________________ खवगसेढि ७३२-अभिधानराजेन्द्रः भाग-३ खवगसेढि इति(हैम)वचनात् कर्मण्यनट्प्रत्ययः। तैः। शेषं सुगमम्। गत्वाऽगत्त्वा च समुद्धातं भवोपग्राहिकर्मक्षपणाय लेश्यातीतमत्यन्ता प्रकम्प परमनिर्जराकारणं ध्यानं प्रतिपित्सुर्योगनिरोधायोपक्रमत एव / तत्र पूर्वं बादरकाययोगेन बादरमनोयोगं निरुणद्धि, ततो वाग्योगम् / ततः सूक्ष्मकाययोगेन बादरकाययोगम्। ततस्तेनैव सूक्ष्मकाययोगेने सूक्ष्ममनोयोग, ततः सूक्ष्मवाग्योगं निरुन्धानः सूक्ष्म क्रियाऽप्रतिपातिध्यानमारोहति / तत्सामर्थ्याच्च वदनोदरादिवि वरपूरणेन संकुचितदेहत्रिभागवर्तिप्रदेशो भवति। तस्मिंश्च ध्याने वर्तमानः स्थितिघातादिभिरायुर्वमनि सर्वाण्यपि भवोपग्राहिकर्माणि तावदपवर्तयति यावत्सयोग्यवस्थाचरमसमयः। तस्मिंश्च चरमसमये सर्वार्ष्यापि कर्माणि अयोग्यवस्थासमस्थितिकानिजातानि। नवरं येषां कर्मणामयोग्यवस्थायामुदयाभावस्तेषां स्थिति स्वरूपं प्रतीत्य समयोनां विधत्ते ! कर्मत्वमात्ररूपता त्वाश्रित्यायोग्यवस्थासमानामेव स्थितिं करोति / तस्मिंश्च सयोग्यवस्थाचरमसमये अन्यतरद्वेदनीयमौदारिकतैजसकार्मणशरीरसंबद्धे बन्धनसङ्घातनसंस्थानषट्कप्रथमसंहननौदारिकाङ्गोपाङ्गवर्णादिचतुष्टया गुरुलघूपघातपराघातोच्छ्वासशुभाशुभविहायोगतिप्रत्येकस्थिराऽस्थिरशुभाशुभसुस्वरदुःस्वरनिर्माणनाम्नामुदयोदीरणाव्यवच्छेदः / ततोऽनन्तरसमये अयोगिकेवली भवति। अयोगिकेवली च भवस्थो जघन्योत्कर्षमन्तर्मुहूर्त कालं भवति। स च तस्यामवस्थायां वर्तमानो भवोपग्राहिकर्मक्षपणाय व्युपरतक्रियमप्रतिपातिध्यानमारोहति / एवमसावयोगिकेवली स्थितिघातादिरहितोयान्युदयवन्ति कर्माणि तानि स्थितिक्षयेणानुभवन् क्षपयति / यानि पुनरुदयवन्ति तदानीं न सन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमानस्तावद्याति यावदय-योग्यवस्थाद्विचरसमयः॥६७। देवगइसहगयाउ, दुचरमसमयभवसिद्धियम्मि खीयंति। सविवागेयरनामा, नीया गोयं पितत्थेव॥६८|| देवगल्या सह गताःस्थिताः देवगतिसहगताः देवगत्या सह एकान्तेनेह बन्धो यासां ताः देवगतिसहगता इत्यर्थः / कास्ता इति चेत्? उच्यतेवैक्रियाहारकशरीरे, वैक्रियाहारकबन्धने, वैक्रियाहारकसङ्घाते, वैक्रियहारकाङ्गोपाङ्गे, देवगतिर्देवानुपूर्वीच एता देवगतिसहगताः / द्विचरसमयभवसिद्धिके इति। द्वौ चरमो समयौ यस्य भवसिद्धिकस्य स द्विचरमसमयः, स चासौ भवसिद्धिकश्च तस्मिन् द्विचरसमयभवसिद्धिके क्षीयन्ते क्षयमुपगच्छन्ति / तथा तत्रैव द्विचरसमयभवसिद्धिके सविपाकेतरनामानि विपाक उदयः, सह विपाकेन यानि वर्तन्ते तानि सविपाकानि, तेषामितराणि प्रलिपक्षभूतानि यानि नामानि तानि सविपाकेतरनामानि, अनुदयवत्योनाम प्रकृतय इत्यर्थः। ताश्चेमाःऔदारिकतैजसकार्मणशरीरम् औदारिकतैजसकामणबन्धनसङ्घातानि, संस्थानषट्कम्, संहननषट्कम, औदारिकाङ्गोपाङ्गं, वर्णगन्धरसस्पर्शा, मनुजानुपूर्वी, पराघातम्, उपधातम् अगुरु, लघु, प्रशस्ताप्रशस्तविहायोगती, प्रत्येकमपर्याप्तकमुच्छ्वासनाम्, स्थिरास्थिरे, शुभाशुभे, सुस्वरदुःस्वरे, दुर्भगम्, अनादेयम् यशः कीर्तिनिर्माणमिति, तथा