________________ खेत्त ७६१-अभिधानराजेन्द्रः भाग-३ खेत्त पत्ताण अणुन्नवणा, सारूविय-सिद्धपुत्त-सण्णीया। भोइय-महयर-णाविय-निवेयण दु-गाउयाई वा।। तग्गाम सन्नि असती, पडिवस पल्लिए व गंतूणं / अम्हं रुइयं खेत्तं, नाऽयं खु करेह अग्नेसिं॥ क्षेत्रप्रत्युपेक्षकाणां यत्र वर्षारात्रः कर्त्तव्यस्तत् क्षेत्रं प्राप्तानामनुज्ञापना भवत्यमीषां कर्तव्या। तानेवाह-सारूपिकासिद्धपुत्रौ प्रागहिभितौ / संज्ञिनौ गृहीताऽनुव्रतदर्शनश्रावकाः / भोजिको ग्रामस्वामी। महत्तरा ग्रामप्रधानाः पुरुषाः / नापिता नखशोधका वारिका इत्यर्थः / एतेषामनुज्ञापना कर्तव्या। यथा-वयमत्र वर्षारात्रं कर्तुकामास्तद्यधन्ये क्वचित्साधव आगच्छेयुस्तदा तेषामेतत् यूयं कथयतेति (दुगाउयाई वेत्यादि) तत्र ग्रामे संज्ञी श्रावको न विद्यते तदा द्वेगव्यूती गत्वा प्रतिवृषभे अन्तरपल्ल्यांवा गत्वा। यदिश्रावकोऽस्ति ततस्तस्य निवेदना कर्तव्या यथाऽस्माकमिदं रुचितं क्षेत्रमेतत् ज्ञातव्यम्। नाऽन्येषां कुरुष्वेति। जयणाए समणाणं, अणुण्ण विता वसंति खेत्तवहिं। वासावासहाणं,आसाढे सुद्धदसमीए।। यतनया सारूपिकादिकं सन्तमनुज्ञाप्य क्षेत्रस्य बहिर्वसन्ति / / वर्षावासस्थानं पुनराषाढशुद्धदशम्याम्। सम्प्रति "जयणाए" इत्यस्य व्याख्यानमाहसारूवियादिजयणा,अन्नेसिंवा विसाहए। वाहिं वा वि, ठिता वा सापायोग्गं ता विगेण्हए। सारूपिकादीनामनयेषां वा यत्साधयति एषा यतना। इयं च प्रागेवोक्ता / अथवा-पूर्वगाथाप्रथमार्द्धस्यैवं व्याख्या-सन्तंसारूपिकादिकमनुज्ञाप्य क्षेत्रस्य बहिर्यतनया वसन्ति / तत्र तामेव यतनामाह-बहिर्वाऽपि स्थितास्तत्र वर्षाप्रायोग्यमुपधिंगृह्णन्ति। उत्पादयन्ति।तंचैवं सङ्घाटकाः सर्वासु दिक्षु प्रत्यासन्न प्रेक्षन्ते / एकै कश्च सङ्घाट आत्मनः परिपूर्णमुपधिमुत्पादयति / एकस्य च जनस्याधिकस्येति। एतदेवाहदोण्हं जतो एगस्सा, निप्पज्जइ तत्तियं वहिट्ठा उ। दुगुणस्साणुवासवहि, संथरे पल्लिं च वज्जंति॥ द्वयोरुपधिर्यस्मादेकस्मादन्यस्य निष्पद्यते। उपधिरात्मनश्च सङ्घाटस्य तदपेक्षया द्विगुणस्तावन्मात्रमुपधिं वर्षायोग्यं सर्वासु दिक्षु वहिः स्थिताउत्पादयन्ति यदि पुनः संस्तरन्ति तदा बहिः प्रतिवृषभग्रामान् अन्तरपल्ली च वर्जयन्ति। न तत्र गच्छन्ति। उच्चारमत्तगादी, छाराऽऽदी चेव वासपाउग्गं। संथारफलगसेज्जा, तत्थ वि ये चेव ऽणुण्णवणे // तथा तत्र बहिः स्थिता एव उचारमात्रकादि आदिशब्दात्प्रश्रवणक्षेत्रमात्रकपरिग्रहः तथा क्षारादिआदिशब्दात्डगगादिपरिग्रहः वर्षाप्रायोग्य तथा संस्तरकफलकशय्या अनुज्ञापयन्ति / अथ कस्मात्सर्वेषां सारूपिकादीनामनुज्ञापना क्रियते / उच्यते-एकस्य कथिते कदाचित्सोऽसद्भूतः स्यात् ततोऽनुज्ञापितमेव जायते / सर्वेषां पुनः कथिते यदि केचिदसद्भूतीभवन्ति तदा ये शेषाः सन्तस्ते अन्येषां साधूनामागतानां कथयन्ति / चैवं वहिस्तिष्ठन्ति / प्रतिवृषभे अन्तरपल्ल्यांच तत्रये न भोक्ष्यन्ते। तथा चाहपुनो य तेसिंतहि मासकप्पो, अण्णं व दूरे खलु वासजोग। ठायंति तो अंतरपल्लियाए, जं एस्स कालेन य भुज्जिहत्ती॥ पूर्णः खलु तेषां तत्र वर्षाप्रायोग्यतया संभावित क्षेत्रे / अथवाआषाढशुद्धदशमी अद्यापि दूरे। अन्यच्चवर्षाकालयोग्य क्षेत्रं दूरे ततः आषाढशुद्धदशमीप्रतीक्षणार्थ यामेष्यत्कालेन भोक्ष्यन्ते तस्यामनन्तरपल्यामुपलक्षणमेतत् प्रतिवृषभे वा ग्रामे तिष्ठन्ति। ___ अत्र आषाढशुद्धदशम्यां वर्षायोग्ये क्षेत्रे समागच्छतिसंविग्गवहुलकाले, एसा मेरा पुरा य आसीय। इयरबहुले उ संपइ, पविसंति अणागयं चेव // एषा मर्यादा पुनरसंविनबहुले काले आसीत् / संप्रति इतरबहुले पार्श्वस्थादिबहुले अनागतमेव प्रविशन्ति। किं कारणम् ? अत आहपेहिए न हु अन्नेहि, पविसंता य पहिया। इयरे कालमासज्ज, पल्लेखा परिवजिया।। अन्यैः प्रेक्षिते क्षेत्रे ननु नैवायतार्थिनो मोक्षाऽर्थिनः प्रविशन्ति / इतरेतु पार्श्वस्थादयः कालमासाद्य परिवर्जिताः पूर्वप्रत्युपेक्षितक्षेत्रानपि प्रेरयेयुस्ततोऽनागतमेव प्रविशन्ति। तत्रार्थे कल्पितमुदाहरणमाह-- रुण्णं तगराहारे, वएहि कुसुमस्सुयं मुयंतेहिं। उज्डाणपडिवत्तीहिं, वटवूलाहि वयं तिहिं॥ तगराहारे आम्रकास्तराम्रोद्यानप्रतिपन्नैर्बब्बूलैर्वृत्तिकरणायावस्थाप्यमानैर्गाथायां स्त्रीत्वं प्राकृतत्वात् वयमाच्छादिता इति हेतोः कुसुमाश्रुभिर्मुच्यमानैरुदितम्।इयमत्र भावनातगराहारे पूर्वं बहव आम्रका आसीरन्, स्तोका वा बब्बूलास्ततो लोकेन बब्बूलान् छित्वा तैराम्रोद्यानस्य वृत्तिः कृताऽत्र बब्बूलफलपतनतो बब्बूला जातास्तैः परिवर्द्धमानैः शालिं सस्यमेव तृणैः आम्रा विनाशिताः / तत उत्प्रेक्षितमाम्रोद्यानप्रतिपन्नईब्बूलैर्वृत्तिकरणाय स्थाप्यमानैः / वयमाच्छादिता नूनमेतैरिति कुसुमाऽश्रुमोक्षणेनाऽऽनैरुदितमिति। अत्रोपनयमाहएवं पासत्थमादीओ, कालेण परिवद्धिया। पेलेज्जा माइठाणेहिं, सोचादी ते इमे पुण // एवमानस्थानीयान् साधून् बब्बूलस्थानीयाः पार्श्वस्थादयः कालेन परिवार्द्धिताः असंयतो मातृस्थानः प्रेरयन्ति / किं विशिष्टास्ते पार्श्वस्थादय ? इति आह-श्रुत्वादयस्ते पुनरित्थमेव वक्ष्यमाणाः। तानेवाऽऽहसोचाऽऽउट्टी अणापुच्छा, मायापुच्छा जहहिते। अजयहिएँ भंडते, ततिए समणुण्णया दोण्हं / / एके-श्रुत्वा उपेत्य, समागताः / अपरे-अनापृच्छाः , समाययुः / अथवा-मायापृच्छाः / एते द्वयेऽप्ययतस्थिताः / तृतीयाः यतस्थिताः। तत्राऽऽद्यानांद्रयानां भण्डमानानां कलहयतां गाथायां सप्तमी