________________ खेत ७५६-अमिधानराजेन्द्रः भाग-३ खेत्त निवृत्ता आचार्याणां पुरतः आलोचयन्ति क्षेत्रस्य गुणान् कथयन्ति। तत्र चान्येऽन्यस्मात्प्राघूर्णकाः समागतास्तेच तान् तथा आलोचयतः श्रुत्वा गत्वा आत्मानो गुरोराचार्यस्य (साहंते) कथयन्ति। ततो ध्रुवं ते यावत्तत्र तिष्ठन्ति, तावद्वयं गच्छामः, एवं कथने तेषां प्रायश्चित्तं लधुको मासः। नच गतानां तेषां तत् क्षेत्रमाभवति। सामच्छण निज्जविए, पयभेदे चेव पंथ पत्ते य। पणवीसादी गुरुगा, गणिणो गाहेण वेज्जस्स। तत् श्रुत्वा यद्याचार्याः (सामच्छणं ति) संप्रधारयन्ति तत् क्षेत्रं गच्छाम इति, तदा तेषां प्रायश्चित्तं पञ्चविंशतिदिनानि। निर्यापितं नाम अवश्य गन्तव्यमिति निर्णयनं तत्र लघुको मासः। पदभेदे क्रियमाणे गुरुको मासः। पथि व्रजतां चतुर्लघुकम् / क्षेत्रं प्राप्तानां चतुर्गरुकम् / एतत् प्रायश्चित्तं गणिन आचार्यस्य, यस्य वाऽऽग्रहेण ते आचार्या व्रजन्ति। तस्याप्येतदेव प्रायश्चित्तम् / न च तत् क्षेत्रं तेषाम् आभवाते / तत्र गत्वा यदि सचित्तमाददति तदा प्रायश्चित्तं चत्वारो गुरुकाः / आदेशान्तरेण अनवस्थाप्यम्, अचित्ते उपधिनिष्पन्नं, तस्मादविधिरेष न कर्त्तव्यः। तथा चाहएसा अविही भणिया, तम्हा एवं न तत्थ गंतव्वं / गंतव्वविहीए पडि-लेहे ऊणं य तं खेत्तं / / यस्माद्दोषोऽनन्तरोदितो विधिर्गाथायां स्त्रीत्वं प्राकृतत्वादेवं तत्र न गन्तव्यम्। खेत्तपडिलेहणविही पढमुद्देसम्मि वण्णिया कप्पे। सचेव इहोइसे,खेत्तविहाणम्मि नाणत्तं॥ क्षेत्रप्रत्युपेक्षणविधिः कल्पे कल्पाध्ययने प्रथमोद्देशे वर्णितः। स एवेह अस्मिन्नपि व्यवहारस्य दशमे उद्देशके द्रष्टव्यः / नवरमत्र क्षेत्रभेदकथेन नानात्वं इहाधिकं क्षेत्रभेदकथनमित्यर्थः / तदेव करोतिखेत्तपडिलेहणविही,खेत्तगुणा चेव वणिया एए। पेहेयध्वं खेत्तं, वासाजोग्गं तु जं कालं // क्षेत्रप्रत्युपेक्षणविधिः, क्षेत्रगुणाश्च एते अनन्तरोदिता वर्णिताः / तत्र कस्मिन्काले वर्षायोग्यं क्षेत्रं प्रत्युपेक्षितव्यमनुज्ञपयितव्यम्। अत आहखेत्ताण अणुण्णवण्णा, जेष्ठा मूलस्स सुद्धपाडिवए। अहिगरणोमाणो मा, मणसंतावो तहा होति। ज्येष्ठा, मूलस्य मासस्य शुद्धप्रतिपदि शुक्लपक्षे प्रतिपदि / क्षेत्राणामनुज्ञापना भवति / किं कारणम् ? अत आह-"अहिगरणो" इत्यादि / अन्येऽपि तत्राज्ञानतस्तिष्ठेयुस्तावद्विधिकरणं भवेत् / तथास्वपक्षेभ्योऽपमानं भूयात् / तथा च सतिमहान्मनःसंतापः प्रेरिता वयं परिभूताः स्म इति। अथवा कलहं प्रवृत्तं वा अयुक्तवचनैर्मनः संतापः स्यात्। तस्मात् ज्येष्ठामूलशुद्धप्रतिपदि कर्त्तव्या तथा ज्ञापना। एतदेवाहएएहि कारणेहिं, अणागयं चेव होइऽनुण्णवणा। निग्गम-पवेसणम्मि य, पहेंताणं विहिं वुर्छ / / एतैरनन्तरोदितैः कारणैरनागतमेव भवति क्षेत्रस्यानुज्ञापना। संप्रति तेषां क्षेत्रं प्रेक्ष्यमाणानां