________________ खेत्त ७५८-अभिधानराजेन्द्रः भाग-३ खेत्त तस्योभयगुणोपेतत्वात् / आह च चूर्णिकृत्-"जइ ताव तइओ भंगो अणुण्णाओ, प्रागेव पढमो भंगो अणुण्णातो" इति। शेषौ तु द्वौ भङ्गो ज्ञाताऽनुज्ञातौ कुलानामल्पत्वात् / सम्प्रति जनाऽऽकुलतां कुलाऽऽकुलतां च व्याख्यानयति (भोइय) इत्यादि प्रथमभङ्गे च जनाऽऽकुलं भोजिकादिभिरतिप्रभूतैर्जनैराकीर्णत्वात् / कुलाऽऽकुलं मडम्बादिषु स्थानेषु / तथाहि-मडम्बे अष्टादश कुलसहस्राणि आदिशब्दात् पत्तनादिपरिग्रहः व्याख्यातं जनाऽऽकुलद्वारम्। अधुना वैद्यद्वारमौषधद्वारं च युगपदाह-- वेज्जस्स ओसहस्सच, असतीए गिलाणो उजं पावे। वेज्जसगासं नेंतो, आणतो चेव जे दोसा॥ यदि नाम कोऽपि ग्लानो जायते तदा, वैद्यस्य औषधस्य च असति अभावे यत् ग्लानोऽनागाढाऽऽगाढपरितापनादि प्राप्नोति तन्निमित्तं सर्व प्रायश्चित्तमाचार्यः प्राप्नोति / अन्यच्च-तादृशक्षेत्रेऽवतिष्ठमाने वैद्योऽत्र नास्तीति ग्लानेऽन्यस्मिन् ग्रामे वैद्यस्य सकाशं नीयमाने अनीयमाने वा दोषा अनागाढमागाढं वा परितापनं, स्तेनैरुपकरणाद्यपहरणं व्याघ्रादिश्वापदैर्भक्षणमित्यादितहेतुकमपि प्राप्नोति। एवमौषधस्याऽप्यानयनाय साधुषु ग्रामान्तेर प्रेष्यमाणेषु दोषा वाच्याः॥ अधुना निचयद्वारमधिपतिद्वारं चाहनेचझ्या पुण धन्नं, दलत्ति असारअंचितादीसु। अहिवम्मि होइ रक्खा, निरंकुसेसुं वहू दोसा / / निचयेन संचयेन अर्थात् धन्यानां ये व्यवहरन्ति ते नैचयिकाः / ते?; असारा दरिद्राः अञ्चिताः पूज्या राज्यमान्याः पितृपितृव्यादयो वा आदिशब्दादनञ्चितादिपरिग्रहः तेषु, क्रयेणाऽन्यथा वा धान्यं ददति / ततः सर्वत्र भिक्षा सुलभोपजायते / तथ अधिपेऽधिपतौ विद्यमाने रक्षा भवति। निरङ्कुशेषु लोकेषु मध्ये पुनर्वसतो बहवो दोषा उपकरणापहारापमानादिलक्षणाः। पाषण्डद्वारमाहपासंडभाविएसुं, लमंति ओमाणमतिबहूसुं। अवि य विसेसुवलद्धी, हवंति कज्जेसु य सहाया। यदि स्तोकाः पाषण्डास्ततोऽशनादीनि वस्त्राणि भेषजानि तदाऽतिसुलभानि भवन्ति / अतिबहुषु पुनः पाषण्डेषु सत्सु पाषण्डभावितेभ्यो जनेभ्यो गाथायां सप्तमी पञ्चम्यर्थे अपमानं लभन्ते। अपीति संभावने, चः पुनरर्थे संभाव्यते पुनरियं विशेषोपलब्धिरन्यपाषण्डेभ्योऽतिशयोपलब्धिर्यथा यदन्यत्पाषण्डिनां कल्पते। तत्साधूनां न कल्पते। तत एवं लोको भावितः सन् साधूनां कल्पिकं ददाति / तथा कार्येषु च बहुप्रकारेषु शृङ्गनादिताऽऽदिलक्षणेषु वयमपि पाषण्डा, एतेऽपि पाषण्डा धर्मस्थिता इति कृत्वा सहाया भवन्ति। सम्प्रति भिक्षाद्वारमाहनाणतवाण विसिट्ठा, गच्छस्सय संपया सुलभभिक्खे। नय एसणाएँ घातो, नेव ठवणाए मंगो उ। सुलभा भिक्षा यत्र तस्मिन् सुलभभिक्षे ग्रामादौ वसतां ज्ञानस्य श्रुतज्ञानस्य, तपसश्चानशनादेविशिष्टा वृद्धिर्भवत्याहारोपष्टम्भतः, स्वाध्यायस्य तपसश्च कर्तुं शक्यत्वात्। तथा