________________ खलुक ७२६-अभिधानराजेन्द्रः भाग-३ खलुंक त्ता इति) स्वस्वामिनं शकटम् उन्मार्गे लात्वा कुत्रचिद्विषमप्रदेशे भक्त्वा स्वयं पलायते७॥ खलुका जारिसाजोज्जा, दुस्सीसा वि हु तारिसा। जोइया धम्मजाणंमि, भज्जंती धिइदुव्वला ||8|| गाय॑नामा आचार्य एवं वदति भो मुनयो! यथा लोके खलुंकाः अत्र उक्तलक्षणाःगलिवृषभाः योज्याः रथस्याग्रेधुरियोत्कृताः सन्तो यादृशा भवन्ति। रथारोहकस्य असमाधिक्लेशकरा भवन्ति। 'हु' इति निश्चयेन, आचार्यस्यापि दुःशिष्या दुष्टाः शिष्याः विनयरहिताः कुशिष्यास्तादृशा भवन्तिा धर्मयाने मुक्तिनगरप्रपिकत्वेन संयमरथे योजिताः व्यापारिताः भज्यन्ते संयमकियानुष्ठानात् स्खलन्ते। सम्यग् न प्रवर्त्तन्ते इत्यर्थः। कीदृशास्ते धृतिदुर्बलाः निर्बलचित्ताः धर्मेदुस्थिराइत्यर्थः / / इडिगारवए एगे, एगेत्थ रसगारवे।' सायागारविए एगे, एगे सुचिरकोहणे // 6 // मिक्खालसिए एगे, एगे ओमाणभीरुए। एगं च अणुसासम्मी, हेउहि कारणेहि य // 10 // एकः कश्चित् ऋद्धिगौरविकः ऋद्ध्या गौरवमस्यास्तीति ऋद्धिगौरविको मम श्राद्धा आन्याः, मम श्राद्धाः वश्याः, मम उपकरणं यस्वपात्रादिसमीचीनम् इत्यादि आत्मानं बहुमानरूपं मनुते सऋद्धिगौरविक उच्यते एतादृशो गुर्वादेशेन प्रवर्तते। एकः कश्चित् पुनरत्र रसगौरविकः आहारादिषु रसलोलुपः एतादृशो हिग्लानाद्याहारदानतपसे न प्रवर्तते। एकः कश्चित् कुशिष्यः सातागौरविको भवति साताया गौरव भवः सातागौरविकः एतादृशो हि विहारं कर्तुं न शक्नोति। एकः कश्चित् कुशिष्यः सुचिरक्रोधनः चिरं क्रोधकरणशीलः एतादृशो हि तपःक्रियानुष्ठानकरणे योग्यो न भवति॥६॥ एकः कश्चित् भिक्षालसिकः भिक्षायामालस्ययुक्तः एतादृशो हि गोचरीपरीषहसहनयोग्यो न भवति। एकः कश्चिदपमानभीरुर्भवति अपमानात् भीरुः अपमानभीरुः एतादृशो हि कस्यचिद् गृहे न प्रविशति। एकः कश्चित् स्तब्धोऽहङ्कारी भवति एतादृशो नि जकुग्रहात् विनयं कर्तुं न शक्नोति। च पुनः एकं कुशिष्य प्रतिशिक्षादाने आचार्यः एवं विचारयतिहेतुभिः कारणैः अहमेनं कुशिष्यमनुशास्मि कथम्। इति अध्याहारः कथं शिक्षयिष्यामि आचार्य इति चिन्तापरो भवति इति भावः // 10 // युग्गम्। सो वि अंतरभासिल्लो, दोसमेव पकुव्वई। आयरियाणं तं वयणं, पडिकूलेइ अमिक्खणं // 11 // सोऽपि कुशिष्यः आचार्येण शिक्षितः सन् अन्तरभाषायान् पुनर्दोषमेव अपराधमेव प्रकरोति आचार्यस्य शिक्षायां दोषमेव प्रकाशयति अपगुणग्राही भवतीत्यर्थः। पुनः स कुशिष्यः आचार्याणां यद्वचनं तद्वचनं वारं वारं प्रतिकूलयति संमुखं जल्पति। यदा आचार्याः किश्चित् शिक्षावचनं वदन्ति तदा अभीक्ष्णं मुहुरेवं वदति-किं मां यूयं वदत यूयमेव किं न कुरुत इत्यर्थः / / 11 // नसा ममं वियाणाइ, न वि सा मज्झ दाहिई। निग्गया होहि सा मन्ने, साहु अन्नोत्थ वचओ।।