________________ खलुक ७२५-अभिधानराजेन्द्रः भाग-३ खलुक जे किर गुरुपडिणीया, सवला असमाहिकारगा पावा। कलहकरणस्सभावा, जिणवयणे ते किर खलुंका॥२८॥ पिसुणा परोवयावी, भिन्नरहस्सा परं परिभवंति। निव्वेयणिज्जा सढा, जिणवयणे ते किर खलुंका||२६।। (दंसगमसगसमाण त्ति) दंशमशकैः समानास्तुल्या दंशमशकसमानास्ते हि जात्यादिभिः तद्वत् तुदन्तीति, तथा जलौकावृश्चिकसमाश्च प्रस्तावाच्छिष्या ये भवन्ति दोषग्राहितया अप्रस्तुतपृच्छादिनोद्वेजकतया च पठन्ति। (जलूगविच्छुगसमा य त्ति) यथा वृश्चिकोऽवष्टब्धो विध्यति कण्टकेनैवं ये शिष्यमाणा गुरुं वचनकण्टकैर्विध्यन्ति तेएवंविधाः किल भवन्ति खलुंका भावत इति गम्यते / तीक्ष्णा असहिष्णवः, मृदवोऽलसतया कार्यकरणं प्रत्यदक्षाः चण्डाः कोपनतया, मार्दवेन चरन्ति मार्दविकाः शतकृत्वोऽपि गुरुप्रेरितान सम्यगनुष्ठानं प्रति प्रवर्तन्ते किंत्वलसा एव अमीषां द्वन्द्वः॥२७॥ अन्यचये किल गुरुप्रत्यनीकाः आचार्यादिप्रतिकूलाः कुलवालकवत्, वलाः सक्लचारित्रयोगात्, असमाधिकारका गुर्वादिनामसमाधानजनकाः, अत एव पापा अधिकरणकारकात्मानः, कलहकर्तृस्वभावाः सदनुष्ठानं प्रति प्रेर्यमाणा युद्धायैवोपतिष्ठन्ते। जिनवचने सर्वज्ञशासने ते किल खलुका उच्यन्त इति शेषः।।२८।। तथा पिशुनाः सूचकाः, अत एव (परोवयावीति) परोपतापिनः, भिन्नरहस्या विश्वस्तजनकथितरहस्यभेदिनः, तथा परमन्यं परिभवन्ति येन केनचित्यप्रकारेणाभिभवन्ति। (निव्वेयणिज्ज त्ति) निवेदनीया निर्वेदं प्राप्याः प्रक्रमाद्यतिकृतेन / पाठान्तरतो निर्गता वचनीयादुपदेशवाक्यात्मकाद् ये ते निर्वचनीयाः, चः समुचये, भिन्नक्रमश्च, ततः शठाश्च मायाविनः, पठ्यते च--"निद्दयनिस्सीलसवृत्तिसुगममेव जिनवचने सर्वज्ञशासने भणिता ये इति शेषः। ते प्रागभिहितस्वरूपाः किल खलुका इति गाथात्रयार्थः।२६।। ततः किमित्याहतम्हा खलुंकभावं-चइऊणं पंडिएण पुरिसेण। कायव्वा होइ मई, ऊज्जुसहावम्मि भावेणं||३०|| तस्मात् इत्थं दोषवन्तं खलुंकभावं त्यक्त्वा, पण्डितेन बुद्धिमता पुरुषेणोपलक्षणत्वात् स्त्र्यादिना च कर्तव्या भवति। मतिषुद्धिः क्य ऋजुस्वभावे आर्जवे भावे परमार्थे न तु बहिर्वत्यै वेति गाथार्थः।।३०।। उत्त०२६ अ० खलुंकदृष्टान्तेन विनीतशिष्यप्ररूपणाधेरे गणहरे गग्गे, मुणी आसि विसारए। आइन्ने, गणिभावम्मि, समाहिं पडिसंधए||१|| गार्यो नाम गणधरो मुनिः स्थविरः आसीत् / गणस्य गच्छस्य धारकत्वाद्गणधरः, धर्मे स्थिरीकरणत्वात्स्थविरः, गर्गगोत्रोत्पन्नतत्यात् गार्यो, मनुते सर्वसावधविरमणस्य प्रतिज्ञां कुरुते इति मुनिः। कीदृशो गार्य:--विशारदः सर्वशास्त्रनिपुणः। पुनः कीदृशः सः--आकीर्णः आचार्यगुणैव्याप्तः। पुनः कीदृशः सः-गणिभावे आचार्यत्वे स्थितः। पुनः स गार्यो गणधरः समाधि धत्ते। कुशिष्यैः त्रोटितं ज्ञानदर्शनचारित्राणां समाधि प्रतिसंधयतीत्यर्थः। वहणे वहमाणस्स, कंतारं अइवत्तई। जोए य वहमाणस्स, संसारं अइवत्तई।।