________________ खेत्त ७६५-अभिधानराजेन्द्रः भाग-३ खेत्त कारणमिति चेत ? उच्यते-निजकानां स्वज्ञातीयानां भयात् / मा निजका उत्प्रव्राजयेयुः प्रव्रजन्तं वा मा रुन्ध्युरिति / यदि वा-तेषां निजकानां समक्षं लज्जते / ततो हीनो वा / अथवा-असंयमाऽधिकारः असंयमाधिकरणं तत् ग्रामादि अप्कायादिप्रचुरत्वात् / ततोऽन्यत् ग्रामादिकं गन्तुमनास्तथैव विचारादिगतं पृच्छेत्। यथा-कस्मिन् ग्रमि नगरे देशे राज्ये वा साधवः? एवमन्यस्मिन् राज्ये ग्रामेषु वा पृच्छायामेवं पूर्वोक्तेनैव प्रकारेण यथाभाव कथनं कर्त्तव्यम्। किमुक्तं भवति-यथात्रिविधेषूपाश्रयेषु आसन्नदूरतपस्विबहुश्रुतानां पुच्छायां व्याकरणमनाभाव्य, आभाव्य च वर्णितम् तथाऽत्राऽपि द्रष्टव्यम् / तद्यथा-यत् यथा कथनीयं वितथाऽऽख्याते तस्यं प्रायश्चित्तं मासलघु। तत्र च गतस्तेषां समीपमुपगच्छति। स तेषामाभवति। नान्येषामिति। . अहवा वि अण्णदेसं, संपट्ठियगं तगं मुणेऊण। मायानियडिपहाणो, विप्परिणामो इमेहिं तु॥ अथवेतिप्रकारान्तरे तच्च प्रकारान्तरं विपरिणामविषयं वक्ष्यमाणरीत्या द्रष्टव्यम्। विचाराऽऽदिविनिर्गतं साधुं दृष्ट्वा कोऽपिपरण आदरेण वन्दते। तं च तथा वन्दमानं पृच्छति / कुतस्त्वं ? कुत्र वा संप्रस्थित इति? स प्राऽऽह-अमुकं देशं संस्थितः तत्र गत्वा प्रव्रजिष्यामि। तत एनमन्यदेश संप्रस्थितं तं ज्ञात्वा / मायी परवञ्चनाऽऽभिप्रायी निकृतिराकारवचनाऽऽच्छादनं यथाकूटाऽऽख्यातृत्वेन नक्ष्यते मायानिकृती प्रधानेयस्य स तथा / एभिर्वक्ष्यमाणैश्चैत्याऽऽदिभिर्विपरिणामयति। तान्येव विपरिणामिस्थानानि चैत्याऽऽदीनि दर्शयतिचेय साहू वसही, वेज्जा वन संति तम्मि देसम्मि। पडिणीय-सण्णि-साण्णो, वियारखेत्ता अहिगमग्गो।। यत्र त्वया गन्तव्यं तस्मिन् देशे चैत्यानि, यदि वा-साधवः, अथवासंवसतयः, यदा-वैद्या न सन्ति। तथा बहवस्तत्र प्रत्यनीकाः / न च दानाऽऽदिनप्रधानानि संज्ञिकुलानि / श्वानः प्रभूताः, न च तत्र विचारभूमिः, सर्वत्र पानीयाऽऽकुलत्वात् / नाऽपि तत्र विहारयोग्यानि क्षेत्राणि / अधिकश्च भूयान्मार्गः पन्था एतैः प्रकारैर्विपरिणामयति। तत्र प्रथमतश्चैत्यमधिकृत्याहवंदण पुच्छा कहणं, अमुगं देसं वयामि पव्वइउं। नत्थि तहिं चेइयाई, सणसोही जतो होइ॥ परया भक्त्या विचाराऽऽदिनिर्गतस्य साधोर्वन्दनम्। ततः पृच्छा कुत्र गन्तव्यम् ? तदनन्तरं तस्य कथनम्-अमुकं देशं व्रजामि प्रव्रजितुमिति। एवमुक्ते स प्राऽऽहन सन्ति तत्र चैत्यानि यतो येभ्यो दर्शने शोधिः सम्यग्दर्शने निर्मलता भवति। कथं तेभ्यो दर्शनशोधिः? इति। अत आहपूयं तु दटुं जगबंधवाणं, साहू विचित्ता समुवें ति तत्थ। ऽउभंगं च दगुण उवासगाणं, सेहस्स वीथीरह धम्मसद्धा। जगद्वान्धवानां पूजां द्रष्टुं तत्र तेषु चैत्येषु साधवो विचित्रा भव्या भव्यतराः समुपयन्ति मूर्ति दृष्ट्वा देशनां वा समाकर्ण्य तथा उपासकानां श्रावकाणां स्नानविलेपनाऽऽदिषु अभ्यङ्गं च दृष्ट्वा आस्तामन्येषांशुभपरिणामोल्लासः सैक्षस्याऽपि धर्मश्रद्ध स्थिरति स्थिरीभवतीत्यर्थः। चैत्यानि तु तत्र न विद्यन्ते। ततः किं तत्र गत्वा त्वया कार्यम् ? इति द्वारमाहनसंति साहू तहियं विवित्ता, ओसण्णकिण्णी खलु सो उदेसे। संसग्गिहज्जम्मि इमम्मिलोए, सा भावणा तुन्म विमा ह वेज्जा / / न सन्ति तत्र साधवो विविक्ता एकान्तसंविनाः / किं तु०अवसन्नकीर्णोऽवसन्नव्याप्तः खलु स कुदेशः / अथं च लोकः संसर्गिहार्यः संसर्गात् हियते संसर्ग्यनुयायी भवति / तथास्वाभाव्यात्ततः संसर्गिहार्येऽस्मिन् लोके वर्तमानस्य तवाऽपि सा अवसन्नभावना मा भूदिति तत्र न गन्तव्यम्। शय्याद्वारमाहसेज्जा नसंती अहवेसणिज्जा, इत्थीपसुंपंडगमादिकेण्णा। आउच्छमादीसु यतासु निचं, ठायंतयाणं चरणं न सुद्धे / तत्र शय्या न सन्ति / अथवा-एषणीया न विद्यन्ते / यदिपरमात्मकृताःस्युः / यदिवा-स्त्रीपशुपण्डकाऽऽद्याकीर्णाः सचित्तासु चाऽऽत्मोत्थाऽऽदिषु आत्मकृताऽऽदिषु नित्यं सर्वकालं तिष्ठतां चरणं न शुद्ध्यति चारित्रशुद्धिर्न जायते। वैद्याऽऽदिद्वारचतुष्टयमाहवेज्जा तहिं नत्थि तहोसहाई, लोगो य पाएण सपच्चणीओ। दाणाइ सण्णी य तर्हि न संति, सोणेहिं किण्णो सहलूसएहिं / / तत्र वैद्याः, तथा औषधानि च न संन्ति / लोकश्च प्रायेण तत्र सप्रत्यनीकः / दानादिप्रधानाश्च संज्ञिनः श्रावकास्तत्र न संन्ति / तथा इवभिः सहलूषकैश्चौरेः कीर्णो व्याप्तः। - विहारक्षेत्रद्वारमाहअणूवदेसम्म बियारमूमी, विहारखेत्ताणि य तत्थ णत्थी। साहूसु आसण्णठिएसु तुझं, को दूरमग्गेण मडप्फरो ते॥ यत्र त्वया गन्तव्यं तस्मिन् अनूपदेशे जलमयदेशे विचारभूमि स्ति। नाऽपि तत्र सन्ति विहारयोग्यानि क्षेत्राणि। अन्यचसाधुष्वासन्नस्थितेषु तव को दूरमार्गेण (मण्डफरो) गमनोत्साहः तदेवमृतुवद्धकालविषयंसूत्रं भावितम्। अधुना वर्षावासविषयं भावयन्तिवासासुंअमणुण्णा, असमत्ता जे विया भवे वीसुं। तेसिंन होइ खात्तं, अह पुण समणुण्णय करेंति।। तो तेसि होति खेत्तं, को उपभू सिं जो उ रायणिओ। लाभो पुण जो तत्था, सो सम्वेसिं तु सामण्णो॥ वर्षासु वर्षाकाले ये अमनोज्ञाः परस्परोपसंपद्रिकला असमा