________________ खयायार 721 - अभिधानराजेन्द्रः भाग-३ खयायार त्ता० जाव उवट्ठावित्तए वा संभुजित्तए वा संवसित्तए वा तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा तं च णिग्गंथीओ णो इच्छेज्जा, सेहिमेव णियं ठाणं ॥३शा व्य० अ० ७उ०। अस्य सूत्रस्य संबन्धमाहअत्थेण गंथतो वा, संबंधो, सय्वहा अपडिसिद्धो। सुत्तं अत्थमवेक्खति, अत्थो विन सुत्तमतियाति // 34 // अर्थतो ग्रन्थतश्च संबन्धोऽप्रतिषिद्धः सर्वथा यतः सूत्रमर्थमपेक्षते / अर्थेऽपि च निर्ग्रन्थीनामधिकारे सूत्रमिदं प्रवृत्तमतः सूत्रतोऽर्थतश्च संबन्धोऽस्तीति न किंचिदनुपपन्नम्॥३४॥ नदिसोयसरिसओ वा, अहिगारो एस होई दट्ठय्वो। छट्ठाणंतरसुत्ता, समणीणमयं तु जाजोगे ||35|| अथवा षष्ठोद्देशके चरमानन्तरसूत्रद्वयादारभ्य एषोऽधिकारो नदीस्रोतः सदृशो द्रष्टव्योऽयं तुयोगस्तावद्यावत् श्रमणीनामधिकारः।।३५।। अनेन संबन्धेनायातस्य व्याख्या। कल्पते निर्ग्रन्था निर्गन्थीरापृच्छ्य अनापृच्छय वा निर्ग्रन्थीमन्यगणादागतां क्षताचारां संक्लिष्टाचारचरित्रं तस्मात्स्थानात्आलोष्य प्रतिक्राम्य प्रायश्चित्त प्रतिपाद्य प्रष्टुं वा वाचायितुं वा उप स्थापयितुं वा संन्नोक्तुं वा संवस्तुं वा तस्या इत्वरां दिशमाचार्यलक्षणमनुदिशमुपाध्यायलक्षणां च उद्देष्टुं वा धारयितुं वा ता च निर्ग्रन्थ्यः सांभोगिक्यो वा नेच्छेयुस्तर्हि (सेहिमेव नियं ठाणं) निजमात्मीयं स्थानं प्रतिगमयतामपि तां परित्यजतामपीति भावः / निर्दोषस्त्वां प्रति सिद्धिरेवनकश्चनापि दोष इति सूत्र संक्षेपार्थः / (2-3) सम्प्रति भाष्यविस्तरःसंविग्गाणुवसंती, आभीरी दिक्खिया य इतरेहिं। तत्थाऽऽरंभं दर्छ , विपरिणमति-तरे व दिट्ठा उ॥३६॥ काचित् आभीरी संविग्नानां समीपे धर्म श्रुत्वा उपशान्ता। तेच संविग्ना अन्यत्र विहृताः। इतरे असंविग्नाः समागताः। तैः सा आभीरी दीक्षिता। तेषां वा असंविनानामारम्भं रन्धनादिकं दृष्टवा सा विपरिणमति / विपरिणामे च तस्या अभिप्रायो जातस्तेषामेव संविग्नानां समीपमुपगच्छामि। एवं चिन्तयन्त्या यया से इतरे संविग्नाः स्नानादिसमवसरणे दृष्टाः श्रुता वा। यथा अमुकस्थाने तिष्ठन्ति॥३६।। तइ चेव अब्भुवगया, जह छट्टद्देस पण्णिया पुवं / अविसज्जंताणं पि य, दंडो तह चेव पुव्वुत्तो // 37 / / सा तत्र गता यत्र ते संविग्नाः गत्वा श्रुत्वा च ग्रहणशिक्षामासेवनाशिक्षामन्यमाचार्यमन्यमुपाध्यायमन्यां च प्रवर्तिनी यायत्ते एवमुक्ते यथैव षष्ठोद्देशे-चतुर्थी "मग्गए सिक्ख' मित्यर्थः पूर्वं वर्णिता, तथैव एषामविसंविग्नैरभ्युपगता। यथा विसर्जयतां प्रवर्तिन्युपाध्यायाचार्याणां पूर्व चदुःप्रायश्चित्त दण्डस्तथैयात्रापि दृष्टव्यः / / 37|| तं पुण संविग्गमणं, तत्याऽऽणीयं तु जइ न इच्छेज्जा। नियग तो संजईउ, ममकाराईहिँ कज्जेहिं // 38 // तां पुनः संविग्नमानसांतत्रानीतां यदि निजकाः संयत्यो मडकारादिभिः कायैर्नेच्छेयुः॥३॥ तान्येव 'ममकारादीनि' कारणान्याह - पासत्थमडत्तेणं, पगती विस्सा अचक्खुकंताय। गुरुगणतण्णीयस्सव, नेच्छंती पाडिसिद्धीतो।।३।। ओमाणं नो काहिति, सिंखलबद्धा व ततो सव्वातो। मा होहिइ सागरियं, सीयंति व उज्जुयं नेच्छे / / 4 / / यस्याः सा शिष्या तया सह तासां मैत्री ततो मा ते पार्श्वस्थाः अस्माकमुपरि मन्युं कार्षी रिति, पार्श्वस्थममत्येन नेच्छन्ति। अथवा सा कर्मानुभावतः प्राकृत्या प्रायः सर्वजनस्यापि द्वेष्या। यदि वा पूर्वभवानुभावत एकस्याः प्रवर्तिन्या अचक्षुःकान्ता। अथवा सा प्रवर्तिनी आत्मीयस्याचार्यस्य विषये केनाऽपि कारणेनु कुपिता वर्तते, यदि वा गणस्य गच्छस्योपरि, एतचाचार्यो न जानाति। यद्वा तस्याः संयत्या यो निजवर्गस्तस्य विषये प्रवर्तिन्याः प्रतिसिद्धिःप्रतिस्पर्द्धता विद्यते॥३६।। अथ वा ताः सर्वा अपि संयत्यः श्रृङ्गलाबद्धाः परस्परं स्वजनाः ततो नोऽस्माकमपमानमेषा करिष्यति। तस्मान्मा सागारिकं भवतु / यदि वा ताः सीदन्ति तथाऽऽचार्या न जानन्ति / सा च धर्म श्रद्धया पार्श्वस्थाविग्रहायान्यत्र समागता साऽस्माकं सागारिकीतिकारणैस्तामुद्यतामपि नेच्छन्ति // 40 // अत्र प्रायश्चित्तविधिमाह - भणिय वसभाभिसेए, आयरिय कुले गणेण संघेण / लहुगादि जाव मूलं, अण्णोसि गणो य दायय्वो // 41|| एवं पुव्वगमेणं, विगिंचणं जाव होइ सव्वासिं। देवगण मणुण्णीणं, अमणुण्ण चउण्हमेगयरं / / 42|| वृषभैरानीतां यदि पूर्वकारणैस्तां नेच्छन्ति तदागणं प्रायश्चित्तं चतुर्लघु। अभिषेक उपाध्यायस्तेन ताः संयत्यो भणनाय प्रतीच्छते मा संयतीति तथापि चेन्नेच्छति चतुर्गुरु। एवमाचार्येणापि भणनेऽनिच्छायां षड् लघु। कुलेनषड्गुरु, गणे छेदः / सङ्घन मूलम्। तथाचाह-लघुकादि चतुर्लघ्वादि प्रायश्चित्तं क्रमेण तावत् द्रष्टव्यं यावन्मूलं सधभणनेऽप्यनिच्छाया प्रवर्तिन्या गणोऽपहियते अन्यस्या गणो दातव्यः / अथ सा प्रवर्तिनी ममत्वेन गणं नेच्छति त_न्यस्या दीयते॥४१।। एवं पूर्वगमेन (विगिचण) परित्यजनं, तावत् द्रष्टव्यम् यावत् सर्वासामपि भवति / ततो यस्तस्याचार्यस्य द्वितीयो गच्छः तत्र नीयते। तत्राऽपि यदि तथैव ता नेच्छन्ति। ततोऽन्यगच्छसक्ताः साम्भोगिक्यः संयत्यस्तासां दीयते। ता अपि यदि नेच्छेयुस्तर्हि अन्यसाम्भोगिकानां दीयते। तथा चाह--अन्यासां मनोज्ञानाममनोज्ञानां च सर्वसंख्यया चतसृणामेकतरं स्थानं ददाति। तत्र प्रथमं स्थानमात्मीयाः संयत्यः द्वितीयं गच्छवर्त्तिन्यः। तृतीयमन्याः साम्भोगिक्यः / चतुर्थममनोज्ञाः। अथवा अन्यथा चतुर्णामेकतरमिति व्याख्यायते॥४२॥ समणुण्णमणुण्णाणं, संजय तह संजतीण चउरो य / पासत्थममत्तादिव, अद्धाणादिव्व जे चउरो।।४३|| समनोज्ञानां संयतानां समुदाय एकं स्थानम् / समनोज्ञानां संयतीनां चतुर्थम् / एवमेतानि चत्वारि स्थानानि / एतेषामेकतर समनोज्ञसंयतीनामात्मतृतीयानाम्, द्वितीयं गच्छवर्तिनीनामन्य गच्छवर्तिनीनां वा स्थानं दीयते / तदभावे अमनोज्ञसंयतीनामपि। अथ वा-पार्श्वस्यममत्वं, प्रकृ त्या सर्वजनद्वेष्या प्रवत्तिन्या