२।। यथा यथा वहने शकटादौ विनीततरगवृषभादीन् (वहमाणस्स इति) उह्यमानस्य सारथ्यादेः (कंतारम्) अरण्यमतिवर्त्तते सम्पूर्ण भवति। तथा योगे संयमव्यापारेषु शिष्यान् वाहयतः आचार्यस्य संसारः अतिवर्तते शिष्याणां विनीतत्वं दृष्ट्वा स्वयं समाधिमान्जायते। शिष्यास्तु बिनीतत्वेन स्वयं संसारमुल्लयन्ते एव, एवं उभयोर्विनीत शिष्यसदाचार्ययोर्योगः सम्बन्धः संसारच्छेदकर इतिभावः।।२।। खलुंके जो उ जोएइ, विहम्माणो किलस्सई। असमाहिं च वेएइ, तोत्तओय से भजई|३|| यस्तु सारथिः, खलुंकान् गलिवृषभान योजयति रथे स्थापयति। स सारथिः (विहम्माणो इति) विशेषेण तान् खलुंकान् घ्नन् प्राजनकेन ताडयन् संक्लिश्यते संक्लेशं प्राप्नेति। अत एव असमाधिम् असाता वेदयते प्राप्नोति च पुनस्तस्य खलुंकवृषभयोजयतुः, पुरुषस्य तोत्रकः प्राजनको भज्यते खलुंकानामतिकुट्टनात् प्राजनको भज्यते इति भावः॥३॥ एणं मसइ पुच्छंमि, एग विधइ अभिक्खणं। एगो भंजइसमिलं, एगो उप्पहपट्ठिओ|४|| पुनः खलुंकवृषभस्वामी रथारोहको रुष्टः सन्तं खलुंकंपुच्छे दन्तैर्दशति एकम्। स एवा एकं गलिवृषभम् अभीक्ष्णं बारं 2 विध्यति प्राजनकस्य आरया व्यथयति। एको गलिवृषभः समिलां युगकीलिका भनक्ति। एकः पुनर्गलिवृषभः उत्पथमार्ग प्रस्थितो भवति / / 4 / / एगो पडइ पासेणं, निवेसइ निवज्जई। उकुदइ उप्फिडई, सढे बालगवीवए।।५।। _एको गलिस्ताडितः सन् पार्श्वेन वामदक्षिणभागेन पतति। अन्यः कश्चिद्भूमौ निवसने नीचैस्तिष्ठति। एकः कश्चिन्निपद्यते स्वपिति प्रलम्बो भूत्वा शेते। एक उत्कूईति उच्छलतिद१रवत् चतुःफालो भवति। अन्यः शठो भवति धूर्तत्वमाचरति। अन्यः कश्चित् गलिर्वलिवर्दो वालगवीं लधिष्ठां धेनुं दृष्ट्वा तामनुव्रजति।।५।। माई मुद्धेण पडइ, कुद्धे गच्छइ, पडिपह। मयलक्खेण चिट्ठइ, वेगेण य पहावई // 6 // एको मायी मायावान् भूत्वा मस्तकं भूमौ निक्षिप्य पतति। एकः कश्चित् कुद्धः सन् प्रतिपथं प्रतिकूलः पन्थाः प्रतिपथस्तंप्रतिपथम् अग्रेतनमार्ग त्यक्त्वा पश्चान्मार्ग गच्छतिः एकः कश्चित् मृतलक्ष्येण तिष्ठति मृतस्य लक्षणं कृत्वा तिष्ठति निश्चेष्टो भूत्वा पततीत्यर्थः। यदाच पुनः कथञ्चित् सज्जीकृत्य उत्थापितस्तदा वेगेन प्रधावति, अनया रीत्या धावति यथा पश्चात्स्वामी ग्रहीतुं न शक्रोति॥६॥ छिन्नाले च्छिंदई सल्लिं, दुहन्ते भज्जई जुगं। से वि य सुस्सुया इत्ता, उज्जूहित्ता पलायई / / 7 / / एकश्छन्नालो दुष्टजातीयः कश्चित् (सल्लि इति) रस्मि बन्धरतज्जु छिनत्ति बलात् त्रोटयति / अन्यो दुर्दान्तो दमितुमशक्यो युगं जूसरं भनक्ति। (से वि य इति) स च दुष्टो बलीवर्दः सुतराम् अतिशयेन पूत्कृत्य अत्यन्तपूत्कारं कृत्वा उत्प्रावल्येन (जूहि