________________ खेत्त ७५७-अभिघानराजेन्द्रः भाग-३ खेत्त दगाधे निमज्जति।आदिशब्दात्पादजङ्घादिक्षोभिताः सकदर्मजलविपुष उत्थापयति। ताभिश्च प्राणादिविघातः, संमुखं गच्छन् पुरुषादिखरण्टनं निजशरीरोपकरणखरण्टनं चेति परिग्रहः। घुवणे विहॉति दोसा, उप्पीलणादीय वाउसत्तं च। सेहादीणमवण्णा, अधोवणे चीरनासो वा।। कर्दमाकुले मार्गे गमनेन कदम उपकरणे लगति। तथा चोपकरणस्य धावनेऽपि आस्तामधावने इत्यपिशब्दार्थः / दोषाः के ते? इति। आहउत्पीडनादय उत्पीडनं प्राणादीनां प्लावनमादिशब्दात् शरीरायासस्वाध्यायविघातादिपरिग्रहः1 अपिच-वस्त्राणि शरीरं च प्रक्षालयतो वा कुशिकत्वमुपजायते / शरीरे, उपकरणे च कुशीकरणात् / अथ न प्रक्षालयति तयधावने शैक्षकादीनामवज्ञासंभवः, चीरनाशश्च कर्दमेन शटनात्वाशब्दः समुच्चये। ___सम्प्रति प्राणसंभवे दोषानाहमुइंगविच्छुगादिसु, दो दोसा संजमे य सेसेसु / नियमा दोसु दुगुंछिय, अथंडिल-निसग्ग-धरणे य॥ 'मुइंगा' नाम पिपीलिका, पिपीलिकावृश्चिकादिषु शेषेषु च प्राणेषु बाहुल्येन संभवत्सु द्रौ दोषौ / तद्यथा-संयमे चशब्दादात्मनि च, आत्मविराधना संयमविराधना चेत्यर्थः / तत्र वृश्चिकादिभिर्दशादात्मविराधना, कीटकादिसत्त्वव्याधातच संयमविराधना।स्थण्डिलाभावे दोषानाह-(नियमेत्यादि) स्थण्डिलाऽभावे अस्थण्डिले, जुगुप्सिते वा स्थण्डिले, निसर्गे पुरीषप्रश्रवणोत्सर्गे नियमात् दोषाः संयमविराधनादयः, तत्रास्थण्डिले हरितकायादिव्यापादनात् संयमविराधना, पादादिल्हसनादात्मविराधना, जुगुप्सिते स्थण्डिले प्रवचनविराधना, अथैतदोषभयान्न व्युत्सृजति। किंतु-धारयति। तत आह धारणे दोषा आत्मविधातादयः। तथाच-पुरीषादिधारणे जीवितनाशादि "मुत्तनिरोहे चक्युं, वचनिरोहे य जीवियं चयति" इत्यादिवचनात् / ग्लानत्वे चिकित्साकरणतःसंयमव्याघातः॥ यत्र संकटा वसतिर्यत्र च द्वित्रादयो वसतयो न लभ्यन्ते तत्र (वासे) दोषानाहवसहीऍ संकडाए, विरल्ल अविरल्लणे भवे दोसा। वाघातेण व अण्णा, ती दोसाओं वच्चंते॥ वसतौ संकटायां सत्याम् उपधेः (विरल्ले त्ति) विस्तारणे वा दोषा भवन्ति। के ते इति चेत? उच्यते यदि उपधिस्तीमितो विस्तार्यतेतर्हि सकोथमुपयाति, तत्संसर्गतः शरीरस्यचमान्द्यमुपजायते। एकस्याश्च वसतेः कथमपिव्याघाते अन्यस्याश्च अभावे ग्रामान्तरं व्रजनीयम्। तत्र च ब्रजति संयमात्मप्रवचनविराधना / तथाहि-मार्गे जलहरितकायादिव्यापादनात्संयमविराधना। अगाधे सलिले प्रविशत आत्मविराधना। वसत्यलाभतो वर्षाकालेऽपि वर्षप्रपातेनाऽवरुध्यमानात् पथि गच्छतस्तान् दृष्ट्वा लोकः प्रवचनं कुत्सयते ईदृशा एवैतेवर्षास्वपिनाश्रम क्वचिदपि लभन्ते इति प्रवचनविराधना। गोरसाऽभावे दोषानाहअतरंत-वाल-वुड्डा, अभाविता चेव गोरसस्सऽसती। जंपावहित्तिदोसं, आहारमएसु पाणेसुं॥ अतरन्तो नाम असहाः (असमर्थाः) तथा-वालाः, वृद्धाश्च तथा ये अभाविता येषां गोरसव्यतिरेकेण नान्यत्किमपि प्रतिभासते। तेगोरसस्य असति अभावे आहारमयेषु प्राणेषु सत्सु यत् आगाढाऽनागाढपरितापनादिकं दोषं प्राप्स्यन्ति / तन्निमित्तं सर्वमपि प्रायश्चित्तमाचार्योलप्स्यते तस्माद्यत्र तदभावस्तत्र न वस्तव्यम्। अत्र पर आहनणु भणितो रसचाओ, पणीयरसभोयणे य दोसा उ। किं गोरसेण? भंते !, भण्णइ सुण चोयग ! इमं तु // ननु सूत्रे रसानां क्षीरादीनां त्यागो भणितः। "अनशनम्, ऊनोदरतावृत्तिः, संक्षेपणं, रसत्यागः" इत्यादि बाह्यतपोव्यावर्णनात् प्रणीतरसभोजने दोषाः कामोद्रेकादयः शरीरोपचयादिभावात्। ततः किं भदंत! गोरसेन कर्त्तव्यम् ? सूरिराहमण्यते / शृणु चोदक ! इदं वक्ष्यमाणम्। तदेवाहकामं तु रसबागो, चतुत्थमंगंतु वाहिरतवस्स। सो पुण सहू(हा)ण जुज्जति, असहू(हा)णय सज्ज वावत्तिं॥ कामं तपस्तप्तुमेतत् सत्सागश्चतुर्थमङ्गं वा चतुर्थो भेदो बाह्यतपसः। षड्भेदात्मकस्य केवलं पुनःशब्दः केवलार्थः। स रसत्यागःसहानायुज्यते संग ते। असहानामसमर्थानां रसाभावे सद्यस्तत्कालं व्यापत्तिः मृत्युः / अन्यच्चअगिलाएँ तवोकम्मं, परकमे संजतोत्ति इति वुत्तं। तम्हा उत्तरसव्वा, न नियमतो होति सव्वस्स। संयतः तपः कर्म प्रति, अग्लान्या पराक्रमेत् इत्युक्तं भगवता! तस्मात् न नियमतः सर्वस्य रसत्यागो भवति। जस्सनु सरीरजवणा, रुते पणीयं न होइ साहुस्स। सो विय हु मिण्णपिंडं, मुंजउ अहवा जह समाही॥ यस्य साधोः शरीरयापना न प्रणीतं प्रणीतरसमृते भवति / सोऽपि च अश्नुताम् पूर्वोक्ता असहा इत्यपिशब्दार्थः / 'हु' निश्चितं भिन्नपिण्ड घृतादिना मिश्रितंगलितपिण्डं भुञ्जीत। अथवा-यथा-समाधि क्षीरादि भुङ्क्ते केवलं मा गृद्धिर्भूयादिति संपृष्टपानकादिना मीलयित्वा क्षीरमापिवेत्। सम्प्रति "जनाऽऽकुल" पदव्याख्यानार्थमाहचउ भंगो अजणाउल-कुलाउले चेव ततिय मंगो उ। भोइयमादि जणाउल, कुलानल-मडंवमादीसुं॥ जनाऽऽकुलकुलाऽऽकुलयोश्चतुर्भङ्गिका / जनाऽऽकुलमपि कुलाऽऽकुलमपीति प्रथमो भङ्गः। जनाऽऽकुलं, न कुलाऽऽकुलमपि द्वितीयः / न जनाऽऽकुलं कुलाऽऽकुलमिति तृतीयः / न जनाऽऽकुलं नाऽपि कुलाऽऽकुलमिति चतुर्थः। प्रथमभङ्गे--बहूनि मानुषाणि, बहूनि च कुलानि / द्वितीयभङ्गे-कुलानि स्तोकानि, जनास्त्वतिबहवः, कुले कुले भोजकादिजनानां सहस्रसंख्याभावात्। तृतीयभङ्गे-बहूनि कुलानि, जनाः स्तोकाः, गृहे गृहे एकस्य द्वयोर्वा मानुषयोर्भावात्। चतुर्थभङ्गे-न बहूनि कुलानि, नापि बहवो जनाः, कतिपयकुलानां प्रतिकुलं च स्तोकमानुषाणां भावात् / अत्र यौ भनौ ग्राह्यौ तावाहअजनाऽऽकुलेत्यादिना, न जनाऽऽकुलं, कुलाऽऽकुलमिति तृतीयो ग्राह्यः / एतदनुज्ञानात् प्रथमः सुतरामनुज्ञातो द्रष्टव्यः,