________________ खवगसेढि ७३०-अभिधानराजेन्द्रः भाग-३ खवगसेढि श्रेणिमारभते, ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते / यत आह-भाष्यकृत-'इयरो अणुवरओचिय, सयलं सेढिं समाणेई' चारित्रमोहनीयं च क्षपयितुं यतमानो यथा प्रवृत्तादीनि त्रीणि करणानि करोति, तद्यथा-यथा प्रवृत्तकरणमपूर्वकरणनिवृत्तिकरणं च / एतेषां च स्वरूपं पूर्ववदेवावगमन्तव्यम् नवरमिह यथा प्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यम्, अपूर्वकरणमपूर्वगुणस्थानके। अनिवृत्तिकरणमनिवृत्तिबादरसंपरायगणुस्थानके। तत्रापूर्वकरणेस्थितिघातादिभिरप्रत्याख्यानप्रत्याख्यानावरणकयाष्टकं तथा क्षपयति स्म, यथा अनिवृत्तिकरणाद्धायाः प्रथमसमये तत्पल्योपमासंख्येयभागमात्रस्थितिकं जातम्। अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु सत्सुस्त्यानद्धित्रिकनरकगतितिर्यग्गतिनरकानुपूर्वीतिर्यगानुपूर्येकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपाणां षोडश प्रकृतीनामुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमासंख्येयभागमात्रा स्थितिर्जाता। ततो वध्यमानासु प्रकृतिषु तानि षोडश कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि प्रक्षिप्यमाणानि निःशेषतः क्षीणानि भवन्ति / इहाप्रत्याख्यानप्रत्याख्यानाचरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं, परं तन्नाद्यापि क्षीणं, केवलमपान्तराल एव पूर्वोक्तप्रकृतिषोडशकं क्षपितम्। ततः पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्तमात्रेण क्षपयति / तथा चाह"अनियट्टिवायरं थी-णगिद्धितिगनिरयतिरियनामा उ / संखेज्ज इमे सेसे, तप्पाउग्गा य खीयंति। एत्तो हणइ कसाय-टुगं पि पच्छा नपुंसगं इत्थीं। तो नो कसायछक्के छुडभइ संजलणकोहंम्मि''||२|| अनिवृत्तिबादरगुणस्थानके संख्येयतमे भागे शेषे स्त्यानर्द्धित्रिक निरयगतितिर्घग्गतिनाम्नी तत्प्रायोग्याश्च निरयगतितिर्यग्गतिप्रायोग्याश्च एकेन्द्रियद्रीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिनिरयानुपूर्वी तिर्यगानुपूर्वीस्थावरातपोद्योतसूक्ष्मसाधारणरूपाः सर्वसंख्यया षोडश प्रकृतयः क्षीयन्ते। तत इतः प्रकृतिषोडशकक्षयादनन्तरं निःशेषतः कषायाष्टकं हन्ति। अन्ये पुनराहुः षोडश कर्माण्येव पूर्व क्षपयितुमारभते. केवलमपान्तरालेऽष्टौ कषायान् क्षपयति, पश्चात् षोडश कर्माणि / ततोऽन्तर्मुहूर्त्तमात्रेण नवानां नोकषायाणां चतुर्णा संज्वलनानामन्तरकरणं करोति। तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुबलनविधिना क्षपयितुमारभते। तच्चान्तर्मुहूर्तमात्रेण पल्योपमासंख्येयभागमात्रं जातम्। ततः प्रभृति वध्यमानासुप्रकृतिषु गुणसंक्रमेण दलिकं प्रक्षिपति। तचैवं प्रक्षिप्यमाणमन्तर्मुहूर्त्तमात्रेण निःशेष क्षीणम्, अधस्तनदलिकञ्च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढः ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्र, तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति। तदेवं क्षपितो नपुंसकवेदः। ततोऽन्तर्मुहूर्त्तमात्रेण स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते। ततः षट् नोकषायान् युगपत् क्षपयितुमारभते। ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे संक्रमयति, किं तु संज्वलनक्रोधे। तथा चाह सूत्रकृत्-''पच्छा नपुंसग इत्थी नोकषायछक्के बुढभइ संजलणकोहम्मि'' कषायाष्टकक्षयानन्तरं पश्चात् (नपुंसगं) नपुंसकवेदं क्षपयति / ततः (इत्थीं) स्त्रीवेदम् / ततः षट् नोकषायान् क्षपयन्। तेषामुपरितनस्थितिगतं दलिक संज्वलनक्रोधे (छुडभइ ति) क्षिपति, न पुरुषवेदे / एतेऽपि च षट् नोकषायाः संज्वलनक्रोधे पूर्वोक्तविधिना क्षिप्यमाणा अन्तर्मुहूर्त्तमात्रेण निःशेषाः क्षीणाः / तत्समयमेव च पुरुषवेदस्य बन्धादयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकवद्ध मुक्त्वा शेषदलिकस्य क्षयश्च, ततोऽसाविदानीभवेदको जातः। एवं पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् / यदा तु नपुंसकवेदेन क्षपकश्रेणिं प्रतिपद्यते तदा प्रथमं स्त्रीवेदनपुंसकवेदौ युगपत् क्षपयति। स्त्रीवेदनपुंसकवेदक्षयसमकालमेव पुरुषवेदस्य बन्धो व्यवच्छिद्यते / तदनन्तरं चावेदकः सन्पुरुषवेदहास्यादिषट्के युगपत् क्षपयति। यदातु स्त्रीवेदेन प्रतिपद्यते तदा प्रथमतो नपुंसकवेदं, ततः स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुरुषवेदस्य बन्धव्यवच्छेदः। ततोऽवेदकः पुरुषवेदहास्यादिषट्के युगपत् क्षयपति / संप्रति पुरुषवेदन क्षपक श्रेणि प्रतिपन्नमधिकृत्य प्रस्तुतमभिधीयतेक्रोधं वेद यमानस्य सतस्तस्याः क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-अश्वकर्ण करणाद्धा, किट्टिकरणाद्धा, किट्टिवेदनाद्धा च। तत्राऽऽश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तानि अपूर्वस्पर्द्धकानि चतुर्णामपि संज्यलनानामन्तरकरणादुपरितनस्थितौ करोति। अस्यांच अश्वकर्णकरणाद्धायां वर्तमानः पूरुषवेदमपि समयोनावलिकाद्विकेन कालेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति / तदेवं क्षीणः पुरुषवेदः / अश्वकर्णकरणाद्धायां च समाप्तायां किट्टिकरणाद्धायां प्रविशति / तत्र च प्रविष्टः सन् चतुर्णामपि संज्वलनानामुपरितनस्थितिगतस्य दलिकस्य किट्टीः करोति। ताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूरजातभेदापेक्षया द्वादश कल्प्यन्ते। एकैकस्य च कषायस्य तिस्रस्तिसः, तद्यथाप्रथमा, द्वितीया, तृतीया च। एवं क्रोधेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम्। यदा तुमानेन प्रतिपद्यते, तदा उद्बलनविधिना क्रोधे क्षपिते सति त्रयाणा पूर्वक्रमेण नव किट्टीः करोति।मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्धलनविधिना क्षपियतोः सतोः शेषद्विकस्य पूर्वक्रमेण षकिट्टीः करोति। यदि पुनर्लोभेन प्रतिपद्यते तत उद्बलनविधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति / एष किट्टीकरणविधिः। किट्टीकरणादायां निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतम् आकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोतिवेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः / ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावत्समयाधिकायलिकामाचं शेषः। तिसृष्वपि चामूषु किट्टिवेदनाद्धासूपरितनस्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमयमसंख्येयगुणवृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति / तृतीयकिट्टिवेदनाद्धायाश्च चरमसमये संज्वलनक्रोधस्यबन्धोदयोदरिणानां युगपद् व्यवच्छेदः सत्कर्मापि च तस्य समयोनावलिकाद्विकवद्ध मुक्त्वाऽन्यन्नास्ति, सर्वस्यापि माने प्रक्षिप्तत्यात् / ततोऽनन्तरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्तम् / क्रोधस्यापि च वन्धादौ व्यवच्छिन्ने सति तस्य संबान्ध दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण संक्र