निर्गमे प्रवेशे च विधिं वक्ष्यामि। प्रतिज्ञातमेव करोतिकेई पुव्वं पच्छा, निग्गया पुय्वमइगया खेत्तं / सम सीमं पत्ताण य, तत्थ इमा मग्गणा होइ / / केचित् क्षेत्रप्रत्युपेक्षणाय पूर्व निर्गताः, केचित्पश्चान्निर्गताः, तथा प्रवेशे पूर्वमतिगताः प्राप्ताः क्षेत्रं, केचित्तत्र / समकालं सीमानं प्राप्तानामियं वक्ष्यमाणा मार्गणा भवति-अनया गाथया पादत्रयेऽत्रसमकं किल चतुर्भङ्गी सूचिता। ततस्तामेव दर्शयतिपुट्वं विणिग्गतो पुवं, पत्तो य पुथ्व निम्गतो। पुटवं तु अतिगतो दो, ति पच्छा खेत्तमागओ। जातावेकवचनम्, अतो बहुवचनं द्रष्टव्यम्।पूर्वं निर्गताः पूर्वमेव समकं प्राप्ताः / 1 / पूर्वनिर्गताः पश्चादेकतरे प्राप्ताः 12 // पश्चाद् विनिर्गताः पूर्व प्राप्ताः / 3 / इतरे पश्चाद्विनिर्गताः पश्चादेव च तत् क्षेत्रमागताः।४। पढमगभंगे इणमो, उ मग्गणो पुटवऽणुण्णवेजइओ। तो तेसि होइ खेत्तं, आहे पुण अच्छंति दप्पेण / / तत्र भङ्गचतुष्टयमध्ये, प्रथमके भङ्गे इयं मार्गणा भवति-यदि पूर्वमेव समकं निर्गतैः, पूर्वमेव च समकं तत् क्षेत्रं प्राप्तः, पूर्वमेव च समकमनुज्ञापयन्तिातदा तेषां भवति साधारण क्षेत्रम्। अथ पुनः समकं प्राप्ता अपि एकतरे दर्पण तिष्ठन्ति / दर्पो नाम निष्कारणं, तदा यैः पूर्वमनुज्ञापितं तेषां तत् क्षेत्रम्। नेतरेषाम्। एतदेव स्पष्टतरमाचष्टेखेत्तमतिगया मो त्ति, वासत्ता जइ अच्छहो। पच्छा गयऽणुण्णवए, तेसिं खेत्तं विपाहियं // क्षेत्रमतिगताः प्राप्ताः स्मइति यदि विश्वस्ता आसीरन्न क्षेत्रानुज्ञापनाय प्रयतन्ते / तदा आसतां पूर्व प्राप्ताः किं,पश्चरद्गता अपि ये तेभ्यः पूर्वमनुज्ञापयन्ति क्षेत्रं तेषाम्। तत् क्षेत्र पूर्वं समकं प्राप्तानामविसमकं पूर्व वा न तु ज्ञापनमभूत्तदा कारणस्थितशतेष्टमाभवति / तत् क्षेत्रमन्यस्य पूर्वप्राप्तस्य पूर्वानुज्ञापकस्यवा? तथा क्षपको निष्कारणे क्षेत्रप्रत्युपेक्षणाय न पूर्वं वर्तयितव्यो निषेधात्तेन कारणेन तस्य क्षपकस्य यत् क्षेत्रं तेन क्षपकेण यदनुज्ञापितं क्षेत्रमित्यर्थः / तत्तैर्न लभ्यते / किं वा यैः पश्चादप्यागतैरनुज्ञापितं तेषां तत् क्षेत्रम्। अथ कारणे क्षेत्रप्रत्युपेक्षणाय क्षपकःप्रवर्तितस्तदा तेनानुज्ञापितं न लभन्ते क्षेत्रम् / तथा-क्षपकस्य पारणके व्याकुला इति नाऽनुज्ञापयन्ति। तदा न ते तत् क्षेत्रम्। किंतुयैरनुज्ञापितं तेषामिति। तदेवं गतः प्रथमो भङ्गः। सम्प्रति द्वितीय तृतीयं च भङ्गमधिकृत्य विवक्षुरिदमाहसुय्वविणिग्गय पच्छा, पविट्ठ पच्छा य निग्गया पुव्वं / पविट्ठ कयरें सि खेत्तं, तत्थ इमा मग्ग्णा होई / / पूर्व विनिर्गताः पश्चादन्यापेक्षया क्षेत्रे प्रविष्टाः / अत्र परेपश्चाद्विनिर्गतापेक्षया पूर्व प्रविष्टाः कतरेषां क्षेत्रं भवति ? तत्रेयं भवति मार्गणा। तामेवाहगेलनादिहि कज्जे-हिं पच्छा(इं) ताण होति खेत्तं तु।