________________ खेत्त ७६०-अभिधानराजेन्द्रः भाग-३ खेत्त निकारणविस्सामा, पच्छा ते ताउ न लभन्ति। पूर्व विनिर्गताः सन्तो यदि ग्लानादिभिः कारणैः पश्चादागच्छन्ति तदा तेषां पश्चादनियतमागच्छतां भवति क्षेत्रम् / अथ निष्कारणं यत्र तत्र वा स्थितास्तेन पश्चात् गतास्तदा ते पश्चादागच्छन्तो न लभन्ते क्षेत्रम्, गतो द्वितीयो भङ्गः। तृतीयमधिकृत्याहपच्छा विणिग्गओ विहु, दूराऽऽसन्ना समाव अद्धाणं / सिग्घगई उसभवा, पुटवं पत्तो लभति खेत्तं।। गाथायामेकवचनं स्पर्द्धकस्वाम्यपेक्षया पश्चाद्विनिर्गतोऽपि 'हु' निश्चित दूरात् आसन्नात् समाद्वा अध्वनः स्वभावात् शीव्रगतिरिति कृत्वा पूर्व प्राप्तस्तदा स लभते क्षेत्रम्। अह पुण असुद्धभावो, गतिभेदं काउ वचती पुरतो। मा एए गच्छंति य, पुरओगी ताहे न लभंति॥ अथ पुनर्मा एते, अन्ये, पुरतो न गच्छन्तीति, यास्यन्तीति / एवमशुद्धभावो गतिभेदं कृत्वा पुरतो याति / तदा स पुरोगाम्यऽपि न लभते क्षेत्रम् / भावस्याऽशुद्धत्वात्। समयं पिपत्थियाणं,सभावसिग्घागतिणो भवे खेत्तं। एमेव य आसन्ने, दूरद्धाणी य जो एति॥ समकमपि विवक्षितानां प्रस्थितानां मध्ये यः स्वभावशीघ्रगतिः सन् पुरतो याति तस्य तत् क्षेत्रम् / एवमासन्ने आसन्नाऽध्वनीनो दूराऽध्वनीनो वा यः पुरतः समागच्छति, अनुज्ञापयति च स लभते क्षेत्रम्। अहवाऽऽसमऽद्धं पत्ता, समयं चेव अणुनावितो दाहिं। साहारणं तु तेसिं, दोण्ह वि वग्गाण तं होइ।। अथवा-आसन्नात् दूरात् वा समध्वा अध्वनः समकमेव तत्क्षेत्रं प्राप्ताः, समकमेव द्वाभ्यामपि वर्गाभ्यां तत् क्षेत्रमनुज्ञापितं तदा तयोर्द्वयोरपि वर्गयोः साधारणं तत् क्षेत्रम् / गतस्तृतीयो भङ्गः / चतुर्थे तु भङ्गे-यदि पूर्वप्रविष्टैः सह समनुज्ञापितं तदा साधारणम् / अथ पश्चात्प्राप्तैरपि पूर्वमनुज्ञापितं तदातेषामिति / तदेवमुक्ता चतुर्भङ्गिका / सम्प्रति "समसीमं पत्ताण" इत्येतद्व्याख्यानमाहअहवा समयं दोण्णि वि, सीमं पत्ता उतत्थ जे पुथ्वं / अणुजाणा वा तेसिं,न जे उदप्येण अच्छंति।। (अथ वेति) प्रागुक्तापेक्षया प्रकारान्तरौ द्वावपि वर्गा समकं सीमानं प्राप्तौ तत्र ये पूर्वमनुज्ञापयन्ति तेषां तत् क्षेत्रं, न ये दर्पण निष्कारणमेव तिष्ठन्ति तेषामिति / सीमाग्रहणं द्वारगाथायामुद्यानादीनामुपलक्षणम्। तेन तद्विषयामपि मार्गणामाहउज्जाण-गामदारे, वसहिं पत्ताण मग्गणा एवं। समयमणुन्ने साहरणं, तु न लमंति जे पच्छा // उद्यानं ग्रामद्वारं ग्रामग्रहणं नगरादीनामुपलक्षणम् / तथा वसतिं समकं प्राप्तानामेवमुक्तप्रकारेण मार्गणा कर्तव्या / तामेव दर्शयति यदि समकमनुज्ञापयन्ति, ततः साधारणं, ये पुनः पश्चादनुज्ञापयन्ति ते न लभन्ते। ते पुण दोणी वग्गा, गणि-आयरियाण होञ्ज दोण्हं तु। गणिणं व होज्ज दोण्हं, आयरियाणं व दोण्हं तु / / तौ पुनी वर्गों द्वयोर्गण्याचार्ययोर्भवेताम् / गणी नामात्र वृषभः / एको वर्गो