नीचैर्गोत्रम्, अपिशष्दादन्यतरनुदितं वेदनीयं सर्वसंख्यया सप्तचत्वारिंशत् प्रकृतयः क्षयमुपयान्ति // 68|| अन्नयरवेयणिज्जं, मणुयाउयउच्चगोयनवनामा। वेएइ अजोगिजिणो, उक्कोसो जहन्नइक्कारं // 66 // अन्यतरद्वेदनीयं सातमसातं वा द्विचरमसमयक्षीणादितरद मनुष्यायुरुच्चैर्गोत्रं नव नामानि नव नामप्रकृतीः, सर्वसंख्यया द्वादश प्रकृतीर्वेदयते। अयोगिजिनोऽयोगिकेवली जघन्येन एकादश, ताश्चता एव द्वादश, तीर्थकरवर्जा द्रष्टव्याः॥६६॥ नवनाम इत्युक्तं ततस्ता एव नवनामप्रकृतीदर्शयतिमणुयगइजाइतस-बायरं च पज्जत्तसुभगमाइज्जं / जसकित्ती तित्थयरं, नामस्स हवंति नव एया॥७०|| गतार्था। अत्रैव मतान्तरं दर्शयतितथाणुपुव्वीसहिया, तेरस भवसिद्धियस्स चरिमम्मि / संतं सगमुक्कोसं, जहन्नयं बारस हवंति / / 71 / / तृतीयानुपूर्वी मनुष्यानुपूर्वी तया सहितास्ता एव द्वादश प्रप्रकृतयस्त्रयोदश सत्यो भवसिद्धिकस्य तद्भवमोक्षगामिनः (संतं सगत्ति) सत्कर्म उत्कृष्ठ भवति। जघन्यं पुनदश प्रकृतयो भवन्ति ताश्चद्वादश प्रकृतयस्ता एव त्रयोदशतीर्थकरनामसहिता वेदितव्याः॥७१।। अथ कस्मात्ते एवमिच्छन्ति? इति / आहमणुयगइसहगया उ, भवखित्तविवागजीवविवागि त्ति। वेयणियन्नयरुच्चं, व चरिमभवियस्स खीयम्मि।।७२|| मनुजगत्या सह गताः स्थिताः मनुजगतिसहगताः, मनुष्यगत्या सह यासामुदयस्ता मनुजगतिसहगता इत्यर्थः / किं विशिष्टास्ता इत्याह(भवखित्तविवागजीविवागि त्ति) भवविपाकाः क्षेत्रविपाका जीवविपाकाश्च / तत्र भवविपाका मनुव्यायुः, क्षेत्रविपाका मनुष्यानुपूर्वी, शेषा नव जीवविपाकाः। तथाऽन्यतरवेदनीयमुच्चैर्गोत्रं च, सर्वसंख्यया त्रयोदश प्रकृतयो भविकस्य भवसिद्धिक स्य चरमे समग्रे क्षीयन्ते, न द्विचरमसमये / ततश्चरमसमये भवसिद्धिकस्योत्कृष्ट सत्कर्म त्रयोदशप्रकृतयो जघन्यतो द्वादश भवन्तीति / अन्ये पुनराहुः-मनुष्यानुपूर्ध्या द्विचरमसमय एव व्यवच्छेदः उदयाभावात् / उदयवतीनां हि स्तिबुकसंक्रमाभावात् स्वस्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यच्छेदः / आनुपूर्वी नाम्नां तु चतुर्णामपि क्षेत्रविपाकितया भवापान्तरालगतावे वोदयः, तेन न भवस्थस्य तदुदयसंभवः, तदसंभवाच्चायोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेद इति / एतदेवमतमधिकृत्य प्राक् द्विचरमसमये सप्तचत्वारिंशत्प्रकृतीनां सत्ताव्यवच्छेदो दर्शितः / चरमसमये तूत्कर्षतो द्वादशानां जघन्यत एकादशानामिति। ततोऽनन्तरसमये कोशबन्धमोक्षलक्षणसहकारिसमुत्थस्वभा-वविशेषाद् एरण्डलफलमिव भगवानपि कर्मसंबन्धमोक्षलक्षण-सहकारिसमुत्थस्वभावविशेषादूर्द्ध लोकान्ते गच्छति / सचोर्ट्स गच्छन् ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावतःप्रदेशानूवमप्यवगाहमानो विवक्षितसमयाच्चान्यत्समयान्तरमस्पृशन् गच्छति। उक्तं चावश्यक चूर्णी-" जत्तिए जीवो अवगाढी तावइयाए ओगाहणाए उड़े उज्जुगं गच्छइ नवकंबीयं च समय न फुसइ त्ति'।। इत्थं चानेके भगवन्तः कर्मक्षयं कृत्वा तत्र गताः सन्तः सिद्धिसुखं शाश्वतं कालमनुभवन्तोऽवतिष्ठन्ते / कर्म०६ कर्म०। पं०सं० आचा०||