गच्छस्य संपत् स्फीता अतिविशिष्टा भवति। शिष्याणां प्रातीच्छिकानां च अनेकेषामागमातान चएषणाया धातःप्रेरणा, नापिस्थापनायाः मासकल्पवर्षाकल्परूपायाः। अथवा-स्थापनाकुलानां भङ्गः प्रेरणा। स्वाध्यायद्वारमाहवायंतस्स उपणगं, पणगं पडिच्छतो भवे सुत्तं / एगग्गं बहुमाणो, कित्ती य गुणा य सज्झाय।। यत्र स्वाध्यायश्चतुःकालं निर्वहति / तत्र वर्षावासः कर्तव्यः। यतः स्वाध्यायेऽमी गुणाःसूत्रमाचारादिकं सूत्रतोऽर्थतस्तदुभयतश्च वाचयतः। पञ्चकं वक्ष्यमाणं संग्रहादिकं भवति / यथा च वाचयतः पञ्चकं, तथा प्रतीच्छतः श्रोतुरपिपञ्चकेतस्यापि संग्रहादिनिमित्तं श्रुतश्रवणाय प्रवृत्तेः / तथा वाचयतः प्रतीच्छतश्चैकण्यं श्रुतैकपरतोपजायते / सा च विस्रोतसिकाऽवारिता भवति। तथा बहुमानं भक्तिः श्रुतस्य तीर्थकरस्य च कृतं भवति। कीर्तिश्च अवदाता सकलधरामण्डलव्यापिनी। यथाभगवतः आर्यवैरस्येति।व्य०४ उ०। क्षेत्रगुणसंख्यामाहचउग्गुणोववेयं तु, खेत्तं होइ जहन्नगं। तेरसगुणमुक्कोसं, दोण्हं मज्झम्मि मज्झिमगं / / चतुर्भिर्गुणैर्वक्ष्यमाणैरुपेतं भवति क्षेत्रंजघन्यम्। त्रयोदशगुणमुत्कृष्टम्। द्वयोर्जघन्योत्कृष्टयोर्मध्ये मध्यमकम्।। तत्रजघन्यं चतुर्गुणोपेतमाहमहती विहारभूमी, वियारभूमी य सुलभवित्तीय। सुलभा वसहीय जहिं,जहण्णगं वासखेत्तं तु॥ यत्र महती विहारभूमिः भिक्षापरिभ्रमणभूमिः। महती च विचारभूमिः। तथा यत्रवृत्तिर्भिक्षा सुलभा। वसतिश्च सुलभा। तत्जघन्यं वर्षक्षेत्रम् // व्य० 10 उ०। पूर्वोक्तचतुर्गुणादधिकं पञ्चादिगुणं त्रयोदशगुणाच न्यून द्वादशगुणपर्यन्तं मध्यमं क्षेत्रम् / एवं च उत्कृष्ट क्षेत्रे, तदप्राप्तौ मध्यमे, तस्यापि अप्राप्तौ जघन्ये। कल्प १क्षण। अथ क्षेत्रस्याभवनव्यवहारः। तत्र क्षेत्रे तावदाभवनं प्राहवासासु निग्गयाणं, अट्ठसु मासेसु मग्गणा खेत्ते। आयरिय कहण सेहेण, नयणे गुरुगा य सचित्ते / / अष्टसु ऋतुबद्धेषु मासेषु विहरतां वर्षासु विषये क्षेत्रे मार्गणा भवति क्षेत्रमार्गणा। यच्च निर्गतानांसाधूनां क्षेत्र प्रत्युपेक्ष्य प्रत्यागतानामाचार्यस्य पुरतः क्षेत्रगुणकथनं तच्च गच्छान्तरादागतप्राघूर्णकसाधुभिराकर्ण्य निजाऽऽचार्यसमीपं गत्वा तस्य कथनम्। तत्र नयने प्रायश्चित्तं तत्र गतः सचित्ते गृह्यमाणे चत्वारो गुरुकाः। साम्प्रतमेनामेव गाथां विवृणोतिउउवद्धे विहरंता, वासाजोग्गं तु पेहए खेत्तं / वत्थव्वा य गता वा, उवेच खित्ता नियत्तावा॥ ऋतुबद्धे काले विहरन्त आचार्यप्रायोग्य क्षेत्रं प्रत्युपेक्षन्ते। वास्तव्या वा क्षेत्रप्रत्युपेक्षणायोपेत्य गताः / यदि वा-तस्मात् क्षेत्रानिवृत्ताः केचित् स्वगच्छसाधवः समागताः। आलोयंते सोउं, साहंते ते उ अप्पणो गुराणो। कहणम्मि होइ मासो, गयाण तेसिंनतं खेत्तं // ते वास्तव्या गताः क्षेत्रं प्रत्युपेक्ष्य समागताः। ततो वा क्षेत्राद