SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ एषणाघाय 52 - अभिधानराजेन्द्रः - भाग 3 एषणा 3) भवत्युपधिपात्रादिकमन्तरेण एषणघातः तत एषणाप्रेरणे यत्प्रायश्चित्तं तदापद्यत इति व्य०१ उ०। एसणा-स्वी० (एषणा) इष इच्छायाम् णिच्भावे-युच-प्रेरणायाम्, पुत्रलोकवित्तकामनायाञ्च वाच० अन्वेषणायाम,'णोलोयस्से सणंचरे' लोकस्य प्राणिगणस्यैषणाऽन्वेषणेति आचा० 4 श्रु०१अ०१ उ० प्राप्तौ, "मच्छे सणं झियायंति'' मत्स्यप्राप्ति ध्यायन्तीति 'विसएसणं ज्झियायंति विषयाणां शब्दादीनां प्राप्ति ध्यायन्तीति च / सूत्र०१० 11 अ० / प्रार्थनायाम, "एवं कामेसणं विन्नू" कामानां शब्दादीनां विषयाणां या गवेषणा प्रार्थना तस्यां कर्त्तव्यतायां विद्वान् निपुण इति सूत्र० 1 श्रु० 2 अ० / 'घायमेसंति तं तहा' घातं चान्तशस्तथा सन्मार्गविराधनातया उन्मार्गगमनं चैषन्त्यन्वेषयन्ति दुःखमरणे शतशः प्रार्थयन्तीति सूत्र०१ श्रु०११ अ० 'णिवायमेसंति" निवातमेषयन्ति घङ्घशालादिवस-तीर्वातायनादिरहिताः प्रार्थयन्तीति। आचा०२ श्रु० 6 अ०२ उ० वाचनायाम्, 'कडेसु घासमेसेज्जा" ग्रस्यत इति ग्रास आहार-स्तमेवंभूतमन्वेषयेत् मृगयेत्याचेदित्यर्थ इति। सूत्र०१श्रु०१ अ०/एषणमेषणा अशनादेहणकाले,शङ्कादिभिः प्रकारै-रन्वेषणे, प्रव० 67 द्वा० / उद्गमादिदोषविप्रमुक्ते भक्तपानादिगवेषणे, स्था०६ ठा०। गृहिणा दीयमानपिण्डादेहणे, स्था०३ ठा०॥ एष्यतइत्येषणा उत्त०१ अ० शुद्धाहारादौ, च (चरंतमेसणं) एषणायां चरन्तं परिशुद्धाहारादिना वर्तमानमिति। आचा०२ श्रु०। (1) एषणायाः भेदाः। (2) पिण्डोपसंहारः एषणायाः अपक्षेपनिराकरणम्। एषणानिक्षेपः। (4) एषणाया विस्तरतो भेदनिरूपणम्। ग्रहणैषणादिनिक्षेपः। एषणायाः शङ्कितादिदोषाणामपि बहुभेदत्वम्। (7) विस्तरेण ग्रासैषणानिक्षेपादिकम्। एषणासमितेन अनेषणीयपरिहारः। पुराऽऽयातान्यभिक्षुकसंभवे विधिः / ग्रासैषणाविधिः। (11) शतसहस्रगच्छे एषणादोषपरिहारप्रकारः। (12) एषणादौषप्रायश्चित्तम्। (13) पिण्डैषणापिण्डग्रहणप्रकारः। (14) एषणायां कर्त्तव्यतानिरूपणम्। (1) एषाणायाः भेदाःसा च त्रिविधा गवेषणग्रहणग्रासैषणाभेदात् / स्था०५ ठा० / तथा च पिण्डनियुक्तरादावियमधिकारसंग्रहगाथा / / पिंडुग्गम उप्पाय-णेसणासंजोयणाषमाणं च। इंगालघूमकारक-अहविहा पिंडनिझुत्ती॥ एषणमेषणा सा वक्तव्या एषणाभिधा तद्यथा गवेषणैषणा ग्रहणषणा ग्रासैषणा च / तत्र गवेषणे एषणा अभिलाषो गवेषणैषणा / एवं ग्रहणैषणाग्रासैषणे अपि भावनीये / तत्र गवेषणैषणा उद्मोत्पादनाविषयेति तद्रहणेनैव गृहीता। ग्रासैषणा त्वभ्यवहारविषया ततः संयोजनादिग्रहणेन सा ग्रहीष्यते तस्मादिहपारिशेष्यादेषणाशब्देन ग्रहणैषणा गृहीता द्रष्टव्या / ग्रहणैषणाग्रहणेन च ग्रहणषणा नता दोषा देदितव्यास्तथा विवक्षणात्ततोऽयं भावार्थः उत्पादनादोषाभिधानानन्तरं | ग्रहणैषणा