________________ खेत्त ७६४-अभिधानराजेन्द्रः भाग-३ खेत्त उग्गहम्मि परे एयं, लभते उ अखत्तितो। वत्थगादी वि दिनं तु, कारणम्मिव सो लभे॥ नालबद्धाः पूर्व संस्तुताः, पश्चात्संस्तुतानि मित्राणि, वयस्याश्च / एतत्सचित्ते परे परकीये अवग्रहे अक्षेत्रिको लभते / अचित्ते आहारम् अशनाऽऽदिकम्, प्रश्रवणमात्रकं,लेखमात्रकंच संस्तरकंपरिशाटिरूपमभावेऽपरिसाटिरूपं वा वसतिं च वस्त्राऽऽदिकं पुनर्दत्तं लभते / कारणे अतिस्तरणाऽऽदिलक्षणे पुनरदत्तमपि लभते।तदेवं गतं क्षेत्रद्वारम्। व्य० 10 उ०/ एकक्षेत्रे उपसंपद्यमानानां कस्य क्षेत्रमाभवति सम्प्रति "साहरणपत्तेगे" इत्यादि व्याख्यानयतिदोमादि ठिया साहर-णम्मि सुतत्थकारणा एके। जति तं उवसंपज्जे, पुय्वठिया वीय सेकंतं / / व्यादयो द्विप्रभृतयो गच्छाः समाप्तकल्पाः / समकमेकस्मिन् क्षेत्रे स्थितास्तेषां तत् क्षेत्रम् आभाव्यतया साधारणम् / तस्मिन् साधारणे क्षेत्रे स्थिताः सन्तो यदि तमेके गच्छमन्ये सूत्रार्थ कारणादुपसंपद्यन्ते। अथवा-ये पूर्व समाप्तकल्पतया स्थितास्तेषाम् आभवति तत् क्षेत्रम्।न पश्चादागतानां समाप्तकल्पानामपि / परं ते पूर्वस्थिता अपि यदि पश्चादागतं गच्छंसूवार्थकारणादुपसंपद्यन्ते।तर्हियस्य समीपमुपसंपद्यन्ते तस्य तत्क्षेत्रं संक्रान्तं तस्य तदाभवति। नान्येषामिति भावः। तेहि तस्य प्रतीच्छकीभूतास्तेन तेषां क्षेत्रमितरस्य संक्रामतीति। अथ नोपसंपद्यन्ते। किंतु सूत्रमर्थं वा पृच्छन्ति। तत्राऽऽहपुच्छाहि तीहि दिवसं, सत्तहि पुच्छाहिँ मासियं हरति / अक्खेत्तुवस्सए पु-च्छमाणे दूराऽऽवलियमासो॥ तिसृभिः पृच्छाभिः कृताभिः पृच्छ्यमानः परिपूर्ण दिवसंयावत् तत्क्षेत्रगतं सचित्तादि हरति गृह्णाति / त्रिपृच्छादानततस्य क्षेत्रस्यैकं दिवसं यावत्तदाभवनात् / सप्तभिः पृच्छाभिर्मासिकं हरति / किमुक्तं भवतिसप्तपृच्छासु कृतासुपृच्छ्यमानः परिपूर्णमासं यावत्तत्क्षेत्रगतं सचित्तादि लभते मासं यावत्तस्य क्षेत्रस्य तदाभवनादिति। (अक्खेत्तुवस्सए इति) अक्षेत्रे स्थितानामुपाश्रये विशेषा मार्गणा कर्त्तव्या।साचाऽऽग्रे करिष्यते। तथा यदि पृच्छ्यमानः आत्मीयमुपाश्रयं दूरम्, उपलक्षणमेतत् आसन्नं वा / आवलिकाप्रविष्टम् उपलक्षणमेतत् मण्डलिकाप्रविष्टं वा, पुष्पाऽऽवकीर्णं वा कथयति। तदा तस्मिन् प्रायश्चित्तं मासो लघुकः, तं च पृच्छन्तं लभन्ते / एष संक्षेपाऽर्थो व्यासाऽर्थोऽग्रे कथयिष्यते। अक्षेत्रे उपाश्रयस्य मार्गणा कर्त्तव्येत्युक्तम्। तत्र तावदक्षेत्रमाहण्हाण ऽणुजाणं अद्धाण, सीसए कुलगणे चउके य। गामादिवाणमंतर-हेय उज्जाणमादीसुं। इंदकीलमणोग्गाहो, जत्थ राया जेहिं व पंच इमे / अमचपुरोहियसेट्टी-सेणावतिसत्थवाहाय॥ स्नानमर्हतः प्रतिमानां तन्निमित्तमेकत्र मिलितानामनुयानं रथयात्रा तन्निमित्तं मिलितानाम्। अथवा-अर्द्धशीर्षकं यतः परं समुदायेन सार्थेन सह गन्तव्यं सम्यग् मार्गवहनात् / तत्र मिलितानां (कुल त्ति) कुलसमवायमिलितानाम् (गण त्ति) गणमसवायमिलितानां चतुष्कं सङ्घः तत्समवायमिलितानाम् (गामाइ) इत्यादि। गाममहे वा, आदिशब्दान्नगराऽऽदिमहे वा, उद्यानमहे वा, आदिशब्दात्तमागाऽऽदिमहेषु वा / इन्द्रकीलकमहे वा यत्र च सकलजनमनोग्राहो राजा यत्र वा इमे अमात्यपुरोहितश्रेष्ठिसेनापतिसार्थवाहाः पञ्च गता वर्तन्ते / तत्र कथमपि गताः समकं स्थिताः तर्हि साधारणा वसतिः। अथ विषमं स्थितास्तर्हि ये पूर्व स्थितास्तेषां वसतिः आभवति / नेतरेषां पश्चादागतानाम् / तस्यां च वसतौ यः शिष्यतया उपतिष्ठति तं वसतिस्वामिनो लभन्ते नेतरे। "पुच्छमाणे दूराऽऽवलियमासो'' इत्यस्य व्याख्यानार्थमाहपुप्फाऽवकिण्णमंडलि-याऽऽवलिय उवस्सया भवे तिविहा। जा अब्भासे तस्स उ, दूरे कहंतो न लभे मासो / / क्वचित् ग्रामे नगरे वा साधवः पृथक् उपाश्रये स्थिताः। ते चोपाश्रया स्त्रिविधा भवेयुः / तद्यथा-पुष्पाऽवकीर्णकाः, मण्डलिकावद्धाः, अवलिकास्थिता वा। स्थापना एतेषामुपाश्रयाणां मध्ये कुतश्चिदेकतरस्मादुपाश्रयाद्विचारादिनिमित्तं कोऽपि विनिर्गतस्तं दृष्ट्वा कोऽपि प्रविद्रजिषुः पृच्छेत् / यथाकुत्र साधूनां वसतिरिति / स ब्रूते-किं कारणं त्वं पृच्छसि ?शिष्यः प्राह-प्रव्रजिष्यमीति / तत्र यदि स एवं पृष्टः सन् (दूरे कहंतो न लभे मासो इति) आत्मीयमुपाश्रयं दूरम, आसन्नं वा कथयति / तर्हि तस्य प्रायश्चित्तं लघुको मासः। न च तं शिष्यं लभते। कस्य पुनः स आभवतीति चेत् ? तत आह-योऽभ्यासे तस्य किमुक्तं भवति-तस्मादवकाशात् यस्य प्रत्यासन्नतर उपाश्रयस्तस्य आभवति। किह पुण साहेयव्वा, उद्दिसियव्वा जहक्कम सवे। अह पुच्छइ संविग्गे, तत्थ वसवे व अद्धा वा।। कथं पुनः कथयितव्या उपाश्रयाः? सूरिराह-उद्देष्टव्याः यथाक्रमं सर्वे / यथा-अमुकस्याऽमुकप्रदेशे। एवं कथिते यत्र व्रजति तस्य य आभवति। अथ पृच्छति संविनान् बहुश्रुततरान् तपस्वितराँश्चेत्यर्थः / तत्र यथाभावमाख्यातव्यम्। वितथाऽऽख्याने मासलघुः / न च स तं लभते। किं तु ये तपस्वितरा बहुश्रुततराश्च तेषां स आभवति। अथ सर्वे अर्धा वा संविनास्ततस्तथैवाऽऽख्याने यत्र स व्रजति तस्य य आभवति। न शेषस्येति। एतदेवसविशेषमाहमुत्तूण असंविग्गे,जे जहियं ते य साहती सय्वे / सिहम्मि जेसि पासं, गच्छति तेसिंन अन्नेसिं। इह ये पार्श्वस्थाऽऽदयोऽसंविनास्ते यदि पृच्छ्यन्ते तदा ते न कथनीयास्तेन मुक्त्वा शेषेषु पुष्टेषु ये यत्र विद्यन्ते तान् तत्र सर्वान् कथयति। शिष्ट च कथिते सति, येषां पार्वं गच्छति तेषामाभवति / नाऽन्येषाम्। नीयल्लगाण व भया, हिरिवत्ति असंजमाऽहिगारे वा। एमेव देसर , गामेसु व पुटवकहणं तु // इह कोऽपि तस्मिन् ग्रामे नगरे देशे राज्ये वान प्रव्रजति। किं