१२।। तदा आचार्यः किञ्चित् कुशिष्यं प्रति वदति-भो! शिष्य! अमुकस्य गृहस्थस्य गृहात् मह्यमाहाराद्यानीय देहि। तदा स कुशिष्यो वदति-सा श्राद्धी(ममं इति) मां न विजानीते मां न उपलक्षयति सा श्राद्धी मामाहारादिकंनदास्यति। अथवा स गुरुं प्रति एवं वदति-हेगुरो! अहमेवं मन्ये सा श्राद्धी निर्गता भविष्यति स्वग्रहादपरत्र इदानीं गता भविष्यति अथवा-अन्यः साधुः अस्मिन् कार्ये व्रजतु, अहं न व्रजामि इत्यथः // 12 // पेसिया पलिओविंति, ते पलियन्ति समंतओ। रायवेटिं व मन्नता, करिति मिउडिं मुहे // 13 // पुनस्तेकुशिष्याः आचार्येण कुत्रचित्गृहस्थगृहे आहाराद्यर्थं गृहस्थस्य आकारणाय वा प्रेषिताः सन्तः (पलिओविंति) अपगुवन्ति। वयं भवद्धिः कुत्र मुक्ता अस्माकं न स्मरसि। अथवा मिष्टाहारादिकं गोपयन्ति। अथवा उक्त कार्यं न निष्पादयन्ति। अनुत्पादितमपि उत्पादितमिति वदन्ति। उत्पादितंच अनुत्पादितं वदन्तिा अथवा यत्र भवद्भिर्वयं प्रेषिताः सगृही न किश्चत् दृष्टः इति पुष्टाः सन्तः अपलपन्ति। पुनस्तेकुशिष्याः समन्ततः सर्वासु दिक्षु परियन्ति पर्यटन्ति / गुरुपाचे कदाचिन्न आयान्ति न उपनविशन्ति कदाचिद्वयं गुरुणां पार्श्वे स्थास्यामस्तदाऽस्माकं किश्चित्कार्यं कथयिष्यन्ति इति मत्वा अन्यत्र भ्रमन्तिइति भावः। कदाचित्कस्मिन् कार्य गुरुभिः प्रेषितास्तदा राजवेष्टिम् इव मन्यमानास्तत्कार्यं कुर्वन्ति, नृपस्य वेष्टिः (राजभृतिः) पतिता इति जानतो मुखे भृकुटी भ्रूभङ्गरचनां कुर्वन्ति। अन्यामपि ईशूचिकां चेष्टां कुर्वन्तीति भावः // 13 // वाइया संगहिया चेव, भत्तपाणेण पोसिया। जायपक्खा जहा हंसा, पक्कमति दिसो दिसिं ||14|| पुनस्ते कुशिष्याः गुरुभिर्वाचिताः सूत्रं ग्राहिताः शास्वाभ्यासं कारयित्वा पण्डिताः कृताः, पुनः संगृहीताः सम्यक् स्वनिश्राया रक्षिताः, पुनर्भक्तपानैः पोषिताः पुष्टिं नीताः, चकारात् दीक्षिताः स्वयमेव उपस्थापिताः, पश्चात् ते कार्ये सृते दिशो दिशि प्रकमन्ति यथेच्छ विहरन्ति, ते कुशिष्याः के ? यथा-जातपक्षाः हंसाः यथा जाताः पक्षास्तनूरुहाणि येषां ते जातपक्षाः हंसा इव यथा उत्पन्नपक्षा हंसाः स्वजननी जनकं च त्यक्त्वा दशसु दिक्षु व्रजन्तिा तथा ते कुशिष्याः अपि इति भावः॥१४॥ अह सारही विचिन्तेइ, खलुंकेहिं समं गओ। किं? मज्झ दुट्ठसीसेहिं, अप्पा मे अवसीयई / / 15 / / अथाऽनन्तरं सारथिर्गाचार्यों धर्मयानस्य प्रेरकः चेतसि चिन्तयति। खलुंकैर्गलिवृषभसदृशैः कुशिष्यैः समं गतः सहितः किंचिन्तयति? -एभिर्दुष्टशिष्यैः प्रेरितैः सद्भिः (किं मज्झइति) किम् ऐहिकामुष्मिकफलं वा मम प्रयोजनं सिद्व्यति। दुष्टशिष्यैः प्रेरितैः केवलं मे मम आत्मा एव अवसीदति / तेषां प्रेरणात् स्वकृत्यहानिरेव भविष्यति नान्यत्किमपि फलं तत् एतेषां कुशिष्याणां त्यागेन मया उद्यतविहारिणा एव भाव्यमिति चिन्तयति॥१५॥ जारिसा मम मीसाउ,तारिसा गलिगद्दिहा। गलिगदहे चइत्ता णं, दढं परिमण्हई तवं / / 16 / / पुनः स आचार्यश्चिन्तयतियादृशाः मम शिष्याः सन्ति तादृशा गलिगर्दभा भवन्ति / अत्र गलिगर्दभदृष्टान्तेन शिष्याणामत्यन्त निन्दा सूचिता। ततः गर्गाचार्या गलिगर्दभसदृशान्