गता दोषाः शङ्कितम्रक्षितादयोऽभिघातव्याः। (2) पिण्डस्योपसंहारमेषणायाश्चापक्षेपं चिकीर्षुरिदमाह / / संखेवपिंडियत्थो, एसो पिंडो मए समक्खाओ। फुडवियडपायडत्थं,बोच्छामी एसणं पत्तो // 73 // एवं पूर्वोक्तेन प्रकारेण संक्षेपपिण्डितार्थ संक्षेपेण समासेन सामान्यरूपतयेत्यर्थः पिण्डित एकत्र मीलितस्तापर्यमात्रव्यवस्थितोऽर्थोभिधेयं यस्य स तथा रूपपिण्डो मया व्याख्यातः इत ऊर्द्धमेषणामेषणाभिधायिकां गाथासंततिं स्फुटवि कटप्रकटा स्फुटो निर्मलो न तात्पर्यानवबोधेन कश्मलरूपो विकटः सूक्ष्ममतिगम्यतया दुर्भेदः प्रकटस्तथाविधविशिष्टवचनरचना-विशेषतःसुखप्रतिपाद्यायाऽक्षरा एष्वव्याख्यातेष्वपि प्रायः स्वयमेव परिस्फुरन्निव लक्ष्यतेसप्रकट इति भावार्थः प्रायः स्वयमेव परिस्फुरन्निव लक्ष्यते सप्रकट इति भावार्थ: अर्थोऽभिधेयं यस्याः स तथा तां वक्ष्ये तत्र तत्वभेदपर्यायव्याख्येति प्रथमतः सुखा-वबोधार्थमेषणाया एकाथिकान्यामिधित्सुराह॥ एसणगवेसणमग्ग-णा य उग्गोवणा य बोधव्वा / एए उ एसणाए, नामा एगट्ठिया हॉति // एषणा गवेषणा मार्गणा उद्रोपना / एतानि चशब्दादन्वेषणाप्रभृतीनि च एषणाया एकार्थिकानि नामानि भवन्ति / तत्र इषु इच्छायाम् एषणं एषणा इच्छा गवेषणमार्गणे गवेषणं गयेणा मार्गणं मार्गणा उद्रोपनमुद्रोपना पिण्ड०। (3) एषणाया निक्षेपो यथा। नाम ठवणा दविए, भावम्मि य एसणा मुणेयव्वा। दवम्मि हिरण्णाई, गवेसणामुंजणाभावे // 622 / / नामस्थापने सुगमे द्रव्यविषयां यदा हिरण्यादिगवेषणां करोति कश्चिद्भावे भावविषया त्रिविधा गवेषणषणा अन्वेषणैषणा ग्रहणैषणा पिण्डादीनामेषणा भुञ्जानैषणा वेति साच गवेषणैषणा ओघातथाच दशवकालिके क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यैषणामाह।। दव्वेसणा उतिविहा, सचित्ताचित्तमीसदव्वाणं। दुपयचउप्पयअपया, नरगयकरिसावणदुमाणं // 2 // द्रव्यैषणा तु त्रिविधा भवति सचित्ताचित्तमिश्रद्रव्याणामेषणा द्रव्यैषणा | सचित्तानां द्विपदचतुष्यदापदानां यथासंख्यम् नरगजगुमाणामिति कापिणाग्रहणदचित्तद्रव्यैषणालंकृतद्विपदादिगोचरमिश्रद्रव्यैषणा च द्रष्टव्येति गाथार्थः / भावैषणामाह भावेसणा उ दुविहा, पसत्थअपसत्थगा य नायव्वा / नाणाईण पसत्था, अपसत्था कोहमाईणं ||3|| भावैषणातु पुनर्दिविधा प्रशस्ता अप्रशस्ता ज्ञातव्या। एतदेवाह झानादीनामेषणा प्रशस्ता अप्रशस्ता क्रोधादिनामेषणेति गाथार्थः / प्रकृतयोजनामाह। भावस्सुवगरित्ता, एत्थं दव्वेसणाए अहिगारो। तिई पुण अत्थजुत्ती, वत्तव्वा पिंडनिजुत्ती // // भावस्यज्ञानादेरुपकारित्वादत्र प्रक्रमे द्रव्यैषणयाधिकारः तस्याः पुनर्द्रव्यैषणाया अर्थयुक्तिक्ष्येतररूपार्थयोजना वक्तव्या पिण्डनियुक्तिरिति गाथार्थः दश०५ अ०। तथा च विस्तरेण भेदानभिधित्सुराह। (10)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy