________________ एषणा 54 - अभिधानराजेन्द्रः - भाग 3 एषणा नामंठवणा दविए, भावे गहणेसणा य बोधष्वा। दवे वानरजूह, भावम्मि य ठाणमाई णि Iell याऽसौ ग्रहणैषणा सा चतुर्विधा नामग्रहणैषणा स्थाप-नाग्रहणैषणा द्रव्यग्रहणैषणा भावग्रहणैषणा च ज्ञेया / नाम-ग्रहणैषणा सुगमा / तत्र स्थापनाग्रहणैषणा द्विविधा सद्भावस्थापना ग्रहणैषणां कुर्वन् देशतः असद्गवस्थापनाग्रहणैषणा अक्षादिषु तत्र द्रव्यैषणा आगमतो नो आगमतश्च / आगमतो ग्रहणैषणापदार्थज्ञा तत्र वाऽपयुक्तः नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता तथा ज्ञशरीरे भव्यशरीरे ज्ञभव्यशरीरव्यतिरिक्तग्रहणैषणायां वानरयूथं भावग्रहणैषणायां तु स्थानादीनि भवन्ति / एतदुक्तं भवति भावग्रहणैषणां कुर्वन् स्थाने विवक्षिते तिष्ठति दातृप्रभृतीनि च परीक्षते भावग्रहणैषणायाम् / तत्र द्रव्यग्रहणैषणायामिदं व्याख्यानकम् "एगोणं तत्थ वानस्जूहं परिभमइ काले णयपडिसाडियपंडपतंजायं उण्हकाले यताहे जूहवई भणइ अन्नं वणं गच्छामो तत्थ तेसिं जूहवई अन्नवणपरिक्खणत्थं दुन्निवस तिन्निव पंवे व सत्त पयट्टशवचह वणंतरे जोण्ह ताहे गया एणं वणसडं पासति पउरफलपुष्पं तस्स वणस्स मज्झे एगो महद्दहो तोतंदवणं हट्ठतुहा गया जूहवइणो साहति / ताहे सो जूहवई सव्वेसिं समं आगओ तहि तं वण भक्खेणं रुक्खं पलोएइ ताहे तंवणं सुद्धं तेण भणिया खायह वणफलाइ जाहि ते तत्थ धाया पणियं गया ताहे सो जूहवई दहस्स परिसरंतेहं पलोएइ जाव उयरं ताणि पदाणि दीसंति उत्तरताणि नदीसंति ताहे सो भणइ एस दहो सावओ ता मा एत्थत्थनीरे पासत्थे वाउयरिय पाणिय पियह किं तु नालेण / तत्थ जेहिं सुयं वयणं तस्स तं पुप्फफलाणं आभोगिणो जाया जेहिंण सुयं तस्स ते रुक्खेहिंतो तम्मि दहे जे पाओ देंति ण चेव उत्तरंति ते अणाभोगिणो जाया एवं चेव आयरिओ ताणं साहूणं आहाकम्मुद्देसियाणि समोसरणण्हवणादिसुपरिहरावेइ उवायणं फासुयं गेण्हावेइजहा नत्थि लिजंति आहाकम्माइणा तधा करेइ। तत्थ पुवकयाणि खीरदधिघयमार्हणि तारिसाणि गिण्हावेइ अकयअकारियसंकप्पियाणि तत्थ ये आयरियाणं सुणेति ते परिहारंति ते च अचिरेण कालेण कम्मक्खयं करेहिंति जे ण सुर्णेठि ते न भणंति एए उदाहारया असत् विकल्पा किं कारणं एवंण घेप्पइ तिविहिणं सुयं पुणो ते अण्णेनाणं जाइयव्वमरियव्वगाणं अभागिणो जाया" ओघ०॥ इदानीममुमेवार्थे गाथाभिः प्रदर्शयन्नाह। पडिसडियपंडुपत्तं, वणसंडं दठु अन्नहिं पेसे। जूहवई पडियरए, जूहेण स संतयं गच्छो॥ सयमेवालोए उ, जूहवई तं वणं समंतेण। वियरइ तेसि पयारं, वारिऊण यतो दहं गच्छे / / उयरंते पि य दिह, नीहारं तं न दीसई। नालेण पियह पाणिं,यं न एस निक्कारणो दहो। विशालशुङ्गो नाम पर्वतस्तत्रैकस्मिन् वनखण्डे वानरयूथमभि रमते। अथ चतत्रैव पर्वते द्वितीयमपिवनखण्डं सर्वर्तुपुष्यफल-समृद्धं समस्ति परं तन्मध्यभागवर्तिनि ह्यहदेशिशुभारोऽवतिष्ठतेस यत्किमपि मृगादिकं पानीयाय प्रविशति तत्सर्वमाकृष्य भक्षयति / अन्यदा च तद्वनखण्ड परिशटितपाण्डुपत्रमपगतपुष्फ-फलमवलोक्य यूथाधिपतिरन्यस्य वनखण्डस्य निर्वाहसमर्थस्य गवेषणाय वानरयुगलं प्रेषितवान् / गवेषयित्वा च तेन यूथा-धिपतेर्निवेदितमस्ति नवं वनखण्डम्। क्व प्रदेशे सर्वर्तुपुष्प-फलपत्रसमृद्धमस्माकं निर्वाहयोग्यं ततो यूथाधिपतिः सह यूथेन तत्र गतवान् परिभावयितुं च प्रवृत्तः समन्ततस्तद्वनखण्डं ततो दृष्टस्तन्मध्ये जलपरिपूर्णोह्यहदः परं तत्र प्रविशन्ति स्वापदानां पदानि दृश्यन्तेन निर्गच्छन्ति। यूथमाहूय यूथाधिपतिरुवाच माऽत्र यूयं प्रविश्य पिबत पानीयं किंतु तटस्थिता एव नालेन पिबत यतो नैष ह्यहदो निष्कारणो निरुपद्रवस्तथा हि मृगादीनामत्र पदानि प्रविशन्ति दृश्यन्ते ननिर्गच्छन्तीति एवं चोक्ते यैस्तद्वचः कृतं तेवने स्वेच्छाविहारसुखभागिनो जाता इतरे विनष्टाः। उक्ता द्रव्य-ग्रहणैषणा। संप्रति भावग्रहणैषणा वक्तव्या तया चाधिकारो ऽप्रशस्तया पिण्डदोषाणां वक्तुं प्रकान्तत्वात् सा च शङ्किता-दिभेदादशप्रकारा ततस्तानेव शङ्कितादीन् भेदान् दर्शयति॥ संकियमक्खियनिक्खित्त, पिहियसंहरिय दायगुम्मिस्से। अपरिणयलित्तछड्डिय, एसणदोसा दस हवंति।। शङ्कितं संभाविताधाकर्मादिदोष, मक्षितं सचित्तपृथिव्यादिना गुण्ठितम्। निक्षिप्तं सचित्तस्योपरि स्थापितम्। पिहितं सचित्तेन स्थगितम् / संहृतमन्यत्रक्षिप्तम् / दायकदोषदुष्टा / उन्मिश्रापुष्पादिसन्मिश्रम् / अपरिणतमप्रासुकीभूतम् / लिप्तं छर्दितं भूमौ विछडितम् / एते दश एषणादोषाः भवन्ति। (एतेषां वक्तव्यता तत्तच्छब्दे) तत्र शङ्कितपदं व्याचिख्यासुराह॥ संकाए चउभंगो, दोसु वि गहणे य मुंजणे लग्गो। जं संकियमावन्नो, पणवीसा चरिमए सुद्धो॥ शङ्कन्यांशङ्कितेचतुर्भङ्गीचत्वारोभङ्गाः सूत्रेचपुंस्त्वनिर्देश आर्षत्वात्। साचेयं चतुर्भङ्गी ग्रहणे शङ्कितो भोजने चैति प्रथमोभङ्गः। ग्रहमे शङ्कितंन भोजने इति द्वितीयः / भोजने शङ्कितो न ग्रहणे इति तृतीयः। न ग्रहणे न भोजने इति चतुर्थः / अत्रदोषानाह (दोसुवीत्यादि) द्वयोरपि शङ्कितस्य ग्रहणभोजनयोरपि यो वर्तते यश्च ग्रहणयति। ग्रहणे अर्थापत्त्या न भोजने तथा भोजने सामर्थ्यान्न ग्रहणे स सर्वोऽपि लग्नो दोषेण संबद्धः / केन दोषेणेत्याह (जं सकियमित्यादि) षोडशोद्गमदोषाणामथैषणादोषरूपाणां पञ्च-विंशतिदोषेण शङ्कितं संभावितमापन्नो वर्तते तेन दोषेण संबद्धः / इदमुक्तं भवति यदाधाकर्मत्वेन शङ्कितं तद् गृहानो भुजानो वाऽऽधाकर्मदोषेण संबध्यते यदि पुनरौद्दोशेकत्वेन तत औद्देशिकेनेत्यादि / चरमे चतुर्थभङ्गे पुनर्वर्तमानः शुद्धो न केनापि दोषेण संबध्यते इत्यर्थः / इह 'पणवीसा' इत्युक्तं ततस्तानेव पञ्चविंशतिदोषानाह। उग्गमदोसा सोलस, आहाकम्माइ एसणा दोसा। नवमक्खियाइ एए, पणवीसा चरिडए सुद्धे / / आधाकादयः षोडश उद्गमदोषा नव च भ्रक्षितादयः एष-णादोषा एते मिलिताः पञ्चविंशतिः चरमे तु भङ्गे न ग्रहणेन भोजने इत्येवंरूपे वर्तमानो यतिः / यत इहाशुद्धमपि छयस्थपरीक्षया निः शङ्कितंगृहीतं शुद्धं भवतीत्येतदेवोपदर्शयति॥ छउमत्थो सुयनाणी, उवउत्तो उज्जुओ पयत्तेण। आवश्नो पणवीसं, सुयनाणपमाणओ सुद्धो।।