________________ खयायार 719 - अभिधानराजेन्द्रः भाग-३ खयायार विनिश्चयेत् परित्यजेत् / पुनरन्यस्या गणं ददति / एवं क्रमेण ससामपि / पूर्वस्याः पूर्वस्या अनिच्छायांगणोदातव्यः / सर्वासामनिच्छायां सर्वासां परित्यागः ||1|| अथ कस्मात् ता गणं दीयमानं नेच्छन्ति, तत आहपवत्तिणिममत्तेण, गीयत्थातो गणं जई। धारइत्ता ण इच्छंति, सव्वासिं पि विर्गिचणा।।१२।। यदिगीतार्था अपि गणधारयितुंप्रवर्तिनीममत्वेन नेच्छन्ति तदा सर्वासां विगिश्चना परित्यागः // 12 // चोयग गुरुको दंडो, पक्खेवग चरियसिद्धपुत्तीहिं। विसयहरणट्ठया ते-णियं च एयं न नाहिंति // 13|| चोदकः प्राह-प्रवर्तिन्याः तुच्छे अपराधे गुरुको दण्डो दत्तः? आचार्यः प्राह-अपराधोऽपितासांगरीयान्, यत् व्याहृताः सत्यो निष्ठुरं भाषन्ते। अन्यचता एवमशिक्ष्यमाणा अनापृच्छ्योपधिं गृह्णन्त्यश्चरिकासिद्धपुत्रीणां प्रक्षेपमुपचारं विषयनिमित्तहरणार्थ-तया न ज्ञास्यन्ति, नापि कयाचित्सिद्धपुत्रिकया स्तैन्यकरणाय प्रव्रजितया एतत् उत्कृष्टवस्त्रादिकं स्तेनितंन ज्ञास्यन्ति, तस्मादेतच्छिज्ञापननिमित्तमेष गुरुको दण्डः / / 13 / / एतदेव सप्रपञ्चमाह-- अवराहो गुरु तासिं, सच्छंदेणोवहिं तु जा घेत्तुं / न कहंती मिन्ना वा, जं निट्टरमुत्तरं वेति ||14|| अपराधोऽपितासां संयतीनां गुरुरेवा यतः स्वच्छन्दास्ताउपधिंगृहीत्वा न कथयन्ति / भिन्ना वा ज्ञाता वा सत्योयन्निष्ठुरमुत्तरं ब्रुवते / अन्यश्च अनापृच्छ्य गृह्णन्त्यो विषयहरणार्थतया चरिकासिद्धपुत्रीभिः प्रक्षेपकं न ज्ञास्यन्ति // 14 // एतदेव भावयतिअवियत्ता निक्खंता, निरोह लावनलंकियं दिस्सा। विरहालंभे चरिया, आराहणा दिक्खलक्खेण / / 15 / / काऽपि महेला कुटुम्बिनोऽवियत्ता अप्रीतिमती अहमिति प्रवजिता, नवरं संयतीत्वे निरोधेन कुतोऽपि कर्मकरणादीनामर्थाय निर्गमनम्, ततः शरीरस्य लावण्यमुद्भूतं यातं, तां लावण्यालङ्कृतां भिक्षामटन्तीं स भर्ता दृष्टवा लोभं गतः, सा चात्मतृतीया भिक्षामटतीति विरहो न विद्यते यत्र तामालपयति, ततः स चरिकां दानसंमानाभ्यामाराधयति। ततश्चरिका ब्रूते-संदिश यन्मया कर्तव्यम् / स प्राह-एतां सती तथा कुरुत यथा प्रतिभज्यते, ततः सा दीक्षालक्ष्येण दीक्षाव्याजेनाहं प्रवजिष्यमीत्येवंरूपेण तां संयतीमुपागता / / 15 / / अहवा अण्णो कोई,रूवगुणुम्माइतो सुविहियाए। चरिगाए पक्खेवं, करेज्ज छिडं अविंदंतो॥