्तं, पत्तो आउम्मि बोच्छाडि। इह सचित्तपृथिवीकायो द्विधा तद्यथा शुष्क आर्द्रश्च / तत्र शुष्केण सरजस्केनातीवश्लक्ष्णतया भस्मकल्पेन यत् देहमानंहस्तोवा म्रक्षितो यचा;ण पृथिवीकायेन सचित्तेन मूक्षितं तत्सर्वं हस्तादिम्रक्षितं सचित्तपृथिवीकायमूक्षितनवगन्तव्यम्। तत ऊर्द्धमप्कायविषये मक्षितं वक्ष्यामि। पुरपच्छकम्म ससणि-द्धदउल्ले चउर आउभेया उ। उक्कडरसावलितं,परित्तणत्तं महिरहेसु॥ अप्काये अप्कायमूक्षिते चत्वारो भेदाः तद्यथापुरः कर्म पश्चात्कर्म सस्निग्धमुदकाः च / तत्र भक्तादेर्दानात्पूर्व यत्साध्वर्थ कर्म हस्तपात्रादेर्जलप्रक्षालनादिक्रियतेतत्पुरः कर्म। यत्पुनर्भक्तादेद-नात्पश्चात् / क्रियते तत्पश्चात्कर्म / सस्निग्धमीषद्वक्ष्य-माणजलखरण्टितं हस्तादि उदकास्पृष्टोलभ्यमानजलसंसर्गः। संप्रतिवनस्पतिकायमूक्षितं प्रपञ्चयति (उक्कडेत्ति) उत्कृष्टरसानि प्रचुरर-सोपेतानि यानि परीतानां प्रत्येकवनस्पतीनां भूतफलादीनामनन्ता-नामनन्तकायिकानां च पनसफलादीनां सद्यःकृतानिश्लक्ष्णखण्डानिइति सामथ्यागम्यतेतैः सलिप्तं