वृषभस्य, अपर आचार्यस्य ! अथवा-द्वयोर्गणिनोः यदि वा द्वयोराचार्ययोर्दी वर्गाविति।। तत्रेयं मार्गणाअच्छंति संथरे सवे,गणी नीति असंथरे। जत्थ तुल्ला भवे दो ऽवी, तत्थिमा होति मग्गणा। यदि तत्र क्षेत्रं संस्तरणं तदा सर्वेऽपि तिष्ठन्ति / अथ सर्वेषामसंस्तरणं तदा असंस्तरेण गणी वृषभो निर्गच्छति / आचार्यस्तिष्ठति। अथ द्वावपि वर्गी तुल्यौ द्वावपि गणिनौ द्वावप्याचार्यो वा तदा तत्रेयं भवति मार्गणा। तामेवाहनिप्फण्णतरुणसेहे, जुगियपायच्छिनासकरकण्णा। एमेव संयतीणं, नवरं वुड्डा उ नाणत्तं // एकस्य निष्पन्नः परिवारः, एकस्याऽनिष्पन्नः। यस्य निष्पन्नः सगच्छतु। इतरस्तिष्ठतु / अथ द्वयोरपि परिवारो निष्पन्नः केवलमेकस्य तरुणः, एकस्य वृद्धः / बृद्धास्तिष्ठन्तु। इतरे गच्छन्तु। अथ द्वयोरपि तरुणा वृद्धा वा। नवरमेकस्य शैक्षा अपरस्य चिरप्रव्रजितास्ते गच्छन्तु। इतरे तिष्ठन्तु। अथ द्वयोरपि शैक्षाः चिरप्रव्रजिता वा केवलमेकस्य जुङ्गितपादाक्षिनासाकरकर्णाः, अपरस्याऽजुङ्गितास्तत्र जुङ्गितास्तिष्ठन्तु। इतरे गच्छन्तु। अथ द्वयोरपि जुङ्गितास्तत्र ये पादजुङ्गिताः ते तिष्ठन्तु, इतरे गच्छन्तु। सम्प्रति प्रवर्तिन्या संयतीनां अभिषेकयोश्च मार्गणा कर्तव्या। ततस्तामाह-(एमेव) अनेनैव प्रकारेण संयतीनां मार्गणा कर्तव्या। नवरं वृद्धास्तु नानात्वम् / तच्चेदम्-तरुणवृद्धानां तरुण्यस्तिष्ठन्ति, वृद्धा गच्छन्ति। शेषं तथैव। सम्प्रति संयतानां संयतीनां च समुदायेन मार्गणां करोति--- समणाण संजतीण य, समणी अच्छंति नेति समणा उ। संजोगे विय बहुसो, अप्पावहुयं असंथरणे // श्रमणानां, संयतीनां च एकस्थानेऽवस्थितानामसंस्तरणे श्रमण्यस्तिष्ठन्ति। निर्गच्छन्ति श्रमणाः। संयोगेषु च बहुशः प्रवर्तमानेष्वसंस्तरणे अल्पबहु परिभाव्य वक्तव्यम् / अथैवम्-यत्र संयता जुङ्गिताः श्रमण्यो वृद्धाः, तत्र जुङ्गितास्तिष्ठन्ति ! वृद्धाः श्रमण्यी निर्गच्छन्ति। एवं गुरुलाघवं परिभव्यं स्वबुद्ध्या भावनीयम्। संप्रति क्षेत्रिकाऽक्षेत्रिकाणां संस्तरणाऽसंस्तरणयोर्गिणां करोतिएमेव भत्तसंसट्ठा,तस्साऽलंभम्मि अप्पभू निंति। जुंगियमादीएसु य, वयंति खेत्तीण ते तेसिं॥ एवमेव अनेनैव प्रकारेण क्षेत्रिकाऽक्षेत्रिकाणामपि संस्तरणे, असंस्तरणे च भावनीयम्। तचैवम्-यदि संस्तरणं तदा क्षेत्रिका अपि नवरमक्षेत्रिका भक्तसंतुष्टास्तिष्ठन्तु / सचित्तमुपधिं चन लभन्ते / तस्मात् (तस्साऽलंभम्मि त्ति)तस्य भक्तस्य अलाभे असंस्तरणे इत्यर्थः / अप्रभवोऽक्षेत्रिका निर्गच्छन्ति / अथ क्षेत्रिका जुङ्गिता, आदिशब्दाद् अजुङ्गिता वा / तदा तेष्वक्षेत्रेषु जुङ्गितादिक्षेत्रिणो व्रजन्ति / अजुङ्गितादयस्तिष्ठन्तु / येषां च संबन्धिनस्ते जुङ्गितादयस्तिष्ठन्तु येषां चासंबन्धिनस्तेजुङ्गिता वृद्धा वा न तेषां तत् क्षेत्रम् आभवति। उपलणमेतत् तेनादेशिनां कुडुक्कादीनां च न आभवति क्षेत्रम् /