१६|| अथ वा कोऽप्यन्योऽविरतः सुविहितायाः संयत्या रूपगुणेनोन्मादित उन्मादं ग्राहितः छिद्रमविन्दन् अलभमानश्चरिकया दानसंमानाभ्यामाराधितया प्रक्षेपमुपचारं कुर्यात् // 16 // सिद्धा वि कावि एवं, अहवा उक्कोसणंतगा भिन्ना। होहं वीसंभेउ य, गहियागहिए य लिंगम्मि // 17 // अथ व चरिकाया अभावे चरिकया प्रयोजनासिद्धौ, काऽपि सिद्धाऽपि | सिद्धपुत्रिकाऽपि एवं दानसंमानाभ्यां गृहीत्वा प्रयुज्येत, ततोऽनापृच्छया ग्रहणे जानन्त्यस्तास्तमप्युफ्चारं गृह्णीयुः, तथा च सति महान् दोषः / अथ वा सा सिद्धपुत्रिका तासां संयतीनामुत्कृष्टान्यनन्तकानि वस्त्राणि दृष्टवा भिन्ना वस्त्रग्रहणलोभेन वित्तभक्तिमुपागताभविष्याम्यहं प्रव्रजितेति विश्रभ्य गृहीते अगृहीते च लिङ्गे उत्कृष्टवस्त्राणां स्तैन्यं कुर्यात्।।१७।। पर आहवीसज्जिय नासिहित्ती, दिलुतो तत्थ घंटलोहेण। तम्हा पवत्तिणीए, सारण जयणाएँ कायव्वा।।१८|| चोदकः प्राह-नन्वेवं विसर्जितास्ता नक्ष्यन्ति, तस्मान्मा क्रियतामीदृशो गुरुको दण्डः / आचार्यः प्राह-दृष्टान्तस्तत्र घण्टालोहेन। किमुक्तं भवति-यस्मिन्नेव दिने यत्र लोहे घण्टा कृता तल्लोहं तस्मिन्नेव दिने विनष्टम्। एवं यत्र दिवसे ताः स्वच्छन्दतो वस्त्राणि गृहीतवत्यस्तस्मिन्नेव दिने ता विनष्टाः, यत एते दोषास्तस्मात् प्रवर्त्तिन्याः सारणा यतनया कर्त्तव्या // 18 // तामेवाहधम्मं जई काउ समुट्ठियासिं, अप्पेव दुग्गं तु कुमंसएहिं। तदाणि वचामों गुरूणपासं, भव्वं अभव्वं च वदंति ते उ॥१६॥ सा परिवाजिका, सिद्धपुत्रिका वा यदि संयतानामुत्तिष्ठति, ततः सा प्रवर्तिन्या वक्तव्या, यदि धर्म कर्तुं समुत्थिताऽसि तर्हि संप्रति व्रजामो गुरुणां पार्श्वे यतो भव्यमभव्यं वा ते विदन्ति वयं तु किं जानीमः / गुरवः कथं जानन्तीति चेत् आहजो जेण अभिप्पाए-ण एति तं भो गुरू वियाणंति। पारगमपारग त्तिय, लक्खणतो दिस्स जाणंति / / 20 / / यो येनाभिप्रायेण समागच्छति तत् भोः ! गुरवो विजानन्ति / तथा प्रव्रज्याग्रहीतुकामं दृष्टवा लक्षणतएतत्जानन्ति, यथा-एष प्रव्रज्यायाः पारगो भविष्यत्येषोऽपारग इति // 20 // तथापत्ता पोरिसिमादी, छाया मुव्वाय वत्थु साहंति। चोदेति पुष्वदोसे, रक्खंती नाउ से भावं / / 21 / / प्राप्ता पौरुष्यादिकं प्रथमपौरुष्यादिकं गुरवे निवेदनीया। तथा (छाता) बुभुक्षिता, उदाता परिश्रान्ता, तथा उषिता, एतदपि संयत्यो गुरूणा कथयन्ति / गुरुश्च पूर्वदोषान् चोदयति / तथा (से) तस्या दीक्षितांया भावमभिप्रायं द्रष्टुं ज्ञात्वा गुरवो रक्षयन्ति॥२१॥ साम्प्रतमेनामेव विवरीषुः प्रथमतः प्राप्तपौरुष्यादिकमिति विवृणोतिजा जीऍ होति पत्ता, नयंति ता तीऍ उगुरुसमीवे। छाउव्वायनिमित्तं, वितिया तइयाऐं चरमाए।।२२।। यस्यां पौरुष्यां संयतीनां पार्श्वे प्राप्ता भवति, तस्यां पौरुष्यां संयत्यो गुरुसमीपं नयन्ति / अथ सा छाता, उदाता वा, तर्हि तन्निमित्तं तेन कारणेन तस्यां तु द्वितीयस्यां, तृतीयस्यां, चरमायां वा गुरुसमीपं नीयते, नीत्वा च छातादिकं सर्व कथ्यते। एतेन छातोरातेति व्याख्यातम्॥२॥ साम्प्रतम् “उषिता" इति भावयतिचरमाएँ जाव दिज्जइ, भत्तं विस्सामयंति णं जाव।