SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ खवगसेढि ७३१-अभिधानराजेन्द्रः भाग-३ खवगसेढि मयन् चरमसमये सर्वसंक्रमेणं संक्रमयति। मानस्याऽपि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातम्। ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयतेचतावद्यावत्समयाधिकावलिकामात्रं शेषः / ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत् यावत् समयाधिकावलिकामात्रं शेषः। तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानांयुगपद्व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव, शेषस्य मायायां प्रक्षिपत्वात्। ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्तम् / मानस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य संबन्धिदलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण मायायां प्रक्षिपति / मायाया अपि च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकाशेषं जातम् / ततोऽनन्तरसमये मायायाः द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावत् यावत्समयाधिकावलिकामात्र शेषः / ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्द्यावद् समयाधिकावलिकामाचं शेषः। तस्मिन्नेवसमये मामायाः बन्धोदयो दीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्याः समयो नावलिकाद्विक बद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तरवावात् / ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावदन्तर्मुहूर्तम् / संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने तस्याः संबन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण लोभे सर्व संक्रमयति।लोभस्यच प्रथमकिट्टिदलिकं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकामात्रं शेषं जातम् / ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च / तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्म किट्टीः करोति, तावद् यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितिकृतस्य समयाधिकावलिकामात्रं शेषः / तस्मिन्नेव च समये संज्वलनलोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणा व्यवच्छेदोऽनिवृत्तिबादरसंपरायगुणस्थानकव्यवच्छेदश्च युगपज्जायते / ततोऽनन्तरसमये सूक्ष्मकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च। तदानीमसौ सूक्ष्मसंपराय उच्यते। पूवोक्ताश्चा-वलिकास्तृतीयकिट्टिगताः शेषीभूताः सर्वा अपि वेद्यमानासुपरप्रकृतिषु स्तिबुकसंक्रमण संक्रमयति / प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्यन्तर्गता वेद्यन्ते / सूक्ष्मसंपरायश्च लोभस्य सूक्ष्मकिट्टीर्वे दयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकवद्धंच प्रतिसमयं स्थितिघातादिभिस्तावत् क्षपयति यावत्सूक्ष्म-संपरायाद्धायाः संख्येया भागा गता भवन्ति, एकोऽवशिष्यते / ततस्तस्मिन् संख्येयभागे संज्वलनलोभं सर्वापवर्तनयाऽपवर्त्य सूक्ष्मसंपरायाद्धासमं करोति / सा च सूक्ष्मसंपरायाद्धा अद्याप्यन्तर्मुहूर्तप्रमाणा। ततः प्रभृति च स्थितिघातादयो निवृत्ताः शेषकर्मणां तु प्रवर्तन्त एव / तां च लोभस्यापवर्त्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिका वलिकामानं शेषः / ततोऽनन्तरसमये उदीरणा स्थिता। तत उदयेनैव केवलेन तां वेदयते यावच्चरमसमयः। तस्मि श्चरमसमये ज्ञानावरणपशकदर्शनावरणचतुष्कयशःकीयुचैगौत्रान्तरायपञ्चकरूपाणां षोडश कर्मणां बन्धव्यवच्छेदः मोहनीयस्योदयसत्ताव्यवच्छेदश्य॥६६।। अमुमेवार्थ संकलय्य सूत्रकृत्प्रतिपादयतिपुरिसं कोहे कोहं,माणे माणं च बुहइ मायाए। मायं च बुहइ लोहे, लोहं सुहुमं पि तो हणई // 67 / पुरुषं पुरुषवेदं बन्धादौ व्यवच्छिन्नेसति गुणसंक्रमेण क्रोधेसंज्वलनक्रोधे (बुहइत्ति) संक्रमयति। क्रोधस्यापिच बन्धादौ व्यवच्छिन्ने तं क्रोधं माने संज्वलनमाने संक्रमयति / संज्वलनमानस्यापि बन्धादौ व्यवच्छिन्ने तं संज्वलनमानं गुणसंक्रमेण मायायां संज्वलनमायायां प्रक्षिपति / संज्वलनमायाया अपि बन्धादौ व्यवछिन्ने तो संज्वलनमायां लोभे संज्वलनलोभे गुणसंक्रमेण संक्रमयति। संज्वलनलोभस्यापि च वन्धादौ व्यवच्छिन्ने / तं संज्वलनलोभं सूक्ष्ममपि, अपिशब्दाच्छेषमपि हन्ति स्थितिघातादिभिर्विनाशयति / लोभे च साकल्येन विनाशिते सत्यनन्तरसमये क्षीणकषायो जायते / तस्य च क्षीणकषायस्य मोहनीयवानां शेषकर्मणां स्थितिघातादयः पूर्वत् प्रवर्तन्ते तावद्द्यावत् क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते / तस्मिश्च ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपकाकनिद्राद्विक रूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति / के वलं हि निद्राद्विकस्य स्वरुपापेक्षया समयन्यूनं, कर्मत्त्वमात्रापेक्षया तुतुल्यम्। सा च क्षीणकषायाद्धा अद्याप्यन्तर्मुहूर्तप्रमाणा, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येव / तानि चषोडशकर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमानस्तावद्रतो यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये उदीरणा निवृत्ता, तत आवलिकामात्रं कालं यावदुदयेनैव केवलेन वेदयते यावत् क्षीणकषायाद्वाया द्विचरमसमयः तस्मिश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणं चतुर्दशानां च शेषप्रकृतीनां चरमसमये क्षयः / तथा चाह सूत्रकृत्"खीणकसायदुचरिमे, निद्दापयला य हणइछउमत्थो। आवरणमंतराए, छउमत्थे चरिमसमयम्मि // 1 // व्याख्यातार्था / ततोऽनन्तरसमये सयोगिकेवली भवति / स च लोकमलोकं वा सर्व सर्वात्मना परिपूर्ण पश्यति। न हि तदस्ति भूतं भवद्भविष्य द्वा यद् भगवान् न पश्यति उक्तं च-विशेषावश्यके-"संभित्रं पासंतो, लोगमलोगं च सव्वओ सव्वं / तं नत्थि जंन पासइ, भूयं भब्वं भविस्सं च 11342 / " इत्थंभूतश्च सयोगिकेवली जघन्यतोऽन्तर्मुहूर्तम्, उत्कर्षतो देशोनांपूर्वकोटि विहृत्य कश्चित्कर्मणां समीकरणार्थ समुद्धातं करोति। यस्य वेदनीयादिकमायुषः सकाशात् अधिकतरं भवति / अन्यस्तु न करोत्येव / तथा चोक्तं प्रज्ञापनायम्-'"सव्वो विणं भंते! केवलिसमुग्धायं गच्छति? गोयमा! नो इणढे समठे समट्ट, जस्साऽऽउरण तुल्लाई बंधणेहि ठिईए य भयोवग्गहकम्माई स न समुग्घायं गच्छइ "अगंतूणं समुग्धाय-मणंता केवली जिण जरमरणविप्पमुक्का, सिद्धिं वरगइंगया।१।" अत्र (वंधणेहि ति) बध्यन्ते इति वन्धनाः कर्मपरमाणवः / कृत् "बहुलम्' / 5 / 1